सामग्री पर जाएँ
सर्वकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 92, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 92

प्रथमोऽध्यायः ५
षण्ढोपलेन कर्तव्यं (व्ये?) ब्रह्मकूर्मशि(ले त ?) लैस्तथा ।
प्रासादनल(तल ?)कुण्डादि कर्म कुर्याद्विचक्षणः ॥५॥
छन्नदेहप्रतिच्छन्दप्रतिमाङ्गैस्तु नामभिः ।
दृश्यो देवसमाख्यातः ... ... ॥ (अ० ३३, १-३ श्लो०)
एवं त्रिविधमपि लिङ्गं पुंशिलया कार्यमित्याह—लिङ्गानीति। काश्यपशिल्पे तु 'पुंशिलाभिः
कृतं लिङ्गम्' (अ० ४९, ५९ श्लो०) इत्यविशेषेण लिङ्गमात्रोल्लेखः कृतः । व्यक्तमाह मयमते—
“सकलं निष्कलं मिश्रं कुर्यात् पुंशिलया सुधीः” इति ।
(अ० ३३, १० श्लो०)
पीठिकेत्यादि—पीठिका पिण्डिका गौरीपीठमित्यर्थः, न तु पादशिला,
पुंशिलाभिः कृतं लिङ्गं स्त्रीशिलाभिस्तु पिण्डिका ।
नपुंसकशिलाभिस्तु पादाधारं समाचरेत् ॥ (अ० ४९, ५९-६० श्लो०)
इति काश्यपशिल्पे,
बिम्बार्थं पुंशिला ग्राह्या पीठार्थं स्त्रीशिला तथा ।
नपुंसकशिला पादशिलार्थमखिले मता ॥ इति । (अ० १, २९ श्लो०)
शिल्परत्नोत्तरभागे च पादशिलापीठशिलयोर्द्वयोः पृथग्जातीयशिलासाध्यत्वेन निर्देशात् । लौकिक-
दृष्ट्यापि युक्तमचेतनस्य पादाधारस्यैव क्लीबशिलया घटनम्, योनिपीठस्य च शक्तिस्वरूपस्य
स्त्रीशिलया निर्माणमिति । ग्रन्थकृता तु वक्ष्यमाणश्लोके ब्रह्मकूर्मशिलैरित्युक्त्वा पादाधारशिला
संगृहीतेति ज्ञेयम् ।
शक्तिमूर्त्तयः स्त्रीदेवताप्रतिमाः । तथा च मयमते—
“युञ्जीयात् स्त्रीशिलाः सम्यक् नारीवेरञ्च पिण्डिका” (अ० ३३, १० श्लो०)
नारीवेरञ्च पिण्डिकेति नारीवेरे स्त्रीप्रतिमायां पिण्डिकायां गौरीपीठे च इत्यर्थः । अत्र मूर्त्तय इति
द्वितीयार्थे प्रथमा ।
५। षण्ढ