सामग्री पर जाएँ
सर्वकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 126, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 126

प्रथमोऽध्यायः ३६
बिन्दुपातस्य रेखापातस्य च नियमः
शून्ये तु बिन्दवश्चाष्टौ रेखैके रसविन्दवः ।
चत्वारो बिन्दवो युग्मे द्विविन्दू रामरेखके ॥ ३ ॥
समो रेखाचतुर्थे तु पञ्चके नेत्ररेखके ।
षड्रेखासु चतू रेखाः सप्तमे रसरेखिकाः ॥ ४ ॥
पूर्वोक्तप्रकारेण द्विगुणितरेखासङ्ख्याकादष्टौ वियोजयेत् । तेन शून्येऽवशिष्टे बिन्द्वष्टकं
रक्षेत् । एकेरेखायामवशिष्टायां बिन्दुषट्कम्, रेखाद्वये बिन्दुचतुष्टयम्, रेखात्रये बिन्दुद्वयं
रक्षेत् ; रेखाचतुष्टये स्थिते समो भवेत् ; रेखापञ्चके रेखाद्वयम्, रेखाषट्के रेखाचतुष्टयम्, रेखासप्तके
रेखाषट्कं भवेत् ।
इत्थं रेखाबिन्दुपातेन फलं विचार्यम् ।
रेखाभिस्तु शुभं ज्ञेयं बिन्दुभिरशुभं फलम् ।
यत्र रेखा न बिन्दुश्च तत् समं परिकीर्त्तितम् ॥ ५ ॥
रेखायोगेन बिन्दुयोगेन वा ग्रहाणां फलम्
स्वोच्चमित्रादिवर्गस्थाः केन्द्रादिबलसंयुताः ।
अनिष्टफलदाः सर्वे स्वल्पबिन्दुयुता यदि ॥ ६ ॥
दुष्टस्थानस्थिता ये च ये च नीचारिभांशगाः ।
ते सर्वे शुभदा नित्यमधिबिन्दुयुता यदि ॥ ७ ॥
दिनेशमुख्यग्रहवर्गकेषु यदा शनिः शून्यगृहं प्रयातः ।
करोति पित्रादिकभावजानामतीव रोगारिभयाकुलानि ॥ ८ ॥
एतेषामर्थः—उच्चस्थो मित्रादिवर्गगतः केन्द्रादिस्थो वा बलवान् ग्रहो वर्गाष्टकचक्रे
एकादिस्वल्पबिन्दुयुक्तराशिस्थ एकादिस्वल्परेखायुक्तराशिस्थो वा चेदनिष्टफलप्रदः ।
षडादिदुःस्थानस्थो नीचराशिनवांशास्थः शत्रुक्षेत्रनवांशास्थो वा नितरां दुर्बलोऽपि ग्रहः बिन्दु-
युक्तराशिस्थो रेखायुक्तराशिस्थो वाचेत् शुभफलप्रदः ।
रव्यादिग्रहाणामष्टवर्गे रेखाहीनेऽष्टशून्ययुक्ते वा राशौ शनिर्गोचरवृत्त्या गतश्चेत् तद्राशिनिर्दिष्ट-
भावफलस्यानिष्टम्, रोगम्, शत्रुवृद्धिम्, तथा भयाकुलत्वादिकम्, तद्भावनिर्दिष्टञ्च पितृभ्रात्रा-
दीनामपि तद्रूपमशुभं परिकल्पयेत् । अष्टवर्गे रव्यादिग्रहाणां विशेषफलं ग्रन्थबाहुल्यभयादिह
परित्यक्तं ज्योतिषग्रन्थे तदनुसन्धेयम् ।