साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 237, कुल 506 में से
संदर्भ में पढ़ेंयस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः
पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ॥'
अत्र 'येन-' इत्यादौ सभङ्गश्लेषः । 'अन्धक-'इत्यादावभङ्गः । अ-
नयोश्चैकत्र संभवात्सभङ्गाभङ्गात्मको ग्रन्थगौरवभयात्पृथङ्नोदाहृतः ।
अत्र केचिदाहुः—'सभङ्गश्लेष एव शब्दश्लेषविषयः । यत्रोदात्तादि-
स्वरभेदाद्भिन्नप्रयत्नोच्चार्यत्वेन भिन्नयोः शब्दयोर्जतुकाष्ठन्यायेन श्लेषः ।
अभङ्गस्त्वर्थश्लेष एव । य॑त्र स्वरभेदादभिन्नप्रयत्नोच्चार्यतया शब्दाभेदाद-
र्थयोरेकवृन्तगतफलद्वयन्यायेन श्लेषः । यो हि यदाश्रितः स तदलंकार
एव । अलंकार्यालंकरणभावस्य लोकवदाश्रयाश्रयिभावेनोपपत्तिः' इति ।
तदन्ये न क्षमन्ते ।
उमाधवश्च त्वा पायात् । माधवपक्षे—येन अभवेन जन्मरहितेन अन शकटं
न्वस्तं पादेन परावर्तितम् । बलेरसुरराजस्य जेता । काय पुरा अमृतपरि-
वेषणावसरे स्त्रीकृतः स्त्रीत्वं प्रापितः । अमृतार्थं विवदमानाना देवासुराणाम-
मृतपरिवेषणाय मायया नारायणेन मोहिनीरूपं धृतमिति पुराणवार्ता । यश्चोदृ-
त्तस्य उन्मत्तस्य अभङ्गस्य अघासुरस्य हन्ता । यद्वा कालियस्य पीडाकरः ।
आरखलय अरिसम्बन्धि सैन्यं यातीत्यर्थः । यद्वा उद्धत्तभुजंगहार बलं यस्य
तेन गरुडेन यातीत्यर्थ । अगं गोवर्धनं कृष्णरूपेण, गां पृथ्वीं च कूर्मरूपेण
योऽधारयत् । शशिनं मन्नातीति शशिमद्भाहु तस्य शिरोहर इति स्तुत्यं नाम
यस्य चामरा आहुः । अन्धकाना यादवाना क्षयकरो द्वारकाप्यनिवासनिर्माता ।
उमाववपक्षे—येन ध्वस्तमनोभवेन विनाशितकामेन बलिजितो विष्णो कायं पुग
स्त्रीकृतः । मोहिनीरूपदिदृक्षुणा शिवेन प्रेरितो विष्णु पुनःर्मोहिनीरूपं दधारेति
पुराणवार्ता । यश्च उद्धृत्तौ उत्कर्षेण वर्तितौ भुजंगरूपी हारवलयौ येन सः । यश्च
शिरसि गङ्गामधारयत् । यद्वा शरीरार्धेन गौरीम्, शिरसि गङ्गा चेत्यभिप्रायेण च-
कारः । यस्य शिरः शशिमचन्द्रयुक्तं हर इति स्तुत्यं नाम चामरा आहु । अन्ध-
कस्य असुरविशेषस्य विनाशकरः ॥ श्लेषस्तावच्छब्दालंकारोऽर्थालंकारश्च सन्भवति,
तयोः परमतनिराकरणपूर्वकं भेद निरूपयति—अत्रेति जतुकाष्ठेति । पृथगु-
पलभ्यमानयोरपि जतुकाष्ठयोर्योगे यथैकत्वप्रतिभासस्त्वेहापीत्यर्थः । लोकव-
- यत्रेति । समानभेदेनोदात्तादिस्वरभेदाद्भिन्नप्रयत्नोच्चारणयोग्ययोरपि शब्दयो
श्लेषभङ्गभयेन स्वरभेदानादरादेकप्रयत्नोच्चारणे जतुकाष्ठन्यायेन शब्दश्लेष इति भावः ॥ - यत्र स्वरेति । समानाभेदेनोदात्तादिभेदाभावादभिन्नप्रयत्नोच्चार्यत्वेन शब्दाभेदा-
भावे केवलमर्थयोरेकवृन्तगतफलद्वयन्यायेन श्लिष्टत्वादर्थश्लेष इति भावः ॥ - पुराणवार्तेति । अस्त्रीकृत इति च्छेदः । त्रिपुरवधे विष्णुरस्य बाणो बभूवेति
१. 'द्वेष' इ पुस्तके नास्ति. २. 'इह' घ. ३. 'मन्यन्ते' घ.