रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
DevanagariHindipublished335 पृष्ठ
पृष्ठ 285, कुल 335 में से
संदर्भ में पढ़ेंपृष्ठ 285
थोच्यते ॥ २५ ॥
- [सप्ततालस्य]
- वक्त्रं तालप्रमाणं स्यात् कन्धरावंगुलत्रयम् ।
- सार्द्धसप्ताङ्गुलं वक्षो मध्यं नवभिरङ्गुलैः ॥ २६ ॥
- सार्धसप्त नाभि(१)मध्ये (२)ऊरूरष्टादशाङ्गुले ।
- पादोत्सेध त्रिमात्रञ्च मनुजाः सप्ततालके ॥ २७ ॥
- [अष्टतालस्य]
- अष्टताले मुखं कुर्यात् तालं द्वादशमात्रकम् ।
- ग्रीवास्य त्र्यङ्गुला कार्या हृदयं तु नवाङ्गुलम् ॥ २८ ॥
- मध्यं द्वादशमात्रं च नाभिमेढ्रे नवाङ्गुले ।
- (३) ऊरू स्यादेकविंशत्या जानु चैव गुणाङ्गुलम् ॥ २९ ॥
- जङ्घा तथैकविंशत्या पादमूलं गुणाङ्गुलम् ।
- [नवतालस्य]
- प्रतिमामुखमानेन नव भागान् प्रकल्पयेत् ॥ ३० ॥
- वेदाङ्गुला भवेद् ग्रीवा भागेन हृदयं त्वधः ।
- नाभिर्भागेन मेढ्रे च भागमेकं प्रकल्पयेत् ॥ ३१ ॥
- चतुर्विंशतिमात्रोर्जानु प्रोक्तं युगाङ्गुलम् ।
- द्वि