सामग्री पर जाएँ
सर्वकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 127, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 127

४० देवतामूर्तिप्रकरणम्
नाडीगतऋक्ष-(नाडीवेध-) विचारः-
नाड्यस्तिस्रः; प्राङ्नाडी, मध्यनाडी, पृष्ठनाडी च।
प्राङ्नाडीस्थनक्षत्राणि-
१ ६ ७ १२ १३ १८ १९ २४ २५
अश्विनी, आर्द्रा, पुनर्वसुः, उत्तरफल्गुनी, हस्ता, ज्येष्ठा, मूला, शतभिषा, पूर्वभाद्रपदश्च।
मध्यनाडीस्थनक्षत्राणि-
२ ५ ८ ११ १४ १७ २० २३
भरणी, मृगशिराः, पुष्या, पूर्वफल्गुनी, चित्रा, अनुराधा, पूर्वाषाढा, धनिष्ठा,
२६
उत्तरभाद्रपदश्च।
पृष्ठनाडीस्थनक्षत्राणि-
३ ४ ९ १० १५ १६ २१ २२ २७
कृत्तिका, रोहिणी, अश्लेषा, मघा, स्वाती, विशाखा, उत्तराषाढा, श्रवणा, रेवती च
एकं त्रिनाडीचक्रं विलिख्य तत्र नाडीवेधविचारं कुर्यात्। यदि कर्त्तुः कर्मदिनस्य च
नक्षत्रमेकनाडीस्थं भवेत्तदा नाडीवेधदोषो भवति। नाडीवेधदोषगते नक्षत्रे प्रतिमाघटनं
निषिद्धम्।
प्रतिप्रसवः-
एकराश्यादियोगे तु नाडीदोषो न विद्यते।
कर्त्तुः कर्मदिनस्य च सत्येकराशौ दोषोऽसौ न स्यात्। इत्यादि।
त्रिनाडीचक्रम्।

आद्यनाडीमध्यनाडीपृष्ठनाडी
१२३
६५४
७८९
१२१११०
१३१४१५
१८१७१६
१९२०२१
२४२३२२
२५२६२७