सामग्री पर जाएँ
सर्वकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 324, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 324

षष्ठोऽध्यायः ४५
[ मातङ्गः ]
महावीरस्य मातङ्गो (१)गजारूढो मितो भवेत् ।
दक्षिणे नकुलं हस्ते वामे स्याद् बीजपूरकम् ॥ २२ ॥
[ सिद्धायका ]
सिद्धायका नीलवर्णा (२)सिद्धारूढाश्चतुर्भुजा ।
पुस्तकं चाभयं (३)दत्ते बाणं वै मातुलिङ्गकम् ॥ २३ ॥
अथ द्वितीयभेदेन चक्रेश्वरी
द्वादशभुजाष्टचक्राणि वज्रयोर्द्वयमेव च ।
मातुलिङ्गाभये चैव पद्मस्था गरुडोपरि ॥ २४ ॥
[ जिनेषु चतुर्णां प्राधान्यकथनम् ]
जिनस्य मूर्त्तयोऽनन्ताः पूजिताः (४)सौख्यसर्वदा ।
चतस्रोऽतिशयैर्युक्तास्तासां पूज्या विशेषतः ॥ २५ ॥
[ एषां नामानि ]
श्रीआदिनाथो नेमिश्च (५)पर्वे वीरश्चतुर्थकः ।
(६)चक्रे चर्याम्बिका पद्मावती सिद्धायकेति च ॥ २६ ॥
कैलासं सोमशरणं सिद्धिवर्तिं सदाशिवम् ।
सिंहासनं धर्मचक्रमुपरीन्द्रातपत्रकम् ॥ २७ ॥
[ जिनप्रतीहारनामानि ]
इन्द्र इन्द्रजयश्चैव माहेन्द्रो विजयस्तथा ।
धरणेन्द्रः पद्मकश्च सुनाभः सुरदुन्दुभिः ॥ २८ ॥
इत्यष्टौ च प्रतीहारा वीतरागे तु शान्तिदाः ।
[ प्रतीहाराणामायुधानि ]
फलं वज्राङ्कुशौ दण्डमिन्द्र(७)मिन्द्रजयस्तथा ॥ २९ ॥
द्वौ वज्रौ फलदण्डश्च माहेन्द्रो विजयोद्भवः ।
( तदा युद्धयोगाद्भव्रा त्रिपञ्चादिफणोर्ध्वगाः ? ) ॥ ३० ॥
(१) 'गजारूढः सितो' इति स्यात् । (२) 'सिंहारूढा चतुर्भुजा' इति स्यात् ।
(३) 'धत्ते' इति स्यात् । (४) 'सर्व सौख्यदाः' इति स्यात् । (५) 'पार्श्वो
वीरश्चतुर्थकः' इति स्यात् । (६) 'चक्रेश्वर्यम्बिका' इति स्यात् । (७) 'इन्द्रजय-'
इति स्यात् ।