ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 43, कुल 91 में से
संदर्भ में पढ़ें४० ऋतुसंहारे
शेफालिकाकुसुमगन्ध^१मनोहराणि
स्वस्थस्थिताण्डजकुल^२प्रतिनादितानि ।
पर्यन्तसंस्थितमृगीनयनोत्पलानि
प्रोत्कण्ठयन्त्युपवनानि मनांसि पुंसाम् ॥१४॥
शेफालिकेति ॥ शेफालिका सुवहा तस्याः कुसुमानां
पुष्पाणां गन्धेन मनोहराणि सुन्दराणि । 'शेफालिका तु सुव-
हा निर्गुण्डी नीलिका च सा' इत्यमरः । खस्थमनुद्वेगं तीव्र-
तराणि तापदावानलादिदुःखाभावाद्यथा भवति तथा स्थिता-
नामुपविष्टाना मण्डजानां पक्षिणां कोकिलादीनां कुलैः समु-
दायैः प्रतिनादितानि प्रतिध्वनितानि । पर्यन्ते संस्थितानां
प्रान्तस्थितानां मृगीणां हरिणीनां नयनानि लोचनान्येवोत्प-
लानि कुवलयानि येषु तानि तथोक्तान्युपवनान्युद्यानानि
पुंसां मनांसि प्रोत्कण्ठयन्ति समुत्कण्ठितानि कुर्वन्तीत्यर्थः ॥
कह्लारपद्मकुमुदानि^३ मुहु^४र्विधुन्वं-
स्तत्संगमादधिकशीतलतामुपेतः^५ ।
^६उत्कण्ठयत्यतितरां पवनः प्रभाते
पत्रान्तलग्नतुहि^७नाम्बुविधूयमानः ॥ १५ ॥
कह्लारेति ॥ कह्लारपद्मकुमुदानि कह्लारं सौगन्धिकम्, पद्मं
नलिनम्, कुमुदं कैरवं तानि । 'सौगन्धिकं तु कह्लारम्'
इत्यमरः । 'वा पुंसि पद्मं नलिनम्' इत्यमरः । 'सिते कुमु-
दकैरवे' इत्यमरः । मुहुर्वारंवारं विधुन्वन् । तेषां संगमा-
१ 'राग.' २ 'गण.' ३ 'कुसुमानि.' ४ 'मुदा.' ५ 'उपेत्य.'
६ 'सोत्कां करोति वनिताम्.' ७ 'तुहिनानि हरंस्तरूणाम्.'