सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 291, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 291

२२६ समराङ्गणसूत्रधारे
तस्मिन् वसन्नल्पवित्तः स्वल्पमित्रोऽल्पबान्धवः ।
स्त्रीजितश्च भवेन्नित्यं विविधव्याधिपीडितः ॥ १४ ॥
वास्तुप्रवेशं१तो यत् तु गृहं दक्षिणतो भवेत् ।
प्रदक्षिणप्रवेशत्वात् तद् विद्यात् पूर्णबाहुकम् ॥ १५ ॥
तत्र पुत्रांश्च पौत्रांश्च धनधान्यसुखानि च ।
प्राप्नुवन्ति नरा नित्यं वसन्तो वास्तुनि ध्रुवम् ॥ १६ ॥
गृहपृष्ठं समाश्रित्य वास्तुद्वारं यदा भवेत् ।
प्रत्यक्षाग्रस्तवसौ निन्द्यो वामावर्तप्रवेशवत् ॥ १७ ॥
ब्राह्मणो निवसेन्मुख्ये द्विनाम्नि क्षत्रियो वसेत् ।
वितथे निवसेद् वैश्यः शूद्रः२ सुग्रीवनामनि ॥ १८ ॥
एते वैशेषिकाः सर्वे वर्णानामनुपूर्वशः ।
वास्तुद्वारनिवेशाश्च वासैः सह निरूपिताः ॥ १९ ॥
यथोत्तरमथोच्यन्ते वर्णानां गृहकल्पनाः ।
†शूद्रविट्क्षत्रियाणां च राज्ञां च जयकाङ्क्षिणाम् ॥ २० ॥
सार्धात्रिभूमि३ शूद्राणां४ वेश्म कुर्याद् विभूतये ।
अतोऽधिकतरं यत् स्यात् तत् करोति कुलक्षयम्५ ॥ २१ ॥
वैश्यस्य वर्धयेद् गेहमर्धपञ्चमभूमिकम् ।
अतिप्रमाणे तत्रास्य धनबन्धुपरिक्षयः ॥ २२ ॥
क्षत्रियस्य गृहं कुर्यादर्धषष्ठतलं परम् ।
सम्पद्दलर्समृद्ध्यै६ तदतिरिक्तं तु तच्छिदे ॥ २३ ॥
परं विप्रस्य भवनमर्धसप्तमभूमिकम् ।
स्वाध्यायाचारभोगार्थमत्युच्चं तु भयावहम् ॥ २४ ॥
र्यजन्ते७ राजसूयाद्यैः ८ऋतुभिर्येऽवनीश्वराः ।
९तैलेरर्धाष्टमैस्तेषां कारयेद् भवनोत्तमम् ॥ २५ ॥

१ द. सितो यं तु; ख. ग. शि। २ द. शूद्रं सुं । ३ द. सार्द्धं त्रिभूमिश्शूद्रेण; ख. ग.
र्ध। ४ ख. ग. द्वेण वे। ५ द. क्षयः। ६ द. ॰समृद्धौ । ७ द. जयन्ते। ८ द. ऋ।
९ द. तैलेरद्धाष्टमेतेषां ।
† 'शूद्रविट्क्षत्रविप्राणां राज्ञाम्' इति पाठः स्यात्।