ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 40, कुल 91 में से
संदर्भ में पढ़ेंलिनी तटिनी ह्लादिनी धुनी' इत्यमरः । परितः समन्ततो
हंसानां मरालानां विरुतैः शब्दैः । 'तिरश्चां वाशितं रुतम्'
इत्यमरः । जनस्य लोकस्य प्रीतिं कुर्वन्ति जनयन्तीत्यर्थः ॥
नेत्रोत्सवो हृदयहारिमरीचिमालः
प्रल्हादकः शिशिरसीकरवारिवर्षी ।
पत्युर्वियोगविषदिग्धशरक्षतानां
चन्द्रो दहंत्यतितरां तनुमङ्गनानाम् ॥ ९ ॥
नेत्रोत्सव इति ॥ नेत्राणां लोचनानामुत्सवो हर्षजनकः ।
'लोचनं नयनं नेत्रम्' इत्यमरः । हृदयहारिणी मरीचिमाला
किरणपङ्क्तिर्यस्य स तथोक्तः । प्रकर्षेण ह्लादको हर्षजनकः ।
शिशिरं शीतलं सीकराणां वारि वारिकणं वर्षति स तथो-
क्तश्चंद्रः सुधाकरः पत्युः प्रियस्य वियोगो विरह एव विषदि-
ग्धशरो बाणस्तेन क्षता व्रणितास्तासां तथोक्तानामङ्गनानां वि-
रहिणीनां तनुं शरीरमतितरामत्यन्तं दहति संतापयतीत्यर्थः ॥
आकम्पयन्फलभरानतशालिजाला-
नानर्तयंस्तरुवरान्कुसुमावनम्रांस् ।
उत्फुल्लपङ्कजवनां नलिनीं विधुन्व-
न्यूनां मनश्चलयति प्रसभं नभस्वान् ॥१०॥
आकम्पयन्निति ॥ फलानां भरेण भारेणानता नम्रा ये
शालिजालाः शालिसमूहास्तानाकम्पयन् । कुसुमावनम्रांस्त-
रुवरान्वृक्षश्रेष्ठानानर्तयन् । एतेन पवने मान्द्यमावेदितम् ।
१ 'अनुदिनम्.' २ 'तरुवरान्'; 'कुरुबकान्.' ३ 'प्रोत्फुल्ल.'
४ 'स्खलयति'; 'मदयति.'