रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 129, कुल 335 में से
संदर्भ में पढ़ेंद्वितीयोऽध्यायः
[ माननिर्णयः ]
छाया रेणु(श्र?) बालाग्र-लिख्षा-यूका यवोऽङ्गुलः ।
क्रमाद्दशगुणं मानं ज(जि?)नसंख्यैः करा(रोऽ?)ङ्गुलैः ॥१॥
१ । छायेति । एतेषां छायाद्यङ्गुलान्तानां सप्तानां पदार्थानां यथोत्तरं दशगुणं मानमित्यर्थः ।
तथा च—छायाया दशगुणं रेणोर्मानम्, रेणोर्दशगुणं बालाग्रस्य केशकोटेर्मानम्, ततो दशगुणं
लिक्षस्य, ततो दशगुणं यूकस्य, ततो दशगुणं यवस्य, ततो दशगुणञ्चाङ्गुलस्य मानमिति स्पष्टार्थः ।
अत्र छायापदार्थनिर्णयो दुष्करः, कापि तादृशार्थकपाठानुपलब्धेः । बृहत्संहितायाम्—
परमाणुरजोबालाग्रलिक्षयूकं यवोऽङ्गुलं चेति ।
अष्टगुणानि यथोत्तरमङ्गुलमेकं भवति संख्या ॥ ( अ० ५७, २ श्लो० )
इति छायास्थाने परमाणुपदमाह । अन्यत्र परमाणुस्वरूपमुक्तम्—
जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः ।
प्रथमं तत् प्रमाणानां परमाणुं प्रचक्षते ॥ इति ।
तस्मादत्र छायापदं परमाणुसमानार्थकमिति प्रतीमः । रेणुश्चान्यत्र रजःपदेन व्यपदिष्टस्त्रस-
रेणुरूपः । तथा च शिल्परत्नपूर्वभागे मानमधिकृत्य—
परमाणुरिति प्रोक्तो योगिनां दृष्टिगोचरः ।
त्रसरेणुरष्टभिः स्यात्तैरेव परमाणुभिः ॥
तदष्टभिस्तु बालाग्रं लीक्षा बालाग्रकाष्टभिः । इति ( अ० २, १-२ श्लो० )
एतदपि स्मृत्यन्तरविरुद्धम्, 'अणुद्वौ परमाणू स्यात् त्रसरेणुस्त्रयः स्मृतः' ( स्क-३, अ० ११,
श्लो० ५ ) इति भागवतीयात् ।
यव इति यवोदरम् ; तथा च शब्दकल्पद्रुमधृत-लीलावत्याम्—
'यवोदरैरङ्गुलमष्टसंख्यैर्हस्तोऽङ्गुलैः षड्गुणितैश्चतुर्भिः । इति ।
शिल्परत्नपूर्वभागेऽपि 'यवोदरैः षड्गुणैर्वा' इत्युक्तम् । शब्दकल्पद्रुमे तिथ्यादितत्त्वधृत-
कालिकापुराणमपि—
यवानां तण्डुलैरेवमङ्गुलं चाष्टभिर्भवेत् ।
अदीर्घयोजितैः ... ... ॥ इत्याह ।