रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 128, कुल 335 में से
संदर्भ में पढ़ेंप्रथमोऽध्यायः ४१
देवादित्रिकूट( गण- )विचार :—
गणस्त्रिविधः, देवगणः, नरगणः, राक्षसगणश्च । जन्मनक्षत्रेण जातकस्य गणो निरूप्यते । तद्
यथा—
हस्ता, स्वाती, मृगशिराः, अश्विनी, श्रवणा, पुष्या, रेवती, अनुराधा, पुनर्वसुः ।
एषु जातो देवगणः ।
आर्द्रा, रोहिणी, उत्तरफल्गुनी, उत्तराषाढा, उत्तरभाद्रपदम्, भरणी, पूर्वफल्गुनी, पूर्वाषाढा
पूर्वभाद्रपदम् ।
एषु जातो नरगणः ।
ज्येष्ठा, अश्लेषा, विशाखा, मूला, शतभिषा, धनिष्ठा, कृत्तिका, चित्रा, मघा ।
एषु जातो राक्षसगणः ।
यस्मिन् नक्षत्रे प्रतिमा निर्मीयते तत् प्रतिमाया जन्मनक्षत्रम् । तेन च नक्षत्रेण प्रतिमाया
गणनिरूपणं स्यात् । कर्मकर्तृगणेन सह प्रतिमागणमिलनदिवसे प्रतिमाघटनं कुर्यात् । मिलनञ्च
वक्ष्यमाणरीत्या ज्ञेयम् ।
गणशुभाशुभकथनम्
स्वजातौ परमा प्रीतिर्मध्यमा देवमानुषे ।
देवासुरे विरोधश्च मृत्युर्मानुषराक्षसे ॥ इति
देवता—६