सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 423, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 423

पादोनं चन्द्रिकाभागं कलशश्च द्वि^२भागिकः ।
प्रासादं ये सुभद्राख्यं कारयन्ति सुलक्षणम् ॥ १११ ॥
कल्पकोटिसहस्राणि भद्रं तेषां शिवाग्रतः ।
सुभद्रः ॥
सर्वपापक्षयकरस्त्रिषु लोकेषु कीर्तितैः^३ ॥ ११२ ॥
रिपुकेसरिसंज्ञोऽयं^४ प्रासादः परिकीर्त्यते ।
चतुरश्रीकृते क्षेत्रे भागविंशतिभाजिते ॥ ११३ ॥
द्विपदा बाह्यभित्तिः स्यान्मध्यभित्तिश्च तावता(ती) ।
भ्रमणी द्विपदा कार्या विस्तारात् सर्वदिग्गताः(ग्गता)^५ ॥ ११४ ॥
गर्भोऽष्टविस्तृतः कर्णः( ^६+ कन्द ?) सार्धभागिकः ।
चतुर्भागायतं भद्रं कुर्याद् भागेन निर्गतम् ॥ ११५ ॥
रथकोऽसौ समुद्दिष्टो विधातव्यश्चतुर्दिशम् ।
पार्श्वयोश्च प्रतिरथौ कार्यौ^८ सार्धपदायतौ ॥ ११६ ॥
पदार्धेन विनिष्क्रान्तौ ^९++ विविधेष्वपि ।
कर्णीयामश्चतुर्भागो द्विपदं कर्णभद्रकम् ॥ ११७ ॥
पदार्धेन विनिष्क्रान्तं बाह्यकर्णै^१०व्यवस्थितम् ।
पद(:?)पादेन विस्तीर्णं प्रविष्टं पदमात्रकम् ॥ ११८ ॥
कार्यं जलान्तरं मध्ये कर्णस्य तिलकस्य च ।
द्व्यंशस्तिलकविस्तारैः^१२ पदेनैकेन निर्गमः ॥ ११९ ॥
सुवर्णिताः^१३ स्युस्तिलका भद्रकोणै^१४व्यवस्थिताः ।
अष्टभागं भवेद् भद्रं पदत्रयविनिर्गतम् ॥ १२० ॥
चतसृष्वपि तद् दिक्षु कर्तव्यं स्तम्भभूषितम् ।
ऊर्ध्वमानमथ ब्रूमः प्रतिपत्रं सुखावहम् ॥ १२१ ॥


१ द. भं° । २ द. वि । ३ द. विश्रुततः । ४ द. ऽथ । ५ द. ग्गताः । ६ द. र्भा । ७ द.
कर्णः कंदः सार्ध द्वि° । ८ द. कार्यों भद्रप° । ९ द. न्तो विधिरेषरथेष्वपि । १० द. न्या । ११ द.
°र्णै । १२ द. र । १३ द. °र्त्ति । १४ द. °णे ।