ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 44, कुल 91 में से
संदर्भ में पढ़ेंत्स्पर्शादधिकमत्यन्तं शीतलतामुपेतः प्राप्तः । पत्रान्ते दल-
प्रान्ते लग्नं यत्तुहिनाम्बु हिमजलं तद्विधूयते स तथोक्तो
विधूयमानः पवनो वायुः प्रभाते प्रातःकालेऽतितरामत्यन्त-
मुत्कण्ठयत्युत्सुकयतीत्यर्थः ॥
संपन्नशालिनिचयावृतभूतलानि
स्वस्थस्थितप्रचुरगोकुलशोभितानि ।
हंसैः ससारसकुलैः प्रतिनादितानि
सीमान्तराणि जनयन्ति नृणां प्रमोदम् ॥१६॥
संपन्नेति ॥ संपन्नानां जलसिक्तानां शालीनां निचयेन
समूहेनावृतानि छादितानि भूतलानि येषां तानि तथोक्तानि।
स्वस्थमनुद्वेगं स्थितानां प्रचुराणां बह्वीनां गवां कुलैः समुदायैः
शोभितानि भूषितानि । सारसानां पक्षिविशेषाणां कुलैः स-
हितास्तैस्तथोक्तैर्हंसैः प्रतिनादितानि सीमान्तराणि नृणां ज-
नानां प्रमोदं हर्षं जनयन्त्युत्पादयन्तीत्यर्थः ॥
हंसैर्जिता सुललिता गतिरङ्गनाना-
मम्भोरुहैर्विकसितैर्मुखचन्द्रकान्तिः ।
नीलोत्पलैर्मदकलानि विलोकितानि
भ्रूविभ्रमाश्च रुचिरास्तनुभिस्तरङ्गैः ॥ १७ ॥
हंसैरिति ॥ अङ्गनानां पुरंध्रीणां सुललितात्यन्तं रमणीया
गतिर्हंसैर्जिता । मुखचन्द्रस्य वदनचन्द्रस्य कान्तिः शोभा
विकसितैर्विकचैरम्भोरुहैर्जिता । मदेन कलानि मधुराणि
विलोकितान्यवलोकितानि नीलोत्पलैर्जितानि । रुचिराः सु-
१ 'सुस्थ' २ 'च सारस.' ३ 'जनप्रमोदम्.' ४ 'चलानि.
५ 'विलोचनानि.' ६ 'सरिताम्.'