सामग्री पर जाएँ
सर्वकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 325, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 325

४६ रूपमण्डने
धरणेन्द्रः पद्मकश्च सर्वे शान्तिकराः स्मृताः ।
यक्षरूपाधिकाराश्च निधिहस्ताः (१)शुभोदराः ॥ ३१ ॥
(२)सुनाभ्यो दुन्दुभश्चैव क्रमेणाष्टौ प्रकीर्तिताः ।
इत्यष्टौ च प्रतीहारा वीतरागाः प्रकीर्तिताः ॥ ३२ ॥
(३)नागरादिपूरग्रामे सर्वे विघ्नप्रणाशनाः ।
छत्रत्रयं जिनस्यैव रथिकाभिस्त्रिभि(४)र्युताः ॥ ३३ ॥
अशोकद्रुमपत्रैश्च देवदुन्दुभिवादिकैः ।
सिंहासनमसुराद्यो गजसिंहा विभूषिताः ॥ ३४ ॥
मध्ये च कर्मचक्रं च तत्पार्श्वयोश्च यक्षिणी ।
द्वितालविस्तराः कार्या बहिः परिकरस्य तु ॥ ३५ ॥
दैर्घ्ये तु प्रतिमा तुल्या तयोरूर्ध्वे तु तोरणम् ।
वाहिकाबाह्यपक्षे तु (५)गोसिंहैरलंकृताः ॥ ३६ ॥
कर्तव्या द्वारशाखा च तत्तन्मूर्तिगसंयुता ।
तोरणं पञ्चधा प्रोक्तं रथिकार्य च देवताः ॥ ३७ ॥
ललितं चेतिकारं त्रिरथं वलितोदरम् ।
श्रीपुञ्जं पञ्चरथिकं सप्तावानन्दवर्धनम् ॥ ३८ ॥
रथिकायां भवेद् ब्रह्मा विष्णुरीशश्च चण्डिका ।
जिनो गौरी गणेशश्च स्वे स्वे स्थाने सुखावहाः ॥ ३९ ॥
इति परिकरः ।
श्रीमद्देशे (६)मैदपाठाभिधाने (७)क्षेलाख्येऽभूत् सूत्रधारो वरिष्ठः ।
पुत्रो ज्येष्ठो मण्डनस्तस्य तेन प्रोक्तं शास्त्रं मण्डनं रूपपूर्वम् ॥ ४० ॥
इति श्रीसूत्रधारमण्डनविरचिते वास्तुशास्त्रे रूपमण्डने (८)षष्ठमोऽध्यायः समाप्तः ।
॥ समाप्तश्चायं ग्रन्थः ॥
(१) 'शुभोदयाः' इति स्यात् । (२) 'सुनामो' इति स्यात् । (३) 'नगरादिपुर-'
इति स्यात् । (४) '-र्युतम्' इति स्यात् । (५) 'गोसिंहैः समलंकृताः' इति स्यात् ।
(६) 'मेद-' इति स्यात् । (७) 'क्षेताख्योऽभूत्' इति स्यात् । (८) 'षष्ठोऽध्यायः'
इत्येतन्मात्रं साधु ।