ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 45, कुल 91 में से
संदर्भ में पढ़ें४२ ऋतुसंहारे
न्दरा भ्रूविभ्रमाश्च तनुभिः सूक्ष्मैस्तरंगैर्वीचिभिर्जिता इति
लिङ्गवचनविपरिणामेनान्वयः ॥
श्यामा लताः कुसुमभारनतप्रवालाः
स्त्रीणां हरन्ति धृतभूषणबाहुकान्तिम् ।
दन्तावभासविशदस्मितचन्द्रकान्तिं
कङ्केलिपुष्परुचिरा नवमालती च ॥ १८ ॥
श्यामा इति ॥ कुसुमानां पुष्पाणां भारेण नता नम्राः
प्रवालाः पल्लवा यासां तास्तथोक्ताः श्यामा हरिद्वर्णास्तत्र मध्ये
याश्च लता व्रतत्यः । ‘वल्ली तु व्रततिर्लता’ इत्यमरः । स्त्री-
णां नारीणां धृतानि भूषणानि यैस्तेषां बाहूनां कान्तिं शोभां
हरन्त्यपनयन्ति । कङ्केलिपुष्परुचिरा नवमालती नूतनमा-
लिका च दन्तानां रदनानामवभासेन प्रभया विशदं निर्मलं
स्मितमेव चन्द्रकान्तिम् । ‘रदना दशना दन्ताः’ इत्यमरः ।
हरतीति विभक्तिविपरिणामेनान्वयः ॥
केशान्नितान्तघननीलविकुञ्चिताग्रा-
नापूरयन्ति वनिता नवमालतीभिः ।
कर्णेषु च प्रवरकाञ्चनकुण्डलेषु
नीलोत्पलानि विविधानि निवेशयन्ति ॥ १९ ॥
केशानिति ॥ वनिता अबला नितान्तमत्यन्तं घनाः
संकीर्णा नीलाः कृष्णवर्णा विकुञ्चिताः कुटिला अत एवाग्राः
१ ‘भृत.’ २ ‘दन्ते विभास.’ ३ ‘वक्त्रकान्तिम्.’ ४ ‘बन्धूक.’ ५ ‘र-
चिता.’ ६ ‘नवमालिका च’; ‘नवमालतीव’; ‘नवमालिकेव.’ ७ ‘प्र-
चुर’; ‘प्रबल’; ‘प्रचल’. ८ ‘कुण्डलेषु’. ९ ‘विकचानि.’ १० ‘निवेशयन्ते.’