सामग्री पर जाएँ
सर्वकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 90, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 90

देवतामूर्त्तिप्रकरणम्
प्रथमोऽध्यायः
ॐ नमो गणेशाय
[ अथ शिलापरीक्षा ]
धातुरत्नशिलाकाष्ठचित्रलेपसमुद्भवम् ।
यद्रूपं विधिवत्तस्य विधिं वक्ष्यामि वस्तुनः ॥१॥
एकवर्णा घना स्निग्धाऽऽमूलाग्रादार्जवान्विता ।
अजघण्टारवाघोषा सा पुं'शिला प्रकीर्त्तिता ॥२॥
स्थूलमूला कृशाग्रा या कांस्यतालसमध्वनिः ।
स्त्रीशिला कृशमूलाऽग्रस्थूला षण्ढेति निःस्वना ॥३॥
२ । अजघण्टारवाघोषेति । अजगललम्बिन्या घण्टाया रव इवाऽऽघोषो रवो यस्याः सेत्यर्थः ।
सा च किङ्किण्यपरपर्याया क्षुद्रा घण्टिका । यच्च मयमते 'गजघण्टारवे'ति (अ० ३३, ८ श्लो० )
पाठस्तस्यापि क्षुद्रघण्टेत्यर्थः, गजगले तादृश्या एव घण्टिकाया बन्धनप्रसिद्धेः । अत्र च
किं मयमतीयपाठदर्शनाद् गजघण्टैव लेखकप्रमादादिहाजघण्टात्वमापन्ना, अत्रत्यपाठस्वरसाद्गज-
घण्टैव वा मयमते गजघण्टात्वमापन्ना, उतोभयमेव पृथक् प्रमाणमित्यपि च न सुनिर्णयम् ।
काश्यपशिल्पे तु "घण्टाध्वनिसमोन्नादे"ति (अ० ४९, ५५ श्लो०) पाठः ।
३ । स्थूलमूलेति । कांस्यतालसमध्वनिरिति कांस्यनिर्मितेन तालेन वाद्यभाण्डविशेषेण
समस्तुल्यो ध्वनिर्यस्याः सा । तथाच मयमते—
स्थूलमूला कृशाग्रा या कंसतालसमध्वनिः ।
स्त्रीशिला ... ... ... ॥ इति । (अ० ३३, ९ श्लो०)
कंसं कांस्यञ्च पर्यायशब्दौ । यद्यपि—
तालः करतलेऽङ्गुष्ठमध्यमाभ्याञ्च सम्मिते ।
गीतकालक्रियामाने तालः खड्गादिमुष्टिषु ॥