रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 451, कुल 799 में से
संदर्भ में पढ़ेंसप्तदशस्तरङ्गः ४२५
कज्जलरससिन्दूरयुतं ताम्रं तु शीलितम् ।
आनीलङ्गं चातिफेनं परिश्रान्तकनीनिकम् ॥ ८४ ॥
सक्रन्दनं सचीत्कारं वारन्धाक्षेपमुल्बणम् ।
आरटत्प्रचलद्दन्तमपस्मारं विनाशयेत् ॥ ८५ ॥
लोहस्वर्णसमायुक्तं ताम्रं गन्धकजारितम् ।
शीलितं नाशयेत्याशु श्वासं परमदारुणम् ॥ ८६ ॥
प्रचुराक्षेपसंयुक्तमानीलमुखमण्डलम् ।
आश्वासपथसङ्कोचक्रियाप्रत्ययकारणम् ॥ ८७ ॥
तिक्तामृता पर्पटककिराताब्दकषायतः ।
ताम्रं तु शीलितं हन्ति पुनरावर्तकञ्ज्वरम् ॥ ८८ ॥
पुनर्नवानिशामेषशृङ्गीद्रवविभावितम् ।
ताम्रं गन्धहतं ख्यातं व्रणशोधनरोपणम् ॥ ८९ ॥
रविलोहं बलिहतं तोलकैकमितं शुभम् ।
तोलकाष्टमितं चैव सुघृष्टं रक्तचन्दनम् ॥ ९० ॥
भावितं भृङ्गुनीरेण तत्त्ववारं प्रयत्नतः ।
मधुनाञ्जनतः ख्यातं तिमिरापहमूत्तमम् ॥ ९१ ॥
तारताप्ययुतं ताम्रं चित्रकद्रवभावितम् ।
सूर्यावर्तादिकान् घोरान् शिरोरोगान् विनाशयेत् ॥ ९२ ॥
यवजाऽऽलसमायुक्तं रसगन्धकजारितम् ।
शीलितं रविलोहं तु मतं कुष्ठापहं परम् ॥ ९३ ॥
मृतताम्रस्य रोगयोग्यः प्रयोगः—समरसबलिनिम्बूद्रावपिष्टथा विपक्वमिति
रीत्यानया सपारदं ताम्रभस्मैव कृतमपनयति वातरोगसङ्घमिति भावः । ताम्रभस्म
३ गुञ्जा, उशीररजः २ रक्तिका, नागकेसरम् १ गुञ्जा, शीतजलं पलैकमिति
मूर्च्छानाशोपयोगियोगः । भ्रमाख्यं रजःपित्तानिलाज्जाता चक्रारूढस्येव चेष्टा
शिरोधूर्णनप्रायका या भ्रमः, ननु मिथ्याज्ञानरूप इति । करञ्जबीजोत्थरजोकि-
मिश्रमिति— आहुश्च—“एक एव कुबेराक्षो हन्ति शूलशतानि च । किम्पुनर्यदि
लभ्येत ताम्रभस्मसमन्वितः ॥” इति । तदेतद् ध्वनितं नहि संशय इति । मासैक-
निपेवणेन इत्यवधिः क्रमापचययोगदशकः प्लीहः । सूतिकामयः “अङ्गमर्द्दो
ज्वरः कम्पः पिपासा गुरुगात्रता । शोफः शूलातिसारौ च सूतिकारोगलक्षणम् ॥”
इत्युक्तः, कणा पिप्पली, वृत्तं शक्राशनिर्यथेति शीघ्रतायां दृष्टान्तः । नागपुष्पं