सामग्री पर जाएँ
सर्वकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 284, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 284

प्रथमोऽध्यायः ५
प्रतिमाकाष्ठ(१)लेपानुमदन्तचिलायसां गृहे ।
मानाधिका परीवाररहिता नैव पूज्यते ॥ १५ ॥
[ अर्चावैकृतकथनम् ]
नर्त्तनं रोदनं हास्यमुन्मीलननिमीलने ।
देवा यत्र प्रकुर्वन्ति तत्र विद्यान्महाभयम् ॥ १६ ॥
वत्सेनाभिमुखे कुर्याद् यालां द्वारञ्च वास्तुनः ।
प्रवेश(:) प्रतिमादीनां गुर्विणीनां विशेषतः ॥ १७ ॥
[ प्रतिमाशिरोज्ञानम् ]
प्राक् पश्चाद्दक्षिणे सौम्ये स्थिता भूमौ तु या शिला ।
प्रतिमायाः शिरस्तस्याः कुर्यात् पश्चिमदक्षिणे ॥ १८ ॥
[ तालमानेन मूर्त्तयः ]
ग्रासवक्तूमेकभागे द्वौ पक्षी कुञ्जराह्वयः ।
किन्नराश्वाश्चतुस्तालाः (२)पञ्चाशितसुरा वृषः ॥ १९ ॥
शूकरो वामनश्चापि षट्तालो गणनायकः ।
सप्तभागाः प्रकर्त्तव्या वृषशूकरमानकाः ॥ २० ॥
अष्टांशा पार्वती देवी सर्वे देवा नवांशकाः ।
दशतालो भवेद्रामो बलिरूर्ध्वो जिनस्तथा ॥ २१ ॥
ताला एकादश स्कन्दो हनुमान् भूतचण्डिका ।
ताला द्वादश वेताला राक्षसाश्च त्रयोदश ॥ २२ ॥
दैत्याश्चतुर्दशांशाः स्युर्भृगु(३)रूपा ततोऽधिका ।
(४)कालांशाः क्रूरदेवाः स्युरत ऊर्द्ध्वं न कारयेत् ॥ २३ ॥
(१) ‘-लेपाश्मदण्डचित्रायसां गृहे’ इति स्यात् । (२) पञ्चासितसुरा’ इति स्यात् ।
(३) ‘-रूपं ततोऽधिकम्’ इति स्यात् । (४) ‘कलांशाः’ इति स्यात् ।