सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

सप्तमः परिच्छेदः । ४४१
एवं च विशेषणमात्रस्य पुनरुपादाने समाप्तपुनरात्तत्वं न वाक्यान्तर-
स्येति विज्ञेयम् ।
गर्भितत्वं गुणः क्वापि—
यथा—
'दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते
सिद्धा सापि वदन्त एव हि वयं रोमाञ्चिताः पश्यत ।
विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो
यस्मात्प्रादुरभूत्कथाद्भुतमिदं यत्रैव चास्तं गतम् ॥'
अत्र वदन्त एवेत्यादि वाक्यं वाक्यान्तरप्रवेशात् चमत्कारातिशयं
पुष्णाति ।
पतत्प्रकर्षता तथा ॥ २८ ॥
तथेति क्वचित् गुणः । यथा—'चञ्चद्भुज-इत्यादि (३०२ पृ.)।
अत्र चतुर्थपादे सुकुमारार्थतया शब्दाडम्बरत्यागो गुणः ।
क्वचिदुक्तौ स्वशब्देन न दोषो व्यभिचारिणः ।
अनुभावविभावाभ्यां रचना यत्र नोचिता ॥ २९ ॥
हरस्यैव पिनाकसम्बन्धेन दुर्जयत्वमिति व्यक्तत्वाद् गुणत्वम् । नायं निशुम्भरिपुवति
नान्त्रो वितिक्षुर्धनुष्मन्नाह पुत्रो नहि नहि जटाजूटभार दधान । नायं व्याधो
नवगुणधर पश्य क्लादक्लात्पुण्डेरण्ये नवजलधरश्यामलं कोऽयमेति ॥' अत्र
द्वितीयस्य नहीति निपातनमुदायस्य वाचकत्वाभावेन कथितपदस्य न विषयः,
किं त्वधिकोऽपि राजपुत्रस्य जटाधारणमत्यन्तासम्भावीति व्यक्तत्वाद् गुण एव ॥
न वाक्यान्तरस्येति । पुनरुपादाने समाप्तपुनरात्तत्वं न दोष इत्यर्थः ।
दिङ्मातङ्गेति । दिङ्मातङ्गसमूहेन विभक्ताः परिच्छिन्नाश्चत्वार आघाटाः सीमा
यस्याः सा । साध्यते स्ववशीक्रियते । सिद्धा साधितापि सा मही । विप्राय
प्रतिपाद्यत इत्युत्तरेणान्वयः । किमपरमिति वाच्यमिति शेषः । दधैवाद्भुतमा-
श्चर्यम् । यत्रैवेति । तथा च तत्सुल्यो न भूतो न वर्तमानो न भविष्यतीति
भावः ॥ चमत्कारातिशयमिति । तेन युद्धवीरदानवीरयोः परिपोषः ॥
क्वचिदिति । यत्र पद्यांशे सुकुमारार्थत्वं तत्रेत्यर्थः ॥ इदानीं रसदोषाणां नियम-
विशेषे यथायथंमदोषत्वं गुणत्वं चाह—क्वचिदिति । रचना वरण्डम् । विभाव-

इस पृष्ठ पर कोई सुपाठ्य पाठ (text) उपलब्ध नहीं है। पृष्ठ पूर्णतः रिक्त (blank) है, केवल नीचे बाएँ कोने में कुछ अस्पष्ट मुद्रण चिह्न/धब्बे उपस्थित हैं।

दशमः परिच्छेदः । १८४
वर्णप्रत्ययलिङ्गानां प्रकृत्योः पदयोरपि ॥ ११ ॥
श्लेषाद्विभक्तिवचनभाषाणामष्टधा च सः ।
क्रमेणोदाहरणम्—
'प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता ।
अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि ॥'
अत्र 'विधौ' इति विधु-विधि-शब्दयोरेकादेशेन वर्णश्लेषः ।
'किरणा हरिणाङ्कस्य दक्षिणश्च समीरणः ।
कान्तोत्सङ्गजुषां नूनं सर्वे एव व्यथाविदः ॥'

४८८
साहित्यदर्पणे

'महदे सुरसंधं मे तमव समासङ्गमागमाहरणे ।
हर बहुसरणं तं चित्तमोहमवसर उमे सहसा ॥'
अत्र संस्कृतमहाराष्ट्ऱ्योः¹ ।
पदश्लेषोऽपीत्यवधेयम् ॥ भाषाश्लेषमाह—महदे इति । संस्कृतायॊ यथा—हे
महदे उत्सवदे, हे उमे हे गौरि आगमाहरणे विद्याग्रहणे मे मम तं प्रसिद्धं समासङ्गं
अव रक्ष । कीदृशम् । सुरसंधं देवप्रार्थनीयम् । अवसरे समये तं प्रसिद्धं चित्त-
मोहं सहसा झटिति हर अपनय । कीदृशम् । बहुसरणं बहुविषयगामिनम् । प्रकृ-
तार्थस्तु—मह-मम, देसु-देहि, रस-रतिम् । धम्मे-धर्मे, तमवस-तमोवशात्,
आस-आशाम्, गमागमा-संसारात्, हर-अपनय, णे-अस्माकम्, हग्गबहु-
शिववधू, सरणं-रक्षयित्री, तं-त्वम्, चित्तमोहं-चित्तमोह, अवसरउ-अवस-
रतु, मे-मम, सहसेति । भाषासंमे तु भाषाणामैकरूप्यमेव, न त्वर्थभेदः ।

  1. संस्कृतेति । संस्कृतप्राकृतयोरित्यर्थः । उत्कृष्टं प्राकृतं महाराष्ट्रीति व्यपदिश्यते ।
    न तु 'भक्तिविना वश नोहे वीण्यानें वा मृदङ्गनादानें । कन्यादानफलानें फेडी पापे
    मृदंगनादानें ॥' इत्यादिमहाराष्ट्रजनसुप्रसिद्धगायेति । तथा चोक्तं दण्डिना—'महारा-
    ष्ट्राश्रया भाषा प्रकृष्टं प्राकृतं विदुः । सागरः सूक्तिरत्नानां सेतुबन्धादि यन्मयम् ॥' इति ।
    संस्कृतमागध्योः श्लेषो यथा—'फुल्लारिलावरोले शलिलेशे शालशालिवशारे ।
    कमलाशवलाखिलेडमाले दिशमन्तकेऽनिशमे ॥' 'फुल्लारिणावरोल मधिक तरवा-
    रमऽविरलशूरम् । कमलाभवलालिवर मारयति शाम्यतो नियमम् ॥' इति मागधी
    छाया । 'फुल्लानि लालयन्ति पोषयन्त्येवशीला ये तेषां लावे छेदने लोम्बनिन् ।
    शमन्तीति शलाः मोषमाः ते मन्ति यत्र देशे स शली तं लिशत्यल्पीकरोतीति शलिले-
    शमस्मिन् । शालिगुंहाैः शालन्ते शोभन्ते ये तादृशातीति शालशालिन्यः स चासौ शूर-
    श्चेति, दुःशननऋत्वात्, तथाभूते । कमला लक्ष्मीस्तस्याः शवा हरिद्रानेपु लन्ति नम-
    तीत्येवंशीलं बलं यस्य स तस्मिन् । मलनं माउ, न विद्यते मागो यस्यामाउमाळ-
    स्तस्मिन् । 'मक्ष धारणे' । अनिवार्य इत्यर्थः । अन्तके मृत्यौ सति स वासुदेवे विपदे वा
    दिशामन्तेना दिशमनिशं प्रनिशेटस्मि ।' इति संस्कृतवाच्यार्थः । मागधन्तु—'फुल्लानां
    पद्मिनीरोषाणां या आलिः पङ्क्तिस्तद्वाने रोद्धुं कत्तनशे यत्र तत् । मारयानां यात्रिक-
    द्धेवेष शूरं वडिग्ह्डिमारणसमर्थम् । कमलानामाभव मरहन्द ये यन्ति ते च नेविन्विथ
    नेत्रम् । नियमं नियोजितनहुःशास्त्रं वन्यतित शाम्यतः शममुपोदपि मागधी । हारि
    तादृशं मधिकं विशेषेण मुनयोऽपि क्षुभ्यन्ति ।' इति । संस्कृतपैशाच्योर्यथा—'रतनेप-
    नादानं शुभन्मरस्तु बहुल लदानीमम् । अपनिमान समने सोपाकितान ना' इत्यादि
    'जने कृताने दाना मुखपीननेोपलदानीमम् । अपनिमान समने स पश्चिशानानं
    ? इति पैशाचीछाया । ...

[दशमः परिच्छेदः । ४८९]

पुनस्त्रिधा सभङ्गोऽथाभङ्गस्तदुभयात्मकः ॥ १२ ॥
एतद्भेद्त्रयं चोक्तभेदाष्टके यथासंभवं ज्ञेयम् ।
यथा वा—
‘येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो
यश्चोद्वृत्तभुजंगहारवलयोगङ्गां च योऽधारयत् ।
इह त्वर्थभेदोऽपीति भेदः ॥ यथासंभवमिति । ‘पृथुकार्तस्वर-’इत्यादौ
सभङ्गः । ‘नीतानाम्-’इत्यादावभङ्गः । ‘सर्वस्वं हर-’इत्यादौ सभङ्गाभङ्गः ॥
एकत्रैव तत्रितयमुदाहरति—यथावेति । सर्वदं. सर्वाभीष्टदाता माधव., सर्वदा
दानानि दत्स तान् । तत्प्रसिद्धं छल मायामासीनमाश्रितम् । अपगतेर्वरात्सेव मानो
यस्य तम् । अगा अचला निकाल्या कीर्तिर्यस्य तम् ।’ इति संस्कृतवाक्यार्थः । पैशाचन्तु
‘स पुरुषो रचयितुमात्मरचनाय कामविषये कृतामोदानां सुवर्णरजताभ्यामुत्कण्ठ्यो दान्यो
दाता तथाभूतानां गणिकानामप्रतिमानं न क्षमते न सहते न तदानीमादरममिलिषन्
कञ्चिद्रूपधृतगणिकोक्तोक्तिरियम् ।’ इति । संस्कृतशूरसेन्योर्यथा—‘तोदी नदिशिर-
मशेऽकलहं स मदा बलं विदन्नारिदम् । आर दमेतावर सामदमार गदामारम् ॥’ ततो
दृष्ट्वने गगनमदः कलहंसशनावदम्बिजान्नारितम् । आरतमेपावमर शाधनमार गतामा-
रन् ॥’ इति । शूरसेनीच्छाया । ‘तुदति परानिति तोदी, देशान् दिक्षु उपदेशः नदा मद्
वर्तत इति नदिकु न गणेन सहादेन मदो दस्य स , स निक् , सदा सर्वकालमेव अश्र-
लहं परिभूतमत्त्वात्रिवेरम्, अत एव दमेताया उपशमचेष्टादा अवमरो दस्य तत्, तथाप्यन्ते
द्विपदने इलामाः शरास्तान्पन्ति सण्डयन्तीलामदा धातृष्याः मद नैर्वचनं इति नाम-
दम्, गदामारम्, इदमारीत्सक्त दम्पान्नर्मध्ये आर सनार ।’ इति संस्कृतवाक्यार्थः ।
शौरसेनस्तु—‘आरत्तो निवृत्तो नेपानान्दनगो दत्र । शत्रनो नारः गनो दश । गत
आमारो यतस्त्व । शारदत्तमोवर्षन्ननेतर ।’ इति । संस्कृतपैशाचयोर्यथा—‘धीराः
ण्डगुने रनदुरुरवारिमद सु । अभवदम्रप्रसरावरशुरनिर्जरा तेज सु ॥’ ‘धीरा गण्डुड
नेदनमो दुधैर्वाधिकदस्यु । अभवदप्रसराररण रविनिजितास्ते दस्य ॥’ इत्यपभ्रंश-
च्छाया । ‘हे रमे, अवेरिव दुधैर्वादा इव द्विष द्विशिक्ष निर्यामन दम्याः दद्याभूता,
दृण्हत्सु, लघुः दग्धा, अमे दाने नाशदि द. नः व्यथितोऽन्न प्रसूरो दस्याः ना
अभवत्प्रमदा गण उद्दिष्वन्मपि पङ्क्त्या वरा प्रत्यक्षानिम्नगा दग्धाऽनुङ्गत दृष्ट ऋदि
च नक्षूद्रस्य च तदेव सहो दूर्द देवा हेतु तेज ह । वरदानन्दनेऽस्त्वित्यर्थः । अभ्राण्ड्
अभवद् ररनिर्यान्मण्डुडिना स्त्री गङ्गाऽग्रं दण्डान्तोपनीताऽवेऽपि धीरा गच्छता प्य-
सनेन सत्या न्व्या’ इति संस्कृतवाक्यार्थः । ‘हे धीराः, दुर्धरा वारिणो दन्यते यत्र त्या-
गृहस्तत्तेजोधनं इति गच्छन्तस्तस्तु । दस्य नेत्रक्रमः- हे न इमे दशवीक्षकाण्ड मृत्यो-
वेषा वाह्णव रविनिराण दान हवीतः ।’ इत्यपभ्रंशवाक्यार्थः ।
१. पुनरिति । त्रिभिर्भेदैरयं शेषः सङ्कीर्णेऽपि पृथगुदाहरणीयस्तदुभयात्मकश्चेति-
विषमपदेनैवेष्यते ॥

The provided image is completely blank and contains no text to transcribe.

दशमः परिच्छेदः । ४८९
पुनस्त्रिधा सभङ्गोऽप्यभङ्गस्तदुभयात्मकः ॥ १२ ॥
एतद्भेदत्रयं चोक्तभेदाष्टके यथासंभवं ज्ञेयम् ।
यथा वा—
'येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो
यश्चोद्वृत्तभुजंगहारवलयोगङ्गां च योऽधारयत् ।
इह त्वर्थभेदोऽपीति भेदः ॥ यथासंभवमिति । 'पृथुकर्तस्वर-'इत्यादौ
सभङ्गः । 'नीतानाम्-'इत्यादावभङ्गः । 'सर्वस्वं हर-'इत्यादौ सभङ्गाभङ्गः ॥
एकत्रैव त्रितयमुदाहरति-यथावेति । सर्वद सर्वाभीष्टदाता माधवः, सर्वदा
दानानि दत्स ताम् । तत्प्रसिद्धं छलं मायामासीनोमाश्रितम् । अपगतैर्वकास्येव मानो
यस्य तम् । अगा अचला निकाना दीप्तिर्यस्य तम् ।' इति संस्कृतवाक्यार्थः । पैशाचन्तु
'स पुम्यो रखयितुमात्मरसनाय कामिनिम्ये कृतामोशाय सुवपीरजनाभ्यासुन्दलन्तो दान्यो
दाहा तथाभूताना गणिकानामप्रतिमान न धमते न सहते न तदानीमादरमलिनजन-
कच्विदुपन्रूताणिकम्योच्चिरिदम् ।' इति । संस्तसूरसेन्योर्यथा—'तोदी तरिणग-
मशेड़कल्ह स लढा दलं विरम्भरिदम् । आर दनेरावरन मानदमार गरामागन् ॥' ततो
दृश्यते गगनमटं दलरसतायत्वम्दितान्तरितम् । आरनमेनावर मर साधनमार गतामा-
रन् ॥' इति । सूरसेनीच्छाया । 'तुदति परानिति तोदी, देशांनं दिक् उपदेशं तना मह
वर्तन इति तद्दिक् न गणेन स्ररायेन मशे दम्प सः, स नित्, सदा सर्वगात्मदेव अन-
ल्ह परिभूत्वाविपिरम्, अत एव दनेराया उपशमवेठाया अननरो दन्य तम्, तथाभ्यन्ते
क्षिप्यन्ते श्लानाः शरासाम्दन्ति मण्डदनीलासदा भामुण्डा सह मर्दैर्नत इति म---
दम्, गदासारम्, इद्मारमरिभक्त वल्कमन्मध्ये आर नमार ।' इति संस्कृतवाक्यार्थः ।
सौरसेनस्तु—'आरतो निवृत्तो मेयानान्दनं ते दतः । गधनी भारः चापो दत्तः । गत्त
अनारो दतस्तद् । शारदनभोवर्णनमेतत् ।' इति । सस्कृतअपभ्रंशयोर्यथा—'धीरा-
चट्टुने हरुद्दूरवारिन्द स । अमन्दपमराहरुन्विग्निता देन स ॥' 'धीरा गच्छतु
नेदनमो दुर्धरवारिदस्तु । अमन्दप्रसाररुत रविग्नितान्ते दन्न ॥' इत्यपभ्रंश-
छाया । 'हे हर्रे, अतीव भूरिबाबा इव क्षिप्रं श्वित्रन् निर्गतं यस्याः मयाभूता,
रहट्टस्य, अङ्कः रणा, अगे गाने मारुति दन्तः न्यस्तितोम्य प्रस्तो दन्तः ना
असमस्तमरा यत्र असन्दिमपि रुष्ट्वा यत्र मन्दारविष्णुना वल्नच्छुद्रा इन न्यूरो-
च ममुखल च यत्रैन स्तौ युष्ट्र देवा तेषु तेन सः । पशगतान्तेऽशिशेषः । अमन्दम्
अदनन् रदन्निर्गमन्दुःस्तिन मही गन्त्वा ददान्तैरतीतमरीचि दीप्र नम्रता म्म-
स्तकेन सख्या भवा' इति संस्कृतवाक्यार्थः । 'हे धीराः, दुर्धर वारिदा दम्यो यत्र मया-
भूतन्वेदनम् इति श्लोकपुष्पवाक्यम् । दस्य नेदनमनः ते न अयं दर्शयन्वाक्यः प्रस्तो-
देषा नाशूना रविग्निता एन एनोदेः ।' इत्यपभ्रंशवाक्यार्थः ॥

  1. पुनरिति । विशेषोऽस्य हेतः सङ्घटनाविशेषदशावशंवदत्वेन प्रागसङ्कीर्णत्वा-
    दित्यनया दिशोपदिश्यते ॥

यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः
पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ॥'
अत्र 'येन-' इत्यादौ सभङ्गश्लेषः । 'अन्धक-'इत्यादावभङ्गः । अ-
नयोश्चैकत्र संभवात्सभङ्गाभङ्गात्मको ग्रन्थगौरवभयात्पृथङ्नोदाहृतः ।
अत्र केचिदाहुः—'सभङ्गश्लेष एव शब्दश्लेषविषयः । यत्रोदात्तादि-
स्वरभेदाद्भिन्नप्रयत्नोच्चार्यत्वेन भिन्नयोः शब्दयोर्जतुकाष्ठन्यायेन श्लेषः ।
अभङ्गस्त्वर्थश्लेष एव । य॑त्र स्वरभेदादभिन्नप्रयत्नोच्चार्यतया शब्दाभेदाद-
र्थयोरेकवृन्तगतफलद्वयन्यायेन श्लेषः । यो हि यदाश्रितः स तदलंकार
एव । अलंकार्यालंकरणभावस्य लोकवदाश्रयाश्रयिभावेनोपपत्तिः' इति ।
तदन्ये न क्षमन्ते ।
उमाधवश्च त्वा पायात् । माधवपक्षे—येन अभवेन जन्मरहितेन अन शकटं
न्वस्तं पादेन परावर्तितम् । बलेरसुरराजस्य जेता । काय पुरा अमृतपरि-
वेषणावसरे स्त्रीकृतः स्त्रीत्वं प्रापितः । अमृतार्थं विवदमानाना देवासुराणाम-
मृतपरिवेषणाय मायया नारायणेन मोहिनीरूपं धृतमिति पुराणवार्ता । यश्चोदृ-
त्तस्य उन्मत्तस्य अभङ्गस्य अघासुरस्य हन्ता । यद्वा कालियस्य पीडाकरः ।
आरखलय अरिसम्बन्धि सैन्यं यातीत्यर्थः । यद्वा उद्धत्तभुजंगहार बलं यस्य
तेन गरुडेन यातीत्यर्थ । अगं गोवर्धनं कृष्णरूपेण, गां पृथ्वीं च कूर्मरूपेण
योऽधारयत् । शशिनं मन्नातीति शशिमद्भाहु तस्य शिरोहर इति स्तुत्यं नाम
यस्य चामरा आहुः । अन्धकाना यादवाना क्षयकरो द्वारकाप्यनिवासनिर्माता ।
उमाववपक्षे—येन ध्वस्तमनोभवेन विनाशितकामेन बलिजितो विष्णो कायं पुग
स्त्रीकृतः । मोहिनीरूपदिदृक्षुणा शिवेन प्रेरितो विष्णु पुनःर्मोहिनीरूपं दधारेति
पुराणवार्ता । यश्च उद्धृत्तौ उत्कर्षेण वर्तितौ भुजंगरूपी हारवलयौ येन सः । यश्च
शिरसि गङ्गामधारयत् । यद्वा शरीरार्धेन गौरीम्, शिरसि गङ्गा चेत्यभिप्रायेण च-
कारः । यस्य शिरः शशिमचन्द्रयुक्तं हर इति स्तुत्यं नाम चामरा आहु । अन्ध-
कस्य असुरविशेषस्य विनाशकरः ॥ श्लेषस्तावच्छब्दालंकारोऽर्थालंकारश्च सन्भवति,
तयोः परमतनिराकरणपूर्वकं भेद निरूपयति—अत्रेति जतुकाष्ठेति । पृथगु-
पलभ्यमानयोरपि जतुकाष्ठयोर्योगे यथैकत्वप्रतिभासस्त्वेहापीत्यर्थः । लोकव-

  1. यत्रेति । समानभेदेनोदात्तादिस्वरभेदाद्भिन्नप्रयत्नोच्चारणयोग्ययोरपि शब्दयो
    श्लेषभङ्गभयेन स्वरभेदानादरादेकप्रयत्नोच्चारणे जतुकाष्ठन्यायेन शब्दश्लेष इति भावः ॥
  2. यत्र स्वरेति । समानाभेदेनोदात्तादिभेदाभावादभिन्नप्रयत्नोच्चार्यत्वेन शब्दाभेदा-
    भावे केवलमर्थयोरेकवृन्तगतफलद्वयन्यायेन श्लिष्टत्वादर्थश्लेष इति भावः ॥
  3. पुराणवार्तेति । अस्त्रीकृत इति च्छेदः । त्रिपुरवधे विष्णुरस्य बाणो बभूवेति
    १. 'द्वेष' इ पुस्तके नास्ति. २. 'इह' घ. ३. 'मन्यन्ते' घ.

दशमः परिच्छेदः। ४९१
तथाहि—अत्र ध्वनिगुणीभूतव्यङ्ग्यदोषगुणालंकाराणां शब्दार्थ-
गतत्वेन व्यवस्थितेरन्वयव्यतिरेकानुविधायित्वेन नियम इति।¹ न च
'अन्धकक्षय-' इत्यादौ शब्दभेदः, 'अर्थभेदेन शब्दभेदः' इति ²दर्श-
नात्। किं चात्र शब्दस्यैव मुख्यतया वैचित्र्यबोधोपायत्वेन कविप्रति-
भयोल्लङ्घनाच्छब्दालंकारत्वमेव। विसदृशशब्दद्वयस्य बन्धे चैवंविधस्य
वैचित्र्याभावाद् वैचित्र्यस्यैव चालंकारत्वात्। अर्थमुखप्रेक्षितया ³चा-
र्थालंकारत्वेऽनुप्रासादीनामपि रसादिपरत्वेनार्थमुखप्रेक्षितयार्थालंकारत्व-
प्रसङ्गः। शब्दस्याभिन्नप्रयत्नोच्चार्यत्वेनार्थालंकारत्वे 'प्रतिकूलतामुपगते
हि विधौ' इत्यादौ शब्दभेदेऽप्यर्थालंकारत्वं तवापि प्रसज्यतइत्युभय-
त्रापि शब्दालंकारत्वमेव। यत्र तु शब्दपरिवर्तनेऽपि न ⁴श्लेषत्व-
खण्डना, तत्र—
ष्टिति। यथा लोके मौल्यादिगतं मुकुटादि मस्तकालङ्कारत्वेन व्यपदिश्यते तथा
काव्येऽपीत्यर्थः॥ दूषयति—तदन्ये इति। शब्दभेदादर्थश्लेष इति यदुक्तं तद्दूष-
यति—न चेति। दर्शनस्य प्रामाण्यानभ्युपगमे त्वाह—किं चेति। कविप्रतिभया
कवीनामनुभवेन उल्लङ्घनाद् विषयीकरणात्। शब्दस्यान्वयानुविधायित्वं प्रदर्श्य
व्यतिरेकानुविधायित्वं दर्शयति—विसदृशेति। बन्धे चेति चकारस्य वैचित्र्या-
भावश्चेत्यन्वयः। ननु वैचित्र्यस्य शब्दान्वयव्यतिरेकानुविधायित्वेन किमायातमत
आह—वैचित्र्यस्यैवेति। अलंकारत्वालंकारनियामकत्वात्। अर्थमुखप्रेक्षित-
या अर्थानुसंधानसापेक्षत्वेन अर्थालंकारत्वे अर्थालंकारत्वाङ्गीकारे। रसादि-
परत्वेन रसाद्युत्कर्षानिप्रायप्रयोज्यत्वेन। शब्दभेदेऽपीति। 'विधौ' इत्यादौ
स्वरभेदाभावेन एकप्रयत्नेनैव शब्दद्वयोच्चारणादर्थद्वयप्रतीतिरिति भावः। उभयत्र
पुराणवार्ता इति तु युक्तम्॥ तथा च शिवमहिम्न. स्तवे—'रथः क्षोणी यन्ता शतधृति-
रगेन्द्रो धनुरथो रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति'॥

  1. शब्दार्थेति। पर्यायान्तरपरिवृत्तितत्त्यागसहत्वाभ्यां शब्दार्थगतव्यवस्थितिरिति
    भावः॥
  2. दर्शनादिति। 'यावन्त एवमर्थाः स्युः शब्दास्तावन्त एव हि।' इत्याद्युन्मिष्ट-
    कादित्यर्थः॥
  3. शब्दभेद इति। विधिविधुशब्दयो. पार्थक्येऽपीत्यर्थः॥
  4. श्लेषत्वेति। श्लेषत्वखण्डना श्लेषभङ्गः॥
    १. 'अर्थ' इति नास्ति क-ख पुस्तयोः २. 'लोके' इति मुद्रितपुस्तके नास्ति. ३. 'अप्यर्थांशा-
    रत्वे' इति पुस्तकान्तरे नास्ति.

The provided image is completely blank and contains no text to transcribe.

दशमः परिच्छेदः । ४९५
लम्-' इत्यादौ च नोपमाप्रतिभोत्पत्तिहेतुः श्लेषः । पूर्णोपमाया निर्वि-
षयत्वापत्तेः । 'कमलमिव मुखं मनोज्ञमेतत्' इत्याद्यस्ति पूर्णोपमाया वि-
षय इति चेत् । न । यदि 'सकल-' इत्यादौ शब्दश्लेषतया नोपमा
तत्किमपराद्धं 'मनोज्ञम्' इत्यादावर्थश्लेषेण ।
'स्फुटमर्थालंकारावेतावुपमासमुच्चयौ, किं तु ।
आश्रित्य शब्दमात्रं सामान्यमिहापि संभवतः ॥'
इति रुद्रटोक्तदिशा गुणक्रियासाम्यवच्छब्दसाम्यस्याप्युपमाप्रयोजक-
त्वात् । ननु गुणक्रियासाम्यस्यैवोपमाप्रयोजकता युक्ता, तत्र साधर्म्यस्य
वास्तवत्वात् । शब्दसाम्यस्य तु न तथा, तत्र साधर्म्यस्यावास्तवत्वात् ।
ततश्च पूर्णोपमाया अन्यथानुपपत्त्या, गुणक्रियासाम्यस्यैवार्थश्लेषविषयत-
मित्यादौ चेति । श्लेषो नोपमाबाधक इति भावः । तत् तदा । शब्द-
मात्रं सामान्यमाश्रित्यापीहालंकारमध्ये संभवत इत्यन्वयः । यद्यपि 'सकल-
कलम्-' इत्यादावेकप्रयत्नेन शब्दद्वयोत्पत्त्या शब्दस्याप्येकत्वं न संभवति, तथा-
प्येकानुपूर्व्यवच्छिन्नत्वेन शब्दयोरेकत्वप्रतिभास इति भावः । समुच्चयालंकारे एक-
धर्माभिसंबन्धस्य निवेशाभावात्तत्समुच्चयपदमत्र तुल्ययोगितापरं दीपकपरं च
तयोस्तत्सम्भवात् । नन्वेवं 'किं च तुल्ययोगितायाम्-' इत्यादिना श्लेषतुल्ययोगि-
तयोर्विषयविभागः कृतः स न संगच्छते 'येन ध्वस्त-' इत्यादावपि शब्दरूपै-
कधर्मसंबन्धस्य सत्त्वेन तुल्ययोगिताया विषयसंभवादिति चेत् । सत्यम् । यत्रानेक-
सैकधर्मसंबन्धावगमे द्विवचनबहुवचनचकाराद्यपेक्षा तत्रैव दीपक तुल्ययोगितयो-
र्विषयः । 'येन ध्वस्त-' इत्यादौ तु द्विवचनाद्यपेक्षाविरहेण तुल्ययोगिताया विषय
एव नास्ति । एवं ययोरेकधर्मसंबन्धस्तयोरेकप्रयत्नोच्चार्यपदवाच्यत्वं दीपक तुल्य-
योगितालक्षणे निवेशनीयमतो नातिप्रसङ्गः । एवं च 'स्वेच्छोपजातविषयोऽपि-'
इत्यादिदीपकस्य 'किरणा हरिणाङ्कस्य-' इत्यादि, 'विकसन्नेत्रनीलाब्जे-' इत्यादि च
तुल्ययोगितायाश्च विषय इति ध्येयम् । गुणक्रियासाम्यवद्गुणक्रियासाम्यस्येव ।
तत्र गुणक्रियासाम्यप्रयुक्तोपमायाम् । वास्तवत्वाद् वस्तुसमवेतत्वात् । न
तथा नोपमाप्रयोजकता । तत्र शब्दसाम्यप्रयुक्तोपमायाम् । साधर्म्यस्य शब्द-
रूपसामान्यस्य धर्मस्य । अवास्तवत्वाद् उपमानोपमेयरूपवस्तुनोरसमवेत-

  1. कमलेति । 'कमलमिव मुखं मनोज्ञमेतत्क्वचित्त्विराम्' इत्यत्र मनोज्ञत्वलक्षणस्य
    गुणस्य, प्रकाशलक्षणायाः क्रियायाः, गुणक्रिययोर्वा साम्यात्पूर्णोपमाविषयोऽस्तीत्यर्थः ॥
  2. मनोज्ञमिति । मनोज्ञत्वेनोन्मानेनोन्मत्तयोः कमलमुखयोर्भेदेन क्लिष्टत्वादर्थ-
    श्लेष इत्यर्थः ॥
    १. 'रुद्रटोक्त' क. २. 'च' इति नास्ति घ-पुस्तके ३ 'दृश्यते' घ. ४. 'विषयता' ग.
    ५. 'यत्र धर्मिनिष्ठान्यतरोत्थाप्यशब्दबोध्यतया द्विवचनचकाराद्यपेक्षा' इति मुद्रितपुस्तके. ६. 'एवं
    च पूर्वोक्तनिरूपने च स्त्रीत्यर्थ' इति मुद्रितपुस्तके पाठः. ७. 'अत्र' इति मुद्रितपुस्तके.

५१२ साहित्यदर्पणे
'प्रकृतिप्रत्ययौ स्वस्वार्थबोधकौ' इति च मतद्वयेऽपि वत्यादिक्यङाद्योः
साम्यमेवेति । यच्च केचिदाहुः—'वत्यादय इवार्थेऽनुशिष्यन्ते, क्यङा-
दयस्त्वाचाराद्यर्थे' इति । तदपि न । न खलु क्यङादय आचारमात्रार्थाः,
अपि तु सादृश्याचारार्था इति । तदेवं धर्मलोपे दशप्रकारा लुप्ता ।
उपमानानुपादाने द्विधा वाक्यसमासयोः ।
उदाहरणम्—
'तस्या मुखेन सदृशं रम्यं नास्ते न वा नयनतुल्यम् ।'
दितं प्रकृतिप्रत्ययसमुदायं, वाचकं प्रकृत्यर्थविशिष्टप्रत्ययार्थप्रतिपादकम् ।
स्वस्वार्थबोधकौ क्रमेण स्वार्थप्रतिपादकौ । वत्यादीति । आदिपदेन कल्पादि-
परिग्रहः । साम्यमेवेति । सादृश्यवाचकत्वेन साम्यमित्यर्थः । आचाराद्यर्थ
इति । 'अनुशिष्यन्ते' इत्यन्वयः । अपि त्विति । किंत्वित्यर्थः । 'अपि तर्हि'
इति पाठे किं तर्हीत्यर्थे । उपसंहरति—तदेवमिति । वस्तुतस्तु 'चन्द्रायते
शुक्लरुचापि हंस' इत्यादौ साधारणधर्मोपादानेऽपि क्यङादियोगे उपमादर्शना-
दार्थ्या उपमायास्तद्धितादित्रितयगतत्ववत् क्यजादिपञ्चकगतत्वेन विशेषो बोध्यः ।
एवं चाष्टप्रकाराया आर्थ्या धर्मलोपालोपाभ्यां षोडशप्रकारत्वं बोध्यम् । क्यजादि-
पञ्चके धर्मलोपे उदाहरणं यथा—'वीरः प्रीतिकरत्वेन पर्यङ्कीयति मञ्चके । मित्री-
यति परं प्रेम्णा भक्त्या देवायते नृणाम् ॥ देवदर्शं जने साधु प्रतीक्ष्यत्वेन
दृश्यते । कृपया विष्णुसञ्चारं नित्यं सचरति क्षितौ ॥' अत्र तृतीयान्तपदार्थानां
क्यजाद्यर्थे सादृश्येऽभेदेनान्वयः ॥ उपमानलुप्तामुपमामाह—उपमानेति । 'लुप्तो-
पमा' इत्यनुषङ्गः ॥ न वेति । न वा नयनतुल्यरम्यमास्त इत्यन्वयः । अन्यथा
त्वनिष्टमेव । अन्यथा उपास्यते हरः, अनुभूयते सुखम्, इत्यादौ धात्वर्थात्मनभवनक्रि-
ययोरकर्मकत्वेन कर्मत्वारोपपत्तिर्न स्यात् । इवादीनां तु वाचकत्वमेव । उपमेयमानगता-
यामिवेदादिवाचकतायाः प्रतिबन्धकराहित्येन दृष्टान्तवैषम्यस्य सद्भावाद् विशेष्यविशेष्ययो-
रेकविभक्तित्वे 'विशेष्येण सहेकार्थं भवेद्यत्र विशेषणम् । तत्र लिङ्गादयः प्रायो विशे-
ष्याद्वा विशेषणे ॥' इत्यनुशासनस्येवोपमानोपमेययोरपि तत्र 'लिङ्गसंख्याविभेदेऽपि उप-
मानोपमेयता । विभक्तिः पुनरेकैव उपमानोपमेययोः ॥' इत्यनुशासनस्य जागरूकत्वेन
'शरैरुस्रैः-' इत्यादावुपमानपदोत्तरतृतीयादेः सुसंपादकत्वाच्च । प्रायोग्रहणेन 'दिगन्ते
श्रूयन्ते मदमलिनगण्डाः करटिनः करिण्यः कारुण्यात्पदम्—' इत्यादि विशेष्यविशेष्ययो-
र्लिङ्गादिभेदेऽपि न काचिदनुपपत्तिरित्यन्यत्र विस्तरः ॥
१. क्यङादय इति । अयमभिप्रायः—'कर्त्तुः क्यङ् सलोपश्च' इत्यत्र 'उपमानादाचारे'
इत्यत उपमानपदममुवर्त्तते, तेनेवार्थमात्राद्वाऽपि बोधे सादृश्याचाराद्यर्थः क्यङिति ।
१. 'स्वार्थबोधकौ' क. २. 'षोडशप्रकारा बोद्ध्या' इति मुद्रितपुस्तके.

दशमः परिच्छेदः । ५१३
अत्र मुखनयनप्रतिनिधिवस्त्वन्तरयोर्गम्यमानत्वादुपमानलोपः। अत्रैव
च ‘मुखेन सदृशं’ इत्यत्र ‘मुखं यथेदं’, ‘नयनतुल्यं’ इत्यत्र ‘दृगिव’
इति पाठे श्रौत्यपि संभवतीति । अनयोर्भेदयोः प्रत्येकं श्रौत्यार्थीत्वभेदेन
चतुर्विधत्वसम्भवेऽपि प्राचीनानां रीत्या द्विप्रकारत्वमेवोक्तम् ।
औपम्यवाचिनो लोपे समासे क्विपि च द्विधा ॥ २० ॥
क्रमेणोदाहरणम्—
‘वदनं मृगशावाक्ष्याः सुधाकरमनोहरम् ।’
‘गर्दभति श्रुतिपरुषं व्यक्तं निनदन्महात्मनां पुरतः ।’
अत्र ‘गर्दभति’ इत्यत्रौपम्यवाचिनः क्विपो लोपः । न चेहोपमेयस्यापि
लोपः । ‘निनदन्’ इत्यनेनैव निर्देशात् ।
द्विधा समासे वाक्ये च लोपे धर्मोपमानयोः ।
‘तस्या मुखेन’ इत्यादौ ‘रम्यं’ इति स्थाने ‘लोके’ इति पाठेऽनयो-
रुदाहरणम् ।
क्विप्समासगता द्वेधा धर्मेवादिविलोपने ॥ २१ ॥
धर्मोपमानलोपोदाहरणमिदं स्यात् । प्रतिनिधीति । सदृशेत्यर्थः ॥ द्व्यर्थमुप-
माह—औपम्येति । यत्र वाशब्दादिक्विबलोपे विद्येते तत्र पूर्वोक्तद्वैविध्य-
मुत्क्षिप्यते ॥ वदनमिति । उपमानोपमेयौ धर्मः दत्तः इति बहुव्रीहिसमासेन ।
इवार्थस्य समासगम्यतया इवपदाप्रयोगः । यद्यप्यत्र सादृश्यवाचिपदस्य इतीदं
षडुपमागतविलोपोदाहरणम् । सुधाकर इव मनोहरमिति ‘उपमानानि सामान्यव-
चनैः’ इति कर्मधारयः । एतदेव प्रत्युदाहरणम् । क्विपि उदाहरणम्—गर्द-
भतीति । गर्दभ इवाचरतीत्यर्थे क्विपि द्वितीयान्तात्क्विप् । यद्यप्यत्र ‘सर्वप्रातिप-
दिकाद्वै क्विपो लोपेऽपि कर्तुरस्य दृश्यस्य तत्त्वेऽपि सादृश्यवाचिपदोपादानस्यानु-
गन्तव्यम् । अत्र श्रुतिपरुषनिनदः सादृश्यधर्मः श्रुतिपरुष एव । निर्देशोदिति ।
उपमेयस्येत्यनेनेत्यन्वयः ॥ एवमेवोपलक्षणमुक्त्वा द्वितीयप्रकारमाह—द्विधेत्यादि

  1. सुधाकरेति । ‘उपमानं सामान्यवचनैः’ इति सूत्रेणेह समासोऽत्र सादृश्यवाचिपद-
    इत्यनेन नायं पूर्वोपमासमासेन भवति इति पूर्वोक्तं व्याख्यातम्—इत्याशङ्क्य सा-
    दर्शितदिनेतरस्य समासोऽभ्युपेतो न त्वयमिति द्रष्टव्यम्, किन्तु साधर्म्यवाचकपदेन
    पृथक्समासप्रयोगः कृतो नान्येन सह समासविधानस्य कुत्राप्यदर्शनात्—
  2. गर्दभतीति । ‘सर्वप्रातिपदिकात् क्विब्वा वक्तव्यः’ (वार्तिकम्—३।१।११) इति
    सूत्रम् ? इति क्वब्विधानेनात्राप्यौपम्यवाचिनः क्विबः लोप इति भावः ।
    इत्यनेनोपमेयनिर्देशोऽवसितव्यः ।

५१८ साहित्यदर्पणे
यथा—
'चन्द्रायते शुक्लरुचापि हंसो हंसायते चारुगतेन कान्ता ।
कान्तायते स्पर्शसुखेन वारि वारीयते स्वच्छतया विहायः ॥'
मालोपमा यदेकस्योपमानं बहु दृश्यते ।
यथा—
'वारिजेनेव सरसी शशिनेव निशीथिनी ।
यौवनेनेव वनिता नगेन श्रीर्मनोहरा ॥'
क्वचिदुपमानोपमेययोर्द्वयोरपि प्रकृतत्वं दृश्यते—
'हंसश्चन्द्र इवाभाति जलं व्योमतलं यथा ।
विमलाः कुमुदानीव तारकाः शरदागमे ॥'
'अस्य राज्ञो गृहे भान्ति भूपाना ता विभूतयः ।
पुरंदरस्य भवने कल्पवृक्षभवा इव ॥'
तस्योपमानता यदि स्यादित्यर्थः । इयं साधारणधर्मस्याभेदे भेदे च संभवतीति
द्विधा ॥ तत्राद्या यथा-'महाभृतो वदान्यस्य भारतीवामला मतिः । चेष्टा मतिरिव
स्वच्छा चेष्टेव गुणसंततिः ॥' अत्र स्वच्छत्वमेकमेव साधारणो धर्मः ॥ द्वितीया-
माह—चन्द्रायत इति । चन्द्र इवाचरतीत्यर्थः ॥ मालोपमामाह—मालो-
पमेति । बहुत्येकाधिकपरम् । तेन 'तां हंसमाला शरद्रीव गङ्गां महौषधीर्न-
क्तमिवात्मभासः । स्थिरोपदेशामुपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः ॥'
इत्यादावुपमाद्वयेऽपि मालालमक्षतम् । इयमपि पूर्ववद्द्विधा । तत्राद्यामाह—
वारिजेनेति । अत्र मनोहरत्वमेकमेव सादृश्यहेतुः । द्वितीया यथा—'ज्योत्स्नेव
नयनानन्दः सुधेव मदकारणम् । प्रभृतेव समाकृष्टसर्वलोका नितम्बिनी ॥' अत्र
नेत्रानन्दजननादयो विभिन्नधर्मा एव सादृश्यानां हेतवः ॥ उपमेयस्य प्रकृतत्वमु-
पमानस्याप्रकृतत्वं प्रायिकमित्यभिप्रायेणाह—क्वचिदिति । प्रकृतत्वं वर्णनीयस्यो-
त्कर्षाधायकत्वेनाकाङ्क्षितत्वम् ॥ हंस इति । हंसादय इव चन्द्रादयोऽपि वर्णनी-
यशरत्कालसोत्कर्षाधायकत्वेनाकाङ्क्षिताः । 'विमला' इति पाठो न रमणीयः,
भग्नप्रक्रमतया कुमुदानीत्युपमानान्वयायोग्यत्वात् । तस्मात् 'लसन्ति' इति पाठो
द्रष्टव्यैः॥ प्राचीनसमतानाक्षेपोपमादीनुपमाप्रकारान्वैचित्र्यातिशायानाधायकत्वेनोपेक्ष-
माण आह—अस्य राज्ञ इति । कल्पवृक्षभवाः कल्पवृक्षोत्पन्ना विभूतय इत्यर्थः ॥
१. मालेति । यथा काचिन्माला सजातीयैः कुसुमैः काचिच्च विजातीयैर्निर्मायते तथैवे-
यमपि सजातीयैर्विजातीयैर्वा बहुभिरुपमानैरिति भावः । एकस्य उपमेयस्येत्यर्थः ॥
१. 'यथा' पुस्तकान्तरे नास्ति. २. 'वस्तुतस्तु प्रकृतयोरेकधर्माभिसंबन्धरूपतुल्ययोगितेयमे न तूपमा ।
एव चात्र यथैवशब्दप्रयोगस्तुल्ययोगिताद्योतकताधर्त्वेन न गौण एवेत्यवधेयम् ।' इति मुद्रितपुस्तकेऽधिकम्.

The provided image is almost entirely blank, with only cut-off/illegible fragments on the left margin, containing no readable text to transcribe.

५२६ साहित्यदर्पणे
तत्रैकदेशविवर्ति श्लिष्टं यथा मम—
(करसमुदयमहीधरस्तनाग्रे गलिततमःपटलांशुके निवेश्य ।
विकसितकुमुदेक्षणं विचुम्बत्ययममरेशदिशो मुखं सुधांशुः ॥)
समस्तवस्तुविषयं यथा—अत्रैव 'विचुम्बति—' इत्यादौ 'चुम्बने
हरिदबलामुखमिन्दुनायकेन' इति पाठे । न चात्र श्लिष्टपरम्परितम्।
तत्र हि १ 'भूभृदावलिदम्भोलिः—' (५२३) इत्यादौ राजादौ पर्वतत्वारोपं
विना वर्णनीयस्य राजादेर्दम्भोलितादिरूपाणां सर्वथैव सादृश्याभावा-
दसंगतम् । तर्हि कथं 'पद्मोदयदिनाधीशः—' इत्यादौ परंपरितम्,
राजादेः सूर्यादिना तादृशस्य तेजस्वितादिहेतुकस्य संभवात्—इति न
वाच्यम् । तथा हि—राजादेस्तेजस्वितादिहेतुकं सुव्यक्तं सादृश्यं न
न प्रकृते विवक्षितम् । पद्मोदयादेरेव द्वयोः साधारणधर्मतया विवक्षित-
त्वम् । इह तु महीधरादेः स्तनादिना सादृश्यं पीनोत्तुङ्गत्वादिना सु-
व्यक्तमेवेति न श्लिष्टपरम्परितम् । क्वचित्समासाभावेऽपि रूपकं
दृश्यते—
'मुखं तव कुरङ्गाक्षि सरोजमिति नान्यथा ॥'
क्वचिद्वैयधिकरण्येऽपि यथा—
'सौजन्याम्बुमरुस्थली सुचरितालेख्यद्युभित्तिर्गुण-
ज्योत्स्नाकृष्णचतुर्दशी सरलतायोगश्वपुच्छच्छटा ।
यैरेषापि दुराशया कलियुगे राजावली सेविता
तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम् ॥'
सितच्छत्रत्वारोपे निमित्तम् ॥ करमिति । करं किरणमेव हस्तम् ॥ पद्मोदयादेरेव
पद्मोदयादिशब्दस्यैव । द्वयो रूप्यरूपकयो राजादिसूर्याद्योः ॥ नन्वत्र शब्दसाम्य-
विवक्षावशात्प्रसिद्धतेजस्वितादिरूपसाम्यविवक्षायास्तु 'त्रैलोक्यमण्डपस्तम्भा' इ-
त्यादौ तु दीर्घत्वपीवरत्वादिसाम्यसम्भवेनात्र तन्मूलक एव स्तम्भत्वाद्यारोपोऽस्तु
त्रैलोक्यादौ मण्डपत्वाद्यारोपस्य तत्कारणत्वस्वीकारेण किमिति चेत् । न । स्तम्भा
यथा मण्डपभारसहिष्णवस्तथा हरियाहवस्त्रैलोक्यभारसहिष्णव इति साम्यस्यैव प्रकृते
विवक्षितत्वात् । तच्च त्रैलोक्यादौ मण्डपत्वाद्यारोपं विना दुर्बोधम् । समासाभा-
वेऽपीति । अत एव दण्डिना व्यस्तं समस्तं व्यस्तसमस्तं चेति त्रिविधं रूपकमु-
क्तम् । 'श्रलतया' इत्यभेदे तृतीया । अन्यथा तादात्म्यारोपो न स्यात् ॥ सुचरितमे-
१. 'हि' इति क-पुस्तके नास्ति. २. '-रूपग' ग-घ. ३. 'असंभवात्' ख घ. ४ 'शूलिनि' क

दशमः परिच्छेदः । ५२७
इदं मम । अत्र केषांचिद्रूपकाणां शब्दश्लेषमूलत्वेऽपि रूपकविशे-
षत्वादर्थालंकारमध्ये गणनम् । एवं वक्ष्यमाणालंकारेषु बोध्यम् ।
अधिकारूढवैशिष्ट्यं रूपकं यत्तदेव तत् ।
तदेवाऽधिकारूढवैशिष्ट्यं³संज्ञकम् । यथा मम—
'इदं वक्त्रं साक्षाद्विरहितकलङ्कः शशधरः
सुधाधाराधारश्चिरपरिणतं बिम्बमधरः ।
इमे नेत्रे रात्रिंदिवमधिकशोभे कुवलये
तनुर्लावण्यानां जलधिरवगाहे सुखतरः ॥'
अत्र कलङ्कराहित्यादिनाधिकं वैशिष्ट्यम् ।
विषयात्मतयारोप्ये प्रकृतार्थोपयोगिनि ॥ ३४ ॥
दारिद्र्यं चित्रम्, द्युन्नितिराकाशकुड्यम् । सरलता कौटिल्यराहित्यमेव दाक्षि-
ण्यम् । तस्या योगे श्वपुच्छच्छटा कुक्कुरलाङ्गुलकुण्डली । भक्तिमात्रसुलभे केवल-
मपि भक्त्या प्राप्ये ॥ अत्र केषांचिदिति । नाधनस्य श्लेषस्य शब्दालंकारत्वेऽपि
साध्यत्वेन प्रधानस्यार्थालंकारमध्ये गणनमिति भावः । वक्ष्यमाणानां श्लेषापह्रवादी-
नाम् ॥ अधिकारूटवैशिष्ट्य रूपकमाह—अधिकारूढेति । अधिकमल्पर्थमाहूडं
वैशिष्ट्यं विशेषणं यत्र तदित्यर्थ ॥ सुधाधारावार इति बिम्बस्य विशेषणम् । कलङ्क-
रहितत्वादिविशेषणं चन्द्रादेरत्यन्तासंभवीति तत्र तदारोपणादधिकारूढवैशिष्ट्यम् ।
'कलङ्कराहित्यादिना' इत्यनेदे तृतीया । परिणामालंकारमाह—विषयात्मतयेति ।

  1. वैशिष्ट्यमिति । अत्रेदमप्यनुसंधेयम्—‘विषय्यभेदताद्रूप्यरूप्यं विषयस्य यत् ।
    रूपकं तद्विधाऽऽधिष्ठ्यन्यूनत्वानुभयोक्तिभिः ॥ (१) अयं हि धूर्जटिः साक्षाद् येन
    दग्धाः पुरः क्षणात् । (२) अयमास्ते विना शम्भुन्तार्तीयीकं विलोचनम् ॥ (३)
    शत्रुम्विध्वंसयत्येष सीत्यस्य समदृष्टिनाम् । (४) अन्या मुखेन्दुना लब्धे नेत्रानेन्दे मिनि-
    न्दुना ॥ (५) साक्ष्वीदमपरा लक्ष्मीस्तस्थानागारोद्धिता । (६) अयं मञ्जिन-
    ङ्गान्तान्मुखचन्द्रोऽतिरिच्यते ॥’ इति । इतोपमेयस्य रात्रौ विषयस्य पूर्णशुभ्रत्वविशेषणेन
    तस्मिनुपमानस्य भावतो धूर्जटिविषयिणोऽभेदकत्वात्, उपमानस्योर्मेदे ग्युनाधिक-
    भावावर्णनाच्च प्रथममुभयाभेदरूपकम् ॥ तार्तीयीकविलोचनानोत्या न्यूनता-
    पटनेन द्वितीयं न्यूनभेदिरूपकम् । ‘तीयादीरहुः सार्थे वाच्यः’ इति वात्र्त्तेन तृती-
    यार्थे ईयक् ॥ समदृष्टिनासीत्यनेन निश्वावनेक्त्या भावतो राजन्यादिन्दतान्तस्तृतीय-
    मधिकामेदरूपकम् । अत्र समदृष्टिददं शिष्टम् ॥ एवमन्या मुखेन्दुमन्ये प्रमिद्धेन्दोरना-
    दक्षकत्वमापाद्य मुखेन्दोश्च नेश्रानन्दजनकत्वरूप प्रसिद्धेन्दुर्वाधर्मत्वमात्राभिकरगेन
    न्यूनवाधिकत्वयोरेकपादानादनुभयताद्रूप्यरूपकं चतुर्थम् ॥ अपरान्या लक्ष्मीनान-
    १ 'इदं मम' इति क-ख पुस्तकयोर्नास्ति २ 'अत्र च' घ. ३ 'संज्ञकरूपकं' घ ४ 'तथा'
    इति क्वचित् पुस्तके.

इस पृष्ठ पर कोई पाठ (text) उपलब्ध नहीं है। यह पृष्ठ रिक्त (blank) है।

दशमः परिच्छेदः । ६०५
दण्डापूपिकयान्यार्थागमोऽर्थापत्तिरिष्यते ।
मूषिकेण दण्डो भक्षित इत्यनेन तत्सहचरितमपूपभक्षणमर्थादायातं
भवतीति नियतसमानन्यायादर्थान्तरमापततीत्येष न्यायो दण्डापूपिका ।
अत्र च क्वचित्प्राकरणिकादर्थादप्राकरणिकस्यार्थस्यापतनं क्वचिदप्राकर-
णिकार्थात्प्राकरणिकार्थस्येति द्वौ भेदौ । क्रमेणोदाहरणम्—
‘हारोऽयं हरिणाक्षीणां लुठति स्तनमण्डले ।
मुक्तानामप्यवस्थेयं के वयं स्मरकिंकराः ॥’
‘विललाप स बाष्पगद्गदं सहजामप्यपहाय धीरताम् ।
अतितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिणाम् ॥’
अत्र च समानन्यायस्य श्लेषमूलत्वे वैचित्र्यविशेषो यथोदाहृते
‘हारोऽयं—’ इत्यादौ । न चेदमनुमानम् । समानन्यायस्य संबन्धरूप-
त्वाभावात् ।
विकल्पस्तुल्यबलयोर्विरोधश्चातुरीयु(य)तः ॥ ८३ ॥
अर्थापत्त्यलंकारमाह—दण्डापूपिकयेति । दण्डापूपन्यायेनेत्यर्थः । अन्यार्थागमो
भिन्नार्थप्रतीतिः ॥ दण्डापूपन्यायमाह—मूषिकेनेति । इतिशब्दो हेतौ । अनेन
मूषिकेण तत्सहचरितं दण्डभक्षणसहचरितमर्थादौचित्यादायातमवगतं भवतीत्यन-
न्तरं ‘वदन्यत्रापि’ इति पूरणीयम् । नियतेति । नियतस्य तद्रूपत्वेन निश्चितस्य स-
मानन्यायात्तुल्यसामर्थ्यादर्थां तु शब्दात् । आपतति प्रतीतिविषयो भवति । मूषि-
कस्य हि दण्डभक्षणं दुष्करं तन्निष्पत्तौ तत्सहचरितापूपभक्षणमतिसुकरतया
संभाव्यते तथात्रापि सहचरितैकसिद्धेरेकसिद्धिरौचित्यात्संभाव्यत इति भावः ॥
हारोऽयमिति । मुक्तानां हारघटकरत्नविशेषाणां निवृत्तसंसारदुःखानां च । मु-
क्तानां तदुपयोपिदारिद्यं दुर्घटं तन्निपत्तौवहुसन्नानम्लानं सुतरां तन्त्यादिति पुं-
स्त्वमत्र समानो धर्मः । मुक्तानां वर्णनीयत्वेन प्राकरणिकत्वम् ॥ विललापेति ।
सोऽजः । द्वयत्वमत्र समानो धर्मः । अयसो वर्णनीयत्वाभावादप्राकरणिकत्वम् ।
संबन्धरूपत्वाभावादिति । व्याप्तिरूपत्वाभावादित्यर्थः । व्याप्तिश्च शब्दद्वय-
स्त्योरव्यभिचरितसमानाधिकरणरूपः । प्रकृते तु एकस्य नायमर्थग्रहेण औचित्या-
त्सन्तानस्य तादृशार्थान्तरग्रहो भवतीति शब्दद्वययोर्व्याप्त्यसंभवादिति भावः ॥
विकल्पालंकारमाह—विकल्प इति । तुल्यबलत्वं तत्तदुदाहरणे दर्शयिष्यमाणम् ।

  1. दण्डेन । दण्डापूपयोर्भावो दण्डापूपिका । ‘द्वन्द्वान्ते श्रूयमाणं’ इति द्वन्द्वः।
    इतरेतरद्वन्द्वान्कप्रत्यय इति केचित् । अन्ये तु दण्डापूपौ विहिते यस्यां नीतौ सा ...
    दूपिका । ‘एत इतिवन्तः’ इति वर्तिकाकारः । अन्ये दण्डापूपानिव दण्डापूपिकेति
    मन्वते, ... व्याचक्षते ॥

The provided image is completely blank and does not contain any visible text to transcribe.