रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 125, कुल 335 में से
संदर्भ में पढ़ें३८ देवतामूर्त्तिप्रकरणम्
उपर्युक्तनियमेन रेखापाताद् ग्रहाणां शुद्दिमशुद्धिञ्च निर्णयेत् । वर्गाष्टके केनोपायेन ग्रहाणां
शुद्धाशुद्धिविचारं फलनिर्णयञ्च कुर्यात् तदिदानीमुच्यते । दशाफलं सुविचारसाध्यम्, महाष्टवर्गाष्ट-
वर्गफलन्तु न तथाविधम्, एतद् गणितागतमित्यव्यर्थम् ; गणना चेद्भ्रान्ता स्यात् तदष्टवर्ग-
निरूपितफलमवश्यमेव घटेत ।
अष्टवर्गे ग्रहाणां शुद्धयशुद्धिविचारः फलनिर्णयश्च ।
यस्य ग्रहस्याष्टवर्गे येषु येषु राशिषु पञ्चभ्यः अष्टौ यावत् फलरेखास्तिष्ठन्ति, स ग्रहस्तेषु तेषु
राशिषु क्रमशः शुभफलवर्द्धको भवति । चतस्रो रेखा यदि तिष्ठन्ति, तदा समफलप्रदः ; तिस्रो
द्वौ एका वा रेखा तिष्ठति चेत् क्रमेणाशुभफलस्य वर्द्धको भवति । रेखाभावे अर्थात्शून्यत्वे,
तद्राशौ तु सातिशयमशुभं ददाति । अतो यस्य ग्रहस्याष्टवर्गं गणयेत् स ग्रहो यस्मिन् गृहे स्थास्यति
तद्गृहे यदि चतस्रस्तदधिका वा रेखास्तिष्ठन्ति तदासौ ग्रहः शुद्धः शुभफलप्रदश्चेति जानीयात् ।
किञ्च—गृहे यस्मिन् रेखाचतुष्टयस्य न्यूनता भवेत् तद्राशिगतश्चेदशुद्धस्तथाऽशुभफलप्रदश्च ।
ग्रहगणो वर्गाष्टके विशुद्धः सन् यद्युपचयगतो भवेत् ; अर्थात्जन्मराशेर्वा जन्मलग्नाद्वा तृतीय-षष्ठदश-
मैकादशस्थानगतः स्यात्, अथवा मित्रगृहगतः किंवा उच्चस्थानगतो भवेत्, तदासौ ग्रहश्चातीव
शुभदायको भवेत् । किञ्च ग्रहगणोऽशुद्धो भवन् यद्यपचयस्थानगतो भवेत् अर्थात् तृतीयषष्ठ-
दशमैकादशान् विना अन्यराशिगतः स्यात्, शत्रुराशौ नीचराशौ वाऽवतिष्ठते तदातिशय-
मशुभप्रदो भवेत् । यत्र यत्र राशौ ग्रहा वर्गाष्टके शुभदा गोचरे तत्तद्राशिषु आगच्छन्त-
स्तात्कालिकशुभदा भवन्ति । तत् स्थानं चेज्जन्मराशितस्तस्य ग्रहस्य गोचरनिर्दिष्टशुभस्थानं
भवेत् तदा शुभफलवर्द्धकः स्यात्, तस्य राशेर्जन्मलग्नात् प्रभृति यो भावस्तेन तद्भावोत्थफलं
तद्भावनिर्दिष्टञ्च भ्रातृपित्रादीनां तात्कालिकशुभसौख्यं कल्पनीयम् । दृष्टान्तो यथा—
रवेरष्टवर्गे मिथुनराशौ फलरेखाः षड् भवन्ति; तदवस्थायां रविश्चेन्मिथुनराशिस्थः अर्था-
दाषाढमासे विशेषशुभसूचको भवेत् । यत् कर्मणि रविशुद्धेरावश्यकम् आषाढमासे तत् कर्मा-
रम्भेण शुभफलं सुनिश्चितम् ।
यावती यावती रेखा ग्रहाणामष्टवर्गके ।
तावतीं द्विगुणीकृत्य चाष्टाभिः परिशोधयेत् ॥ १ ॥
अष्टोपरि भवेद् रेखा अष्टाभ्यन्तरबिन्दवः ।
अष्टाभिश्च समो यत्र समस्तत्र निगद्यते ॥ २ ॥
पूर्वोक्तनियमानुसारण प्रत्येकराशौ यावद्रेखापातो भवेत् ता रेखा द्विगुणीकृत्य
ततोऽष्टौ वियोजयेत, ततो यावदवशिष्टं भवेत्, तावदङ्कं तत्तद्राशिषु रक्षेत् । यद्यद्रा-
शिषु द्विगुणितेरेखासमष्टिरष्टाभ्यो न्यूना भवेयुः तत्तद्राशिषु अष्टसंख्यातो यावती न्यूना भवेत्
तावतो बिन्दून् स्थापयेत् यद्यद्राशिषु द्विगुणितेरेखासमष्टिरष्टौ भवेयुस्तस्मिन् राशौ समं
लिखेत् ।