रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 449, कुल 799 में से
संदर्भ में पढ़ेंसप्तदशस्तरङ्गः ४२३
गुञ्जार्द्धमात्रं खलु सूर्यलोहं द्विरक्तिकोशीररजोविमिश्रम् ।
सनागपुष्पं शिशिरेण वारा पीतं हरत्येव जवेन मूर्च्छाम् ॥५४॥
रविप्रियं शीलितमाज्ययुक्तं दुरालभाक्वाथविमिश्रितन्तु ।
विन्नाशयत्याशु गदं भ्रमाख्यं यथा समीरः खलु मेघवृन्दम् ॥५५॥
करञ्जबीजोत्थरजोविमिश्रं गुञ्जार्द्धमात्रं मृतसूर्यलोहम् ।
पित्तोद्भवं वापि कफोत्थितं वा शूलं निहन्यान्नहि संशयोऽत्र ॥ ५६॥
कटुत्रिकाख्यं मृतशङ्खयुक्तं गुञ्जार्द्धमात्रं खलु सूर्यलोहम् ।
प्लीहानमत्युग्ररुजं समन्ताद् निहन्ति मासैकनिषेवणेन ॥५७॥
वराटभस्मसंयुक्तं द्विगुञ्जजीरकान्वितम् ।
रविप्रियन्तु शीलितं निहन्ति सूतिकामयम् ॥ ५८ ॥
कणाचूर्णसमायुक्तं मधुना परिशीलितम् ।
रविप्रियं समाख्यातं त्वग्निसन्दीपनं परम् ॥५९॥
धात्रीचूर्णसमायुक्तं ताम्रं गुञ्जाद्वैसम्मितम् ।
अम्लपित्तं निहन्त्याशु वृक्षं शक्राशनिर्यथा ॥६०॥
भार्ङ्गीवभीतकोपेतं गुञ्जार्द्धप्रमितं मृतम् ।
ताम्रं क्षौद्रेण संलीढं कासश्वासं व्यपोहति ॥६१॥
नागपुष्पाभयामिश्रं ताम्रकं मधुसंयुतम् ।
शीलितं मासमात्रेण सर्व्वाण्यर्शांसि नाशयेत् ॥ ६२ ॥
अश्वत्थवल्कभस्माढ्यं रविलोहन्तु शीलितम् ।
गुञ्जापादांशमात्रेण छर्दिं जयति दारुणाम् ॥६३ ॥
बीजपूरद्रवोपेतं रविलोहं समाक्षिकम् ।
निषेवितं निहन्त्याशु हिक्काः पञ्च सुदारुणाः ॥६४॥
रविलोहं तु सुमृतं केवलं बलिजारितम् ।
अञ्जनाद्विनिहन्त्याशु दोषान्पटलसंश्रितान् ॥ ६५ ॥
कटुत्रिकाख्यं खलु सूर्यलोहं कणाशिफाचूर्णयुतं तु लीढम् ।
क्षौद्रेण सप्ताहनिषेविते तु द्रुतं यकृद्दाल्युदरं निहन्ति ॥६६॥
कटुत्रिकक्षोदयुतं सघृतं रविलोहकम् ।
निहन्ति मधुना गुल्मतीसारांन् विशेषतः ॥ ६७ ॥
ताम्रं समविषं धूत्तद्रवेण परिभावितम् ।
शीलितं त्वार्द्रकद्रावैः सन्निपातं व्यपोहति ॥६८॥