रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 450, कुल 799 में से
संदर्भ में पढ़ें४२४ रसतरङ्गिणी
आर्द्रकस्वरसोपेतं ताम्रं तु परिशीलितम् ।
नागिनीवल्लमध्यस्थं गुल्मरोगं व्यपोहति ॥ ६९ ॥
रससिन्दूरसंयुक्तं रविलोहमनारतम् ।
कण्टकारीफलोद्भूतरजसा परिशीलितम् ॥ ७० ॥
सशब्दमाक्षेपयुतमानीलाननमण्डलम् ।
प्ररुद्धश्वासनिश्वासं कासं नाशयति द्रुतम् ॥ ७१ ॥
अत्यल्पमात्रया ताम्रं दग्धाश्वत्थत्वचाम्भसा ।
बर्हिपक्षविभूतिर्वा छर्दिं जयति दुर्जयाम् ॥ ७२ ॥
व्योषचित्रकणामूलमांसीभाङ्गींकषायतः ।
पिप्पल्यादिगणक्वाथयुतं वा रविलोहकम् ॥ ७३ ॥
तीव्रहृच्छूलसंयुक्तं तथाक्षेपसमन्वितम् ।
शीलितं नाशयत्याशु शूलं मक्कल्लसंज्ञकम् ॥ ७४ ॥
ताम्रं समस्वर्णयुतं जटामांसीरजोऽन्वितम् ।
शीलितं विनिहन्त्याशु त्वाक्षेपमतिदारुणम् ॥ ७५ ॥
प्रबद्धमुष्टिकं काममानीलाननमण्डलम् ।
पानाशानादिसमये घुर्घूरायितकण्ठकम् ॥ ७६ ॥
अत्यल्पकालिकं वापि दारुणं दीर्घकालिकम् ।
तथा पादोदरगतां खल्लीं खल्वतिदारुणाम् ॥ ७७ ॥
रेणुकाशुण्ठिकाकन्यासारदारुसितान्वितम् ।
अनारतं विशेषेण रविलाहं तु शीलितम् ॥७८॥
निम्नोदरे वक्षसि वा युतमाक्षेपपीडया ।
सचीत्कारं संप्रलापं दारुणाथ्यथान्वितम् ॥ ७९ ॥
सवर्मिं वा विषमिषायुतखल्लोसमन्वितम् ।
बाधकं वा रजारोधं विनाशयति सत्वरम् ॥ ८० ॥
रससिन्दूरसंयुक्तं सुमृतं ह्यमृतीकृतम् ।
शीलितं रविलोहे तु मर्कपूरसंयुतम् ॥८१॥
श्वेतातितरलात्यच्छमलां भूयस्तृषान्विताम् ।
पादयोरुदरे वापि भृशं खल्लीसमन्विताम् ॥ ८२ ॥
प्रक्षीणनाडिकां काममानीलाननमण्डलाम् ।
शीलितं शमयत्याशु दारुणां तु विषूचिकाम् ॥ ८३ ॥