रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 171, कुल 335 में से
संदर्भ में पढ़ें८४ देवतामूर्तिप्रकरणम्
[ कपिलनृसिंहः ]
नृसिंहं पीतवर्णाभ-महा(वक्तृं ? चक्रं)मुखे गुरुम् ।
यतीनां (पूजनं देवं ? पूजनादेव) सत्यलोकप्रदायकम् ॥४७
[ सुदर्शनम् ]
द्वे चक्रे पृष्ठदिग्भागे श्यामश्च मधुवर्णकम् ।
सुदर्शनं शिला नाम पूजितं सुखकामदम् ।
सान्निध्यं मम मूर्त्या च पूजने च कलाधि(का ? कम्) ॥४८
[ हयग्रीवः ]
अश्वाकृतिस्तथा मुद्रा साक्षमाला सपुस्तका ।
पद्माङ्किता भवेन्मुद्रा हयग्रीवेति विश्रुता ॥ ४६ ॥
जयदुस्स्वशुभासक्तो ननः (?) पापात् प्रमुच्यते ।
अक्षया च भवेत्तस्य लक्ष्मी रैश्वर्यमुत्तमम् ॥ ५० ॥
[ मत्स्यः ]
मत्स्याङ्किता (शुभे ? स्तु ये) चक्रा आयुर्दा( ?)
पुष्टिदा नृणाम् ।
सदा पूज्या गृहस्थेन सन्निधानेऽत्र केशवः ॥ ५१ ॥
[ जनार्दनः ]
एकमुखे चतुश्चक्रं चतुश्चक्रो जनार्दनः ।
पूजनीयः सदा सौख्यमुक्तिदो नात्र संशयः ॥ ५२ ॥
४७ । अयं कपिलवर्ण इति पद्मपुराणम् । तथाच—
कपिलो नरसिंहस्तु पृथुचक्रो महामुखः ।
ब्रह्मचर्यंण पूज्योऽसौ त्रिबिन्दुः पञ्चबिन्दुकः ॥ इति ।
४९-५० । अयमङ्कुशाकार इत्यग्निपुराणादिषु । 'जयदुस्स्वशुभासक्तो ननः' इत्यत्र
'चक्रध्वजसमायुक्तो नरः' इति स्यात् । एवञ्च 'नरः पापात् प्रमुच्यते' इत्येतत्पूजको नर इत्यर्थः ।
५२ । अत्र क्रमभङ्गः सम्भाव्यते । हयग्रीवात् परमेवास्य स्थानं निर्देष्टुं युज्यते । दृश्यते
हि मत्स्यादारभ्य क्रमेण दशावतारमुद्रा वर्ण्यन्ते, तत्र यद्यन्तरा जनार्दनोपनिपातः स्यात्तन्न क्रमो