रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 93, कुल 335 में से
संदर्भ में पढ़ें६ देवतामूर्त्तिप्रकरणम्
ब्रह्मभागप्रवेशञ्च ज्ञात्वा लिङ्गस्य चोच्छ्रयम् ।
न्यसेद् ब्रह्मशिलां विद्वान् सम्यक् कर्मशिलोपरि ॥ (अ० ५२, १४ श्लो०)
इति । अत्र च कथं ब्रह्मशिलैवोपरिष्टात् स्थापनीया न कर्मशिला, कर्मशिला चाधस्तादेव
स्थापनीया न ब्रह्मशिलेति प्रश्ने तयोरौत्तराधर्यं कारणं परावरत्वमेवेत्युत्तरयिष्यन् स्थापन-
परिपाटीमाह मात्स्ये—
अधः कूर्मशिला प्रोक्ता सदा ब्रह्मशिलाऽधिका ।
उपर्य्यवस्थिता तस्या ब्रह्मभागाधिका शिला ॥ (अ० २६६, ५ श्लो०)
इति । अधः कूर्मशिला प्रोक्ता (तस्याः) अधिका ब्रह्मभागाधिका शिला ब्रह्मशिला तस्या
उपरि अवस्थितेत्यन्वयः, ब्रह्मभागाधिक्यमेव तस्या उपर्य्यवस्थाने हेतुरिति भावः ।
एवञ्च मूलग्रन्थे 'कर्त्तव्यम् इति, ब्रह्मकूर्मशिलैरि'ति चापपाठौ ; शुद्धः पाठस्तु 'कर्त्तव्ये
ब्रह्मकूर्मशिले' इति, मयमते तथा पाठदर्शनात्, कोषादौ शिलार्थकस्य 'शिल'शब्दस्यानुपलम्भा-
दर्थासङ्गतेश्च । न हि ब्रह्मशिल्या कूर्मशिल्या वा किञ्चित् क्रियते अपि तु ते एव क्रियेते इति
कर्मकरणयोरविवेक एवात्रासङ्गतिः । तथा चानयोः कर्त्तव्यतामाह—समराङ्गणसूत्रधारे—
याताभिषेक (यावताभ्यधिका ?) ब्रह्मशिला ब्रह्मांशतो भवेत् ।
ताव(त्या ? ता)भ्यधिका कार्या तस्याः कर्मशिला बुधैः ॥ इति ।
(अ० ७०, १४० श्लो०)
अन्यत्र च—
“नपुंसकशिलाभिस्तु कर्त्तव्या ब्रह्मणः शिलाः”
इति ब्रह्मशिलाया षण्ढोपलकर्त्तव्यतामुपदिशन् सर्वान् संशयानपुदति ।
'प्रासादनलकुण्डादी'ति पाठोऽपि प्रामादिक इव प्रतिभाति, अन्यत्र तादृशपाठानुपलम्भा-
दर्थासङ्गतेश्च । न च नालमिति पाठः निर्माल्यद्वारलक्षणस्य तस्य पुंशिल्या कर्त्तव्यतोपदेशात् ।
तथा च काश्यपे—
“पुंशिल्या तु कर्तव्यं नालं तु द्विदलान्वितम्” इति । ( अ० ८० १३ श्लो० )
तस्माद् ग्रन्थान्तरसंवादात् 'तल' इत्येव पाठो बन्धनीमध्ये परिकल्पितः ।
यद्यपि 'कुड्यादी'ति मयमते पाठस्तथापि साधकबाधकयुक्त्यभावाद् भवेदपि 'कुण्डादीत्य'पि पाठ
इति बुद्ध्या पाठान्तरं नोपकल्पितम् । मयमतेऽपि 'नन्द्यावर्त्तशिले' इत्यपपाठ इव प्रतिभाति,
द्वित्वानुपपत्तेः, 'नन्द्यावर्त्तशिला' इति शुद्धः पाठः ।
यथोक्तशिलाभिर्यथोक्तकार्याकरणे दोषमाह काश्यपः—
“कृतञ्च विपरीतं यत्तत् सदा कर्तृनाशनम्” (अ० ४९, ६० श्लो०)
विपरीतमिति यदुक्तं तदेव विवृण्वन्नाह शिल्परत्न उत्तरभागे—
स्त्रीशिलाकल्पिते लिङ्गे राष्ट्रं राजा च नश्यति ।
पुंशिलाकल्पिते पीठे लिङ्गे पीठे च षण्डके ॥