रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
१८० रसार्णवे
गुरुत्वमरुणत्वञ्च¹ तेजसा सूर्य्यसन्निभम् ।
शिखिमध्ये धृतं² तिष्ठेत् मूर्त्तिबन्धस्य³ लक्षणम् ॥ २०२ ॥
शलाकाजारणाद्वापि⁴ मूर्त्तिबन्धत्वमिष्यते ॥ २०३ ॥
श्वेतं पीतं गुरु तथा मृदु सिक्यक⁵सन्निभम् ।
अग्निमध्ये यदा⁶ तिष्ठेत् पट्टबन्धस्य⁷ लक्षणम् ॥ २०४ ॥⁸
कृष्णं श्वेतं तथा पीतं⁹ नीलं¹⁰ भस्मनिभं तथा ।
चपलत्वं यदा¹¹ नष्टं भस्मसूतस्य¹² लक्षणम् ॥ २०५ ॥
कुकुटाण्डनिभं¹³ सूतं यदा लवणभेदि च¹⁴ ।
आवर्त्तते¹⁵ रसस्तद्वत् खोटकस्य च¹⁶ लक्षणम् ॥ २०६ ॥
अथवा कदने स्निग्धं¹⁷ रश्मिना मृदुना द्रवेत् ।
(1) K has गुरुत्वं मरणत्व च, which is incorrect. (2) B reads
धूप. M reads द्रुत. (3) K reads मूर्त्तिबद्धस्य. (4) This
charaṇa and the next are not found in K. M reads शलाकाधारणाद्वापि.
(5) B reads सिक्याक. M reads सिक्षक. (6) M reads यथा.
(7) B has पटबद्धस्य here ; but it has mentioned पट्टबन्ध in the 198th
śloka. (8) This śloka is not found in K. (9) B reads
रक्तपीत instead of पीतं, which mars the metre. K reads भेदि श्वेतं instead
of कृष्ण श्वेत. M reads कृष्णश्वेतं, (10) M reads नील (without any
suffix). (11) M reads यथा. (12) B and M read भस्मसूतक.
(13) B has an erroneous reading—कुकुटांगंडभिभ्रं. (14) K reads
लवणसैंधवं. M reads लवणभेदि च. Another reading is पटु भेदि भवेद्यदा.
(15) K and M read चावर्त्तिते. Another reading is चावर्त्तितं पुनस्तद्वत्.
(16) B reads खोटबद्धस्य. M reads घोटबन्धस्य. (17) B reads खिग्ध.
एकादशः पटलः । १८१
अच्छयं कठिनं खेतं¹ खोटबन्धस्य लक्षणम् ॥ २०७ ॥²
खोटादयस्तु ये पञ्च³ विहाय जलुकाकृति⁴ ।
हठाग्नौ धमिताः सन्ति⁵ न तिष्ठत्येव⁶ मूर्च्छितः ॥२०८॥
तरुणादित्यसंकाशो नानावर्णः⁷ सुरेश्वरि ।
वेधयेद्वहलोहानि रञ्जितो रसभैरवः ॥ २०६ ॥
शोधनं सूतकस्यादौ ग्रासमानमतः परम् ।
जारणं व्योमसत्त्वस्य सर्व्वसत्त्वस्य⁸ जारणम् ॥ २१० ॥
गर्भबाह्यद्रुतिः पश्चात् सुवर्णस्य तु जारणम् ।
दिव्यौषधिपुटः⁹ पश्चात् रत्नबन्धमतः परम्¹⁰ ॥ २११ ॥
रञ्जनञ्च ततो देवि जारणा चानुसारणा¹¹ ।
क्रामणञ्च ततो देयं¹² सूतकस्य विचक्षणैः ॥ २१२ ॥
एवं क्रमं तु यो वेत्ति तस्य सिद्धिर्न संशयः ॥ २१३ ॥
(1) B reads कठिनश्वेत. (2) This śloka is not found in M.
(3) खोटाद्यैस्तु ये पञ्च, a variant in K. खोटादयंस्तु ये पञ्च, a variant in M.
Both the readings are incorrect. (4) विद्यया जलुकाकृतिः, a variant
in K. विद्यया जुलुकाकृतिः, a variant in M. Both of them are incorrect.
(5) हठाग्नौ धासिताऽसंति, an erroneous reading in B. अधौ धमितः, an
incomplete reading in K. हठामौ धामितस्सभिः, a reading of unintelli-
gible sense. (6) K reads संतिष्ठत्येव, which is just the opposite in
sense. (7) B reads नामवर्णं. (8) K reads सर्व्वे सत्वस्य, which
is inc. (9) B reads पुट K reads दिव्यौषधौपुटे. M reads दिव्यौ-
षधपुटः. (10) K reads रत्नबद्धमतः पर. M reads रत्नबन्धनतः परम्.
(11) K. reads चानुसारणान्. M reads जारणायानुजारखी Both seem to be
inc. (12) K reads क्रामणन्तु. M reads देयं:, which is gram. inc.
१९२ रसार्णवे
वेधकं यस्तु जानाति¹ देहे लोहे² रसायने ।
तस्य जन्म³ जरा व्याधिर्नश्यत्येव न संशयः ॥ २१४ ॥
देहे तु पञ्चरत्नानि⁴ नागं वङ्गं तथाऽयसम्⁵ ।
क्रामणं रसराजस्य भेषजं व्याधिनाशनम्⁶ ॥ २१५ ॥
औषधैः⁷ क्रमते सूतो योगशक्तिक्रमेण⁸ तु ।
क्रमते⁹ व्याधिसंघाते ध्वंसंते दुष्टमामयम् ॥ २१६ ॥
तस्य तु क्रामणं ज्ञात्वा¹⁰ ततो वैद्यैरुपाचरेत्¹¹ ।
क्रामणेन विना सूतो न क्रमेत्¹² न च वेधयेत् ।
देहलोहामयान् सर्व्वान्¹³ वृथा स्यात् केवलं¹⁴ श्रमः ॥२१७
यस्य रोगस्य यो योग¹⁵स्तेनैव सह¹⁶ योजयेत् ।
रसेन्द्रो हरति व्याधीन्¹⁷ नरकुञ्जरवाजिनाम् ॥ २१८ ॥
(१) वेधक यो न विजानाति, a variant in B, wherein न is incorrect.
(२) M reads देहदृहे, which is incorrect. (३) The word जन्म is not
found in B. (४) B reads दृढे, which is inc. M reads पञ्चरक्तानि,
which is also inc. (५) नागवंगं तथायसे, a variant in M. (६) B
has व्याधिनाशने (७) K reads चौषधिः. (८) B has योगमुक्ति-
क्रमण. M has व. र उक्तः क्रमेण. (९) M reads कामतो, which appears
to be inc. (१०) B reads तन्माणं. K reads कामणां. M reads तत्तत्
क्रामणक वाद्य. (११) वैद्यैरूपाचयेत्, a reading in B. (१२) B
reads क्रामित्. K reads कार्की. (१३) K has देहलोहमयान् संधान्. M
reads देहलोहमयान् सर्व्वान्. (१४) K reads केवलः. M has रसः स्यात्
केवलश्रमः. (१५) M reads यो योगैः, which is gram. inc. (१६) K
reads स instead of सह. (१७) B reads व्याधिं. K reads हरते व्याधिं.
एकादशः पटलः । १८३
आरीटो बलमाधत्ते¹ मूर्च्छितो व्याधिनाशनः ।
बद्धेन खेचरोसिद्धिः² मारितेनाजरामरः³ ॥ २१९ ॥
विशेषाद्वाधि⁴शमनो गन्धकेन तु⁵ मूर्च्छितः ।
ओषध्या घातितः⁶ सूतो यथा भूयो⁷ न जोषति ॥ २२० ॥
सहि क्रामति लोहेषु⁸ तेन⁹ कुर्याद्रसायनम् ।
तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि¹⁰ ॥ २२१ ॥
इति श्रीपार्वतीपरमेश्वरसंवादे¹¹
रसार्णवे रससंहितायां
बालजारणो नाम¹²
एकादशः पटलः ॥११॥
(1) K reads चरीटो. M reads चाटौ चपलमाधत्ते, which is senseless.
[For the explanation of आरीट vide र.म.सं. Chap. XI. v. 60.] (2) बद्धस्तु
खेचरीसिद्धिं, a variant in K. बद्धेन खेचरीसिद्धिः, a variant in M.
(3) मारितेन जरामरः, a reading in B and M. मारीतेनाजरामरं, a reading
in K. Both the readings seem to be incorrect. (4) B reads
विशेषाव्याधि. K reads विशेषाव्याधि. (5) The letter तु is not found
in K. (6) K has चौषध्या पातितः. M has चाषध्य (without any
suffix). (7) M reads पतेद्भूयो. (8) स सहि क्रमति लोहेषु, a
variant in B, wherein the first स is redundant. K reads देहेषु.
(9) K reads न instead of तेन. (10) K reads मर्हसि. (11) This
is wanting in B and M. (12) B, K and M read बालजारण नाम :
but this is not strictly correct.
25
द्वादशः पटलः ।
श्रीदेव्युवाच ।¹
ओषधी² कीदृशी नाथ रसमूर्च्छाकरो शुभा ।
केन वा भस्मसूतः³ स्यात् केन वा खोटबन्धनम्⁴ ॥ १ ॥
श्रीभैरव उवाच⁵ ।
शृणु भैरवि यत्नेन⁶ रहस्यं रसबन्धनम् ।
ब्रह्मविष्णुसुरेन्द्राद्यैर्न ज्ञातं बीरवन्दितै⁸ ॥ २ ॥
गङ्गायमुनयोर्मध्ये प्रयोगो नाम⁹ राक्षसः ।
तस्यासने¹⁰ वरारोहे क्षणाद्बध्येत¹¹ सूतकः ॥ ३ ॥
निशाचरस्य पत्राणि¹² गृह्णीयात् साधकोत्तमः¹³ ।
अधो निष्पाड़ितं¹⁴ देवि रसं¹⁵ भवति चोत्तमः ॥ ४ ॥
(1) This is wanting in M.
(2) K reads चौषधी. M reads
ओषधी, which is gram incorrect.
(3) K reads सूतभस्म.
(4) K reads बंधनं, which is incorrect.
द्वादशः पटलः । १८५
रसं संमर्द्य¹ तेनैव दिनानि त्रीणि वार्त्तिकः² ।
आरोटं³ बन्धयेत् क्षिप्रं गगनं तत्र जारयेत् ॥ ५ ॥
तेन⁴ पत्ररसेनैव साधयेद्गगनं पुनः ।
सप्तधा भावितं तेन त्र्यूषणेन⁵ सहैकतः ।
यन्त्रे विद्याधरे देवि गगनं तत्र जारयेत् ॥ ६ ॥
मासमात्रेण देवेशि⁶ जीर्य्यते तत् समं समे⁷ ।
समजीर्णे रसे देवि शतवेधो भवेद्रसः ॥ ७ ॥⁸
निशाचररसे देवि गन्धकं भावयेत्ततः ।
भावयेत् सप्तवारं तु दिपद्याश्च⁹ रसेन तु ॥ ८ ॥
तारस्य पत्रलेपेन¹⁰ अष्टार्धकाञ्चनोत्समम्¹¹ ।
गन्धके समजीर्णेऽस्मिन्¹² शतवेधो रसो भवेत्¹³ ॥ ६ ॥
(1) B reads समर्घ, which is gram. incorrect. (2) M reads
वाक्तिकः, which is evidently an error of the scribe. (3) K reads
आर्बट. (4) The following three hemistichs commencing from
तेन are wanting in K. (5) M reads त्र्यूषणेन. (6) मासमात्र
तु देवेशी, an incorrect variant in M. (7) जीयत तु समे सम, a variant
in B. जिर्णीतं तत् समे समः, a variant in K. जीर्य्यते तु सम समे, a variant
in M. (8) This hemistich is not found in M. (9) K
reads दिपद्याश्च. M reads द्विवद्याश्च. Both the readings are inc. [The
first seems to be दिपाद्याश्च, and the second द्विपद्याश्च. दिपा = द्विपदी = दिपा-
दिका = नागकेसरवृक्ष.] (10) तारमपत्रलेपेन, an incorrect variant in K.
M reads पत्रर्लेपन, which is not correct. (11) B reads काचनोत्तमः.
K reads कांचनोपम. M reads अथार्व काञ्चिक्रोत्तमम्. (12) M reads सम-
जिलोस्मिन्, which is inc. (13) M reads भवेद्रसः.
१८१ रसार्णवे
पुनस्तं गन्धकं दत्त्वा पत्रलेपे रविं हरेत्¹ ।
तं रविं तारमध्ये तु त्रिगुणं वाहयेत्ततः² ॥ १० ॥
हेमार्द्धे मिलितं³ हेम मातृकासमतां व्रजेत्⁴ ।
पुनस्तं गन्धकं साक्षाद्रावयित्वा द्रुतं⁵ कुरु ॥ ११ ॥
रसेन्द्रं⁶ मर्दयेत्तेन गतदेहं तु⁷ कारयेत् ।
लेपमात्रेण तेनैव कुष्ठामष्टादश⁸ प्रिये ।
चर्म भगन्दरं लूतां⁹ शिरोरोगंश्च¹⁰ नाशयेत् ॥ १२ ॥
निशाचररसे भाव्यं¹¹ सप्तवारं तु¹² तालकम् ।
तेनैव घातयेद्वङ्गं¹³ वङ्गं तारे¹⁴ तु निर्वहेत् ॥ १३ ॥
(1) B has हृनेत्, which is gram. incorrect. K has रवौ हृते. M has
पत्रलेपरवि. (2) वाह्यं ततः, an incorrect reading in B. (3) K
reads बौंखिन्न, which is inc. M reads र्हेमार्द्धे, which is also incorrect.
(4) K reads मात्रिकासमतां. M reads erroneously मावकासमतां ह्रजित्.
(5) B reads हृतं. K reads हुत. M reads धृतं. We have adopted the
reading in D (Deccan MS.) which begins from this charana, the
previous portion of the text being wanting. (6) D reads रसकं.
(7) B reads गतदेहं. M reads गतदेहान्. Both are inc. (8) कुष्टा-
ष्टादशान् प्रिये and कुष्ठमष्टादशन् प्रियं are incorrect readings in K and M
respectively. (9) चर्म भगंदरं सूता, an incorrect variant in K. चर्मो
भगभरखतो, a variant in M, which seems to be inc. (10) Both
D and M read शिरोरीगश्च. (11) B has निशाचरे रसे. D has भाव्ये.
(12) B reads सप्तवारः तु, which is gram. incorrect. (13) K reads
घातयेद्वंगं. M reads पातयेत् वगं. (14) B and M read वंगतारे. D
and K read तारये निर्वहेत् पर.
द्वादशः पटलः । १८७
तं तारं जारयेत्¹ सूतं तत्सूतं बन्धनं व्रजेत्² ।
लेपमात्रेण तेनैव चतुःषष्टितमो भवेत् ॥ १४ ॥³
चतुःषष्टितमे⁴ भागे शुल्कवेधं⁵ तु दापयेत् ।
शुल्वं तु दापयेत्तारि तत्तारं काञ्चनं भवेत् ।⁶
तत्तारं जायते श्रेष्ठं⁷ धर्मकामार्थमोक्षदम् ॥ १५ ॥
निशाचरस्य पुष्पाणि⁸ सूक्ष्मचूर्णानि कारयेत्⁹ ।
पलानि¹⁰ दश चूर्णस्य रसैर्धात्र्यास्तु भावयेत्¹¹ ॥ १६ ॥
घृतेन मधुनालोड्य¹² नवभाण्डे¹³ विनिक्षिपेत् ।
धान्यराशौ निधातव्यं त्रिसप्ताहं सुरेश्वरि ॥ १७ ॥
तेन भक्षितमात्रेण बलोपलितवर्जितः¹⁴ ॥ १८ ॥
(1) D and K read भावयेत्. (2) D and K read बधनं भवेत्. M
reads बन्धतां व्रजेत्. (3) This hemistich is wanting in B and M.
(4) This hemistich is wanting in D. K reads चतुषष्टितमं, which is
incorrect. (5) K reads शुल्ब वेधं. (6) This hemistich is
wanting in B and M. (7) M reads भार्यक्रीड, which seems to be
inc. (8) All other texts read पत्राणि , but M only reads पुष्पाणि.
We suppose the latter to be correct , since पत्राणि is already mentioned
in verse 4. (9) चूर्णितानि तु कारयेत्, a variant in D. चूर्णानि कारये-
द्यतः, a variant in K. (10) M reads फलानि, which is incorrect.
(11) त्रिरात्र्या यस्तु भावयेत्, a variant in D. षडैरात्र्यास्तु भावयेत्, a variant in
K. द्वे धात्र्या विभावयेत्, a variant in M. (12) B reads मधुनालोढा.
K reads मधुनालोढ. Both are inc. (13) B reads नवभाष्य. D reads
न च भाण्डे (14) K reads निर्जेव, which is not correct.
१८८ रसार्णवे
वल्कलं सूक्ष्मचूर्णं^१ तु मधुना सहितं^२ लिहेत् ।
अर्धमासप्रयोगेण^३ प्रत्यक्षोऽयं^४ भवेत् प्रिये ॥ १८ ॥
तस्य मूत्रपुरीषेण शुल्वं भवति काञ्चनम् ।
मासमात्रप्रयोगेण पन्नगः^५ काञ्चनं भवेत् ॥ २० ॥
ग्राह्यं^६ तत्फलतैलं वा^७ यन्त्रे पातालसंज्ञके^८ ।
तेन तैलेन देवेशि रसं संकोचयेद्बुधः ॥ २१ ॥
तत्क्षणाज्जायते देवि^९ पट्टबद्धो महारसः^१० ॥ २२ ॥
कटुकं कङ्कणं कार्यं^११ रसलिङ्गे वरानने^१२ ।
संकोच मारणं^१३ तेन कर्त्तव्यं परमाद्भुतम्^१४ ॥ २३ ॥
निशाचररसे खिन्नं सप्तवारं तु भास्करम् ।
(1) D reads सूक्ष्मचूर्णं. (2) D reads मसौत, [perhaps मसित =
सशर्कर.] M reads साधित. (3) अर्धमासे नयोग, an incorrect reading
in D. (4) B and K read प्रत्यचोऽय. D reads प्रत्ययोग्य, which is inc.
(5) M reads पन्नग. The MS. B is wanting about 250 slokas from
this (20th) śloka. (6) M reads गृह्यं, which is not accurate here.
(7) D, which begins from this portion, reads erroneously तत्फुलतैलम्ब.
K reads तत्फलतैलेन. M reads तत्फल तैलंग. (8) M reads मसंते
(9) तत्क्षणादेव जायन्ते, a variant in M. (10) D wants the term महा.
K reads खाटबद्धो महारसः. M reads पट्टबन्धो महारसः (11) D has
an absurd reading—करक ङ्गह्र सां कार्य. M reads कटक instead of कटुक.
(12) D reads रसलिङ्ग. K reads रसलिङ्ग परायणं. M reads रसलिङ्गेवगननेः
(13) K reads संकोचमारसं. M reads संकाचसारखं. (14) D reads
परमहुतम्. M reads erroneously परमव्यतम्.
द्वादशः पटलः । १८९
कालिकारहितं तेन जायते¹ कनकप्रभम् ॥ २४ ॥
तत्तारेण समं वाह्यं² तेन सिक्तं तु वापितम् ।
दशांशं वेधयेत्³ सूतं दश पीतं शतंच च⁴ ॥ २५ ॥
शतं वेधयते लक्षं सहस्रं कोटिवेधकम् ।
दशांशं कोटिवेधि⁵ स्यात् कोटिवेधि समेन च⁶ ॥ २६ ॥
पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम्⁷ ॥ २७ ॥
त्रैलोक्यजनना या स्यादोषधी⁸ अजनायिका⁹ ।
तस्याः सम्पर्कभावेण¹⁰ बद्धस्तिष्ठति पारदः ॥ २८ ॥
सप्ताहं मर्दितस्तस्या¹¹ महौषध्या रसेन सः¹² ।
शतांशेनैव वेधेन¹³ कुरुते दिव्यकाञ्चनम्¹⁴ ॥ २९ ॥
द्विसप्ताहं रसे तस्या मर्देनाद्वरवर्णिनि¹⁵ ।
(1) M has कालिका, which is a tautology. (2) D reads सवाह्य,
which is incorrect and incomplete. M reads वाह्यं. (3) M reads
तथा वेधयते. (4) D reads रसेन वै. K reads रसेन च. (5) All
the texts read कोटिवेधी, which is not gram. correct. (6) M reads
तु. (7) तु दुर्लभं is the reading in D. (8) D and K have
या सा औषधी. M has यस्यादोषधी, which is inc. (9) D reads यज-
नयिका. K reads अंजनायिका. M reads अञ्जनायिकम्. (10) तया
संसृष्टभावेण, a variant in M. (11) M has सप्ताहोमर्दित तस्या, wherein
मर्दित is inc. (12) महौषधिरसेन सः, a variant in K. M reads महौ-
षध्या रसे रसः. (13) D reads विर्धन. M reads शतांशेन तु वेधेन.
(14) D reads दिव्यकाञ्चनः, which is inc. (15) D reads वरवर्णिनी,
which is gram. inc. K reads द्विरवाखिनि, which is unintelligible.
२०० रसार्णवे
लक्षवेधो रसः साक्षादष्टौ¹ लोहानि काञ्चनम्² ॥ ३० ॥
त्रिसप्ताहेन देवेशि दशलक्षाणि विध्यति³ ।
चतुर्थे चैव⁴ सप्ताहे कोटिवेधी महारसः ॥ ३१ ॥
स्वेदतापननिर्घृष्टो⁵ महौषध्या रसेन तु ।
ददाति खेचरीं सिद्धिमनिवारितगोचरः⁶ ॥ ३२ ॥
कामयेत् कामिनीनां तु सहस्रं दिवसान्तरे ।
नष्टच्छायो द्रतद्रूप्यं⁷ त्रैलोक्यं च भ्रमेद्धसैः⁸ ॥ ३३ ॥
महौषध्या रसेनैव⁹ मृतसञ्जीवनं¹⁰ भवेत् ।
घनेन घातयेत्¹¹ सूतं पञ्चावस्थं¹² कुरु प्रिये ॥ ३४ ॥
मृतस्य दापयेन्नस्यं¹³ हस्तपादौ तु¹⁴ मर्दयेत् ।
तस्य तु प्रविशेज्जीवो¹⁵ मृतस्यापि वरानने ॥ ३५ ॥
(1) D reads साक्षादष्टौ. (2) M reads विध्यते. (3) D reads
वैधवेत्. दश लक्षा सं विध्यति, an incorrect reading in K. (4) D reads
नैव, which is inc. (5) खेदतापननिर्घृष्टौ, a variant in D. खेदनापत-
निर्घृष्टौ, a variant in K. खेदतापरिकचेव, a variant in M. None is correct.
(6) मनावरितगोचरः, a variant in D. मर्निवाणितगोचराः, a variant in K.
Both are gram. inc. (7) K has नष्टच्छाया तद्रसरूप. M has नष्ट-
बाधाद्रतद्रूप. (8) K reads भ्रमेद्धसः. त्रैलोक्यं भ्रमेद्वसैः, an incomplete
variant in M. (9) K reads रसे चैव. (10) D has मृतसञ्जोविन.
K has मृते संजीवनं. (11) K reads पातयेत्. (12) D reads
पञ्चावस्थां. M reads पञ्चावसं, which seems to be inc. (13) D reads
दापयेन्नख. K reads दापयेत्तस्य. Both are incorrect. (14) M reads
हस्तपादिषु. (15) K reads गतेन in place of तस्य तु. M reads प्रविशन्
जीवो.
द्वादशः पटलः । २०१
पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम्¹ ।
नरसाररसेनेव² क्षणाद्³बध्येत सूतकः⁴ ॥ २६ ॥
नरसाररसं दत्त्वा⁵ द्विपदीरजसा सह⁶ ।
दिनान्ते बन्धमायाति⁷ सर्व्वलोहानि रञ्जयेत्⁸ ॥ २७ ॥
नरसाररसेनेव⁹ जीर्णं षड्गुणपन्नगे¹⁰ ।
तारे ताम्रेऽपि वा देवि¹¹ भावयेत्तं मनःशिलाम्¹² ॥२८॥
निर्गन्धा जायते सा तु¹³ घातयेत्तद्रसायनम्¹⁴ ।
द्विपदीरजसा सार्धं¹⁵ निःसत्त्वः पन्नगो भवेत्¹⁶ ॥ ३८ ॥
(1) M reads वरानने. (2) D reads नरकसारसत्येनैनि. K reads
नरकारस्य पत्रेण M reads नरकसारसदर्शनेन. All the readings seem to
be incorrect. [नरसार has different designations in different texts ;—as
नरकसा and नरकसार.] (3) D reads क्षणाद्. (4) M reads सूतकम्.
(5) नरकसारसे दत्वा, a variant in D. नरकसारसं दत्वा, a variant in K.
नरकसारसं दत्वा, a variant in M. (6) D reads सहि, which seems
to be the error of the scribe. (7) M reads बहुमायाति, which is
incorrect. (8) D reads रञ्जति. K reads रञ्जति. (9) D and
K read नरकसारसेनेव. (10) जीर्णैः षड्गुणपन्नगः, a variant in D. This
charaṇa and the next are wanting in M. (11) तारताम्रेऽपि वा देवौ,
an incorrect variant in D. (12) K reads भाव्येच्चा, which seems
to be incorrect. M reads भावयेत्तु मनःशिलाः. (13) K has यावशे,
which is incorrect. M reads धातुः. (14) पातयेत्तेन पन्नगं, a variant
in K. घातयत्रेण पन्नगम, a variant in M. (15) D has द्विपदीशतेया
सार्द्ध. M has साधु. (16) D reads निःसत्त्वपन्नगो भवेत्. K has an
incomplete reading— निःसत्वपन्नगं. M has निरुद्धं पन्नगो भवेत्, which is not
correct.
26
Rasārṇava. Vol I. Fasc. II
२०२ रसार्णवे
नरसाररसेनेव¹ जीर्णे षड्गुणपन्नगे² ।
तारे ताम्रेऽपि वा देवि³ कोटिवेधी भवेद्रसः ॥ ४० ॥
नरसाररसस्तन्वे भावनाः⁴ सप्तधा पृथक् ।
रसेन्द्रं दापयेद्ग्रासं⁵ यन्त्रे विद्याधराह्वये ॥ ४१ ॥
जीर्य्यते⁶ गगनं देवि निर्मुखं च⁷ वरानने ।
नरसाररसेनेव⁸ कीटमारीरसेन च⁹ ।
द्रावयेद्गगनं देवि¹⁰ तीक्ष्णं लोहञ्च पन्नगम् ॥ ४२ ॥
नरसाररसेनेव हनूमत्या रसेन च ।
जायते काञ्चनं¹¹ दिव्यं निषेकाद्¹²भास्करप्रिये ॥ ४३ ॥
नरसाररसे दत्त्वा¹³ मञ्जिष्ठारक्तचन्दनम्¹⁴ ।
(1) D and K read नरकसारसेनेव. M reads नरकसाररसेनेव. (2)
जीर्णे षड्गुणपन्नगः, a variant in D. (3) This hemistich and
the next are wanting in M. D reads erroneously देवी. (4)
D has नरकसारसारसात्तन्वे भावितः, which mars the metre. K has
नरकसारसत्तन्वे. (5) रसेन्द्रे पाययेद्यासं, a variant in D. रसेन्द्रो दापयेत्
यासं, a variant in K. रसेन्द्रे दापयेत् शसं, a variant in M. (6) D
reads जीयते, which has no sense. (7) D reads निर्मुखं च. (8) D
and K read नरकस,रसेनेव. M reads नरकसाररसेनेव. (9) सिन्धु-
तृतपाररसेन च, a reading in D. सिंधुतुत्थारसेन च, a reading in K. (10)
This charaṇa and the next three are wanting in D and K. (11) D
reads जायते काञ्चनं. M reads कनकं. (12) M reads निषिक्ताद्.
(13) नरकसाररसे दत्त्वा, a variant in D and M. नरकसारसं दत्वा, a variant
in K. (14) The MS. M has the following hemistich after
चन्दनं— तारे ताम्रेऽपि वा देवि कोटिवेधी भवेद्रसः, which we have not adop-
ted as it seems to us redundant.
द्वादशः पटलः । २०१
खरसे मर्दयेत् पश्चात्¹ पन्नगं देवि सेचयेत् ॥ ४४ ॥
तत्क्षणात् काञ्चनं दिव्यं सप्तवारं निषेचितम्² ।
रविदृष्टं तु³ तं देवि पन्नगं त्रिगुणं प्रिये ॥ ४५ ॥
तच्छुल्कं⁴ हेमसंकाग्रं तारपञ्चांश⁵योजितम् ।
षष्ठमांशयुतं हेम⁶ हेमकर्मणि चौषधम्⁷ ॥ ४६ ॥
नरसाररसे⁸ भाव्यं सप्तवारं तु हिङ्गुलम् ।
तेनैव घातयेत्तीक्ष्णं⁹ भस्मीभूतलमादिशेत्¹⁰ ॥ ४७ ॥
तद्भस्म ताम्बपिष्टं तु¹¹ त्रिगुणं तेन निर्वहेत् ॥ ४८ ॥
तच्छुल्कं हेमसंकाशं तारमष्टांश¹²योजितम् ।
(1) D reads खरसो. M reads मर्दयन्त्याश्च, which is in-
correct. (2) K and M read निषेवितं. (3) K
reads रविदृष्टे तु, which is incorrect. M reads रविदृष्टे तु, which
is grammatically incorrect. (4) K reads तच्छुल्क, which
is incorrect. M reads तत् शुल्क, (without any suffix), which is gram.
incorrect. (5) D and K read तारं पञ्चांश, which seems to be
inaccurate. (6) This word is wanting in K. (7) हेमकर्म-
णिरोषधम्, a variant in M. (8) D reads नरकसाररसे. K reads
नरक्तसारसे. M:reads नरकसारसैः. (9) तेनै तीक्ष्ण घातये, an incorrect
variant in D. K has तापयेत्तीक्ष्णं. M reads घातयेत् सूक्ष्मं. (10) K
reads माविशेत्. M reads भस्मभूतलमांशजेत्, which is incorrect. (11)
D reads ताम्बविष्टं तु. K reads ताम्बपिष्टे तु. M reads ताम्बपत्रे तु. (12)
M reads तारे चाष्टांश.
ं सुदुर्लभं." - wait! Look at that word:
It has two characters:
First: 'व' or 'ब'?
Second: 'धं'?
Wait, look at the character:
It's "वधं सुदुर्लभं" or "बद्धं सुदुर्लभं" or "बन्धं सुदुर्लभं"?
Wait, look at line 19: "बद्धो" (baddho).
In line 24: it's NOT 'बद्धं'. It has:
A letter with a loop, then 'धं' with anusvara: "बन्धं" or "वधं"?
Wait, look at footnote 15:
"D reads [ ] सुदुर्लभं."
Wait, could it be "च सुदुर्लभं"?
Look at the first letter: it has a horizontal bar on top, a loop on left, and a vertical stroke: that is 'ब' or 'व'!
Wait, is there an anusvara on it? Yes, there is a dot on top!
And the next letter is 'धं': with an anusvara!
Wait, "बन्धं सुदुर्लभं."!
Why would D read "बन्धं सुदुर्लभं"? Because the main text has "रसबन्धं सुदुर्लभम्"! D omits "रस" and reads "बन्धं सुदुर्लभं" (to make meter? But that would be 7 syllables: पुनरन्यं प्रवक्ष्यामि बन्धं सुदुर्लभं).
pair of diamond and gold)!
"तत्क्षणान्मिलति द्वन्द्वं वज्जरत्नं च काञ्चनम् ॥"
"Instantly the pair, diamond and gold, melt/unite together!"
YES! "द्वन्द्वं"!
"द्वन्द्वं वज्ररत्नं च काञ्चनम्" - the pair: vajraratna (diamond) and kāñcana (gold)!
Look at the characters:
द् + व = द्व
न् + द्व = न्द्व, with anusvara = द्वन्द्वं!
In the print, the ligature for 'द्व' is 'द' with 'व' underneath: 'द्व'.
So it is: "द्वन्द्वं¹⁷"!
Wait, now look at "वज्जरत्नं" vs "वज्ररत्नं":
In line 5: "वज्ररत्नं⁶" or "वज्जरत्नं⁶"?
Wait! Let's look at footnote 6:
"(6) K reads वज्रं रत्नं."
Wait! If K reads "वज्रं रत्नं", what does the main text read?
In main text:
Look at the letter: 'व', then 'ज्र' or 'ज्ज'?
Look at 'ज' in line 5:
It has 'व', then 'ज' with a 'ज' below? Or 'ज्र'?
Wait, let's look at line 7:
"कंकालखेचरीतैले
: it has पूर्व्वौषध्या`.
- Line 11:
रसग्रासं¹⁴ ततो दत्त्वा मर्दनात्¹⁵ गोलकं¹⁶ कुरु ॥ ६१ ॥
Wait! Is itरसम्रासंorरसग्रासं?
Look atरसग्रासं: the letter isगwith्andर:ग्र. The top-left has a loop like inग(as inगगनंin line 10). Wait, inगगनं,गhas a loop at the bottom of the left leg. Inग्र, the left leg has the loop, and the diagonal stroke goes down-left. Wait, doesमhave a loop at bottom left? Yes, butमhas a horizontal bar connecting to the right vertical stem! Does this letter have a horizontal bar? No! It does not connect in the middle! It only connects at the top bar. Therefore, it is definitelyगwithर=ग्र!
So it isरसग्रासं!
Wait, why does footnote 14 say:
M reads erroneously समेग्रास(orसमंग्रास)? Because M hadसमंग्रासinstead ofरसग्रासं!
And the main text hasरसग्रासं.
Wait, what about line 11: `मर्दनात्¹⁵
द्वादशः पटलः । २०७
बद्धा¹ पोटलिकां² तेन गगनं तेन जारयेत्³ ।
समे⁴ तु गगने जीर्णे बद्धस्तिष्ठति सूतकः ॥ ६२ ॥
भस्त्रा⁵फूत्कारयुक्तेन⁶ ध्मायमानेन नश्यति⁷ ।
काकविष्ठासमं रूपं समजीर्णस्य जायते⁸ ॥ ६३ ॥
द्विगुणे गगने जीर्णे षष्ठीं लोहानि संहरेत् ॥ ६४ ॥
पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम् ॥ ६५ ॥⁹
शिवदेहात् समुत्पन्ना ओषधी तुरसिंहनी¹⁰ ।
जारयेद्गन्धकं सा तु¹¹ जारयेत् सापि तालकम्¹² ॥ ६६ ॥
काञ्चनं जारयेत् सापि¹³ रसेन्द्रं सा च बद्धयेत्¹⁴ ।
प्रवालं जारयेत् सा तु¹⁵ गगनं द्रावयेत् तथा¹⁶ ।
(1) This is wanting in D. (2) M reads पदलिकां. (3)
भागं तं तेन जारयेत्, a variant in D. M reads चारयन् (4) D
reads सम. (5) D has भख, which is not accurate. (6)
M has भात्कारणात् यन्त्रेण, which is absurd. (7) D reads मध्यति.
K reads साध्यति. (8) D reads जार्यन्. M reads सम जीर्णस्य.
(9) This hemistich and the next are not found in D. (10)
K reads चौषधी. M reads तङ्गरौडो. (11) We do not find गन्धकं
सा तु in K. (12) M has मालयेत् सा पटालकम् The portion be-
ginning from this charana and ending in वज्रञ्च घातयेत् सा तु is not
found in K. (13) D has जार्य्यस्यामि, which is an error of the
scribe. (14) रसेन्द्रञ्चापि बन्धनात्, a variant in D. (15)
D reads भावयेत्त्यासु, which seems to be भावयन्त्याशु. (16) M
reads तत
२०८ रसार्णवे
वज्रञ्च घातयेत् सा तु$^1$ मर्कसत्त्वं च$^2$ पातयेत् ॥ ६७ ॥
( जारयेत् सर्व्वलोहानि सत्त्वान्यपि च पाचयेत् । )$^3$
हरौंदरीरसे न्यस्य$^4$ गोमृङ्गे तु वरानने ।
धान्यराशौ निधातव्यं मृतं तिष्ठति सूतकम्$^5$ ॥ ६८ ॥
दिव्यौषध्या रसेनेव$^6$ रसेन्द्रः सुरवन्दिते$^7$ ।
समे तु कनके जीर्णे दशकोटींस्तु$^8$ वेधयेत् ॥ ६९ ॥
पञ्चमे लक्षकोटिस्तु$^9$ षड्गुणे सर्व्ववेधकः$^{10}$ ।
सप्तमे धूमवेधी स्यात् अष्टमे त्ववलोकतः$^{11}$ ।
नवमे शब्दवेधो स्या$^{12}$दत ऊर्द्धं$^{13}$ न विद्यते ॥ ७० ॥
(1) वज्रं तु घातयेत् सा तु, a variant in D, wherein सा is incor-
rect. (2) D reads तु. (3) We have got this
hemistich only in K, which we have printed within brackets. (4)
हरदीरारसे न्यस्य, a variant in K. हरिदीरसमन्यस्य, a variant in M. (5)
मृतस्तिष्ठति सूतकः, a variant in D. मृतस्तिष्ठति सृमकः, a variant in K. द्रुतं
तिष्ठति सूतकम्, a variant in M. We have adopted the above after
collating all the texts. (6) दिव्यौषधिरसेनेव, a variant in M.
(7) D reads रसेन्द्रो सुरवन्दिने, which is grammatically incorrect.
K reads रसेन्द्री, which is also incorrect. M reads रसेन्द्र. (8) K
has दशकोटि तु. M has दशकोटिंस्तु. (9) K has लक्षकोटिं तु. M has
लक्षकोटी तु. (10) D reads स्यात् स वेधयेत्. (11) D reads
स्रवलोकतः. M reads ह्येवलोकतः. (12) D has नवमे दशमे वेधो स्यात्,
which mars the metre and the sense. (13) K reads दतो
दुनि, which is not correct.
द्वादशः पटलः । २०९
भ्रमन्ति पशवो मूढ़ाः¹ कुलोषधिविवर्जिताः² ।
द्वयौषधि³रसानाञ्च नैव सिद्धिः प्रजायते ॥ ७१ ॥
तस्मात् सर्व्वप्रयत्नेन ज्ञातव्या तु कुलोषधी⁴ ॥ ७२ ॥
दिव्यौषधी चतुःषष्टिः⁵ कुलमध्ये व्यवस्थिता⁶ ।
नैव जानन्ति मूढ़ास्ते⁷ देवमोहेन⁸ मोहिताः ॥ ७३ ॥
यदिव्यासु द्वयौषध्यो⁹ जायन्ते¹⁰ गिरिगह्वरे ॥ ७४ ॥
द्वयौषध्या रसे सूतं¹¹ नैव बद्धं कदाचन¹² ।
(1) D reads भ्रमन्ति पश्य मे मूढ़ा. K reads भ्रभंतो पशवो मूढ़ाः, where-
in the first term is inc. (2) कुलोषधीविवर्जिताः, a variant in D.
(3) D has वलौषधी. K has द्वयौषधी. M has द्रोण्यौषधि. (4) D
reads erroneously ज्ञातव्यो तु कुलोषधीः. K reads also incorrectly ज्ञात-
व्यास्तु कुलोषधीः. M reads ज्ञातव्या तु कुलीयधीः, which is incorrect.
(5) दिव्यौषधीश्चतुषष्टी, a variant in D and K, which is incorrect.
M reads दिव्यौषधि चतुष्षष्टि, which is also incorrect. (6) K
reads व्यवस्थिताः, which is not correct M reads कूलमध्ये which is incor-
rect. (7) नैव जान्ति मूढ़ा सा, a variant in D. K reads नैव
जानाति मूढ़ास्ते, which is grammatically incorrect. M reads नैव जानन्ति
मूढ़ास्तान्. (8) D and K read erroneously शिवमयेव, which
ought to be शिवमाययेव. (9) D has यादिव्यास्तु वनीवध्या, which is
grammatically incorrect. M has also an incorrect variant—यादि-
व्यास्रु मवौषद्यो. (10) D reads जायते, which is incorrect. (11)
D has वनीवधीरसे सूत. द्वह्योषध्या विक्षीणास्ते, a variant in M. Both
are incorrect. (12) K reads बंधं, which is incorrect. मञ्-
जारयन्ति ते. a variant in M.
27