रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 91, कुल 335 में से
संदर्भ में पढ़ें४ देवतामूर्त्तिप्रकरणम्
[ शिलाभेदेन कर्मभेदः ]
लिङ्गानि प्रतिमा मिश्रं कुर्यात् पुंशिलया बुधः ।
युञ्ज्यात् स्त्रीशिलया सम्यक् पीठिकाशक्तिमूर्त्तयः ॥४॥
द्रुमभेदे करास्फाले तालस्तु हरितालके ।
वाद्यभाण्डे च कांस्यस्य ... ॥
इति विश्वदर्शनात् तालशब्देनैव कांस्यनिर्मितवाद्यविशेषलाभात् कांस्यपदं ( मयमते च कंसपदं )
व्यर्थम्, तथापि 'सम्भेदनान्यतरवैयर्थ्यमि'ति न्यायात् 'नयनाश्व' इत्यादिवद् विशेषप्रतिपत्त्यर्थं
वा तदुपात्तमिति ज्ञेयम् । स्पष्टमाह काश्यपशिल्पे—
“तालशब्दसमाकारा दीर्घा या सा शिला स्त्रियः” इति ।
(अ० ४९, ५६ श्लो०)
निःस्वनेति । निर्नास्ति स्वनो यस्याः सा निःस्वना शब्दहीना ।
व्यक्तमाह—काश्यपीये—
“अस्विन्न झर्झरी इ(रु)क्षा स्वरहीना नपुंसका” इति । (अ० ४९, ५६ श्लो०)
मयमते त्वविकलोऽयं श्लोकः परिदृश्यते । एवं मिश्राभ्यामाकृतिस्वराभ्यां भेद उक्तः । केवलया
आकृत्यापि स्त्रीपुंनपुंसकादिभेदमाह काश्यपः—
चतुरस्रा च वस्वस्रा स्त्रीशिलेति प्रकीर्त्तिता ॥
आयतास्रा च वृत्ता च दशाष्टादशकोणका ।
पुंलिङ्गा सा शिला ख्याता सुवृत्ता सा नपुंसका ॥ इति ।
(अ० ४९, ५७-५८ श्लो०)
शिलानां वृद्धाबालायुवत्यादिसंज्ञा, अन्ये च विशेषाः काश्यपशिल्पे (अ० ४९) मयमते
(अ० ३३) आग्नेये (अ० ५३) च द्रष्टव्याः ।
४ । लिङ्गं त्रिविधं निष्कलं सकलं मिश्रञ्चेति । तत्र निष्कलं लिङ्गाख्यम्, सकलं प्रतिमा,
सा च प्रस्तावाच्छिवस्यैव । मिश्रञ्च तयोर्मिश्रणादुत्पन्नं मुखलिङ्गाख्यम् । तथा चोक्तं मयमते—
निष्कलं सकलं मिश्रं लिङ्गञ्चेति त्रिधा मतम् ।
निष्कलं लिङ्गमित्युक्तं सकलं बेरमुच्यते ॥
मुखलिङ्गं तयोर्मिश्रं लिङ्गार्चाकृतिसन्निभैः ।
बिम्बमूर्त्तिः शरीराभा विश्वमूर्त्तिस्वरूपकैः ॥