रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
९२ रसार्णवे
देहसिद्धिकरः कृष्णः¹ पीते पीतः सिते सितः² ।
सर्व्वार्थसिद्धिदो रक्तः³ तथा मरकतप्रभः⁴ ।
शेषे द्वे निष्फले वर्ज्ये⁵ वैक्रान्तमिति सप्तधा ॥ १२८ ॥
यत्र क्षेत्ने स्थितं देवि⁶ वैक्रान्तं तत्र भैरवम् ।
विनायकं च⁷ संपूज्य गृह्णीयात् साधकोत्तमः ॥ १२९ ॥
वैक्रान्तं चूर्णितं सूक्ष्मं सुरासुरनमस्कृतम्⁸ ।
व्याघ्रीकन्दस्य मध्यस्थं⁹ धमयित्वा पुटे स्थितम्¹⁰ ॥ १३० ॥
अश्वमूत्रेण¹¹ मृदग्नौ स्वेदयेत् सप्तवासरात् ।
छायाशुष्कं ततः कुर्य्या¹²दिदं वैक्रान्तमुत्तमम् ॥ १३१ ॥
अथवा लवणक्षारमूत्राम्ललशुणतैलकैः¹³ ।
कुलत्थकोद्रवक्वाथे¹⁴ स्वेदयेत् सप्त वासरान् ॥ १३२ ॥
(1) B reads देहसिद्धिकर कृष्ण. M reads देहमसिकरं कृष्ण, which is inc.
(2) B and M read पीत पात सिते सित. K reads पीतः पीते सितः सिते. We
have adopted the above reading after collating all the MSS.
(3) B and K read सर्वार्थसिद्धिदं रक्त. (4) B, K and M read तथा
मरकतप्रभम्. (5) K reads वर्जे, which is inc. [From this charaṇa
the term वैक्रान्त is used in neuter gender.] (6) B reads स्थिते देवि.
M reads यत्न चर्चामद देवि. Both are gram. inc. (7) K reads तु.
(8) सुरासुरगमस्कृत, a variant in B. (9) M reads व्याघ्रकन्दकमध्यस्थं.
(10) K reads धामयित्वा पुटस्थितं. M reads पुटं स्थितम्. (11) B has
अश्वसूत्रेण. M has अग्रिमूत्रेण. Both are inc. (12) This hemistich
and the next two are wanting in K. M has a defective charaṇa—तया
कुर्या. (13) B reads तृषतैलकैः. (14) कुलत्थं कोद्रवक्वाथे, a variant
in B. कुलत्थकेद्रवक्वाथे, a variant in M, which is not correct.
षष्ठः पटलः । ८३
लम्ब्याचूर्णेस्तु वैक्रान्तं समांशेन तु चूर्णयेत्¹ ।
अजामूत्रेण² संभाव्य छायाशुष्कं तु कारयेत् ।
अश्वनाले धमित्वा तु³ मूषामत्त्वं तु जायते⁴ ॥ १३३ ॥
मोक्षमोरटपालाशक्षारगोमूत्रभावितम्⁵ ।
वज्रकन्दशिफाकल्क⁶लाक्षाटङ्कणसंयुतम् ॥ १३४ ॥
वैक्रान्तसम्भवं चूर्णं मेषशृङ्गो⁷द्रवान्वितम् ।
पिण्डितं मूकभूषायां⁸ ध्मातं सत्त्वं विमुञ्चति ॥ १३५ ॥
वैक्रान्तं वज्रकन्दं च⁹ पेषयेद्वज्रवारिणा¹⁰ ।
माहिषे नवनीते च¹¹ सञ्चौद्रं पिण्डितं ततः ।
शोधयित्वा धमेत् सत्त्वं¹²-मिन्द्रगोपसमं पतेत्¹³ ॥ १३६ ॥
केतकोस्वरसः काञ्चौ¹⁴ मणिसम्यं सखेचरम्¹⁵ ।
(1) K reads कारयेत्. M reads पूजयेत्. (2) M reads अजमूर्त्रेण.
(3) M reads erroneously अश्वनालयांमत्वा तु. (4) K has मूखासत्त्वं तु
जायते. (5) M reads काँमूत्रभावितः, which is inc. (6) K has
कल्क. M has शिलाकल्क. (7) B reads मेषशृङ्गो, which is inc. M
reads मेषश्रृङ्गि. (8) K reads मूकमूखायां. M reads मूकमूषाया, wherein
the omission of अनुस्वार is the error of the scribe. (9) वक्रान्तं वज्रकन्दे
च, a variant in K, which has no sense. (10) M reads वज्रतौरिणा,
which is inc. (11) B reads पेषित नवनीतेन. M reads माहिषं नवनीतञ्च.
(12) शोषयित्वा धमेत् सत्वं, a variant in M. (13) इन्द्रगोपासम भवेत्, a
variant in K. M reads इन्द्रकोपसमं पतेत्, which is inc. (14) B
reads केतकिस्वरसं कांची. K and M read केतकीस्वरसं काँचि. [But the term
स्वरस is in masculine gender.] (15) K has सखेचरौ, which is not
correct. M has माषिसम्य.
६४ रसार्णवे
स्वेदनाज्जायते¹ देवि वैक्रान्तं रससन्निभम् ॥ १३७ ॥
॥ इति वैक्रान्तविधिः ॥
सुवर्णं रजतं ताम्रं कान्तलोहस्य वा रजः² ।
अनेन स्वेदविधिना द्रवन्ति सलिलं यथा ॥ १३८ ॥
इत्युक्तमभ्रकादीनां चतुर्णां लक्षणादिकम् ।
तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥ १३९ ॥
इति श्रीपार्वतीपरमेश्वरसंवादे³
रसार्णवे रससंहितायां
अभ्रकादिलक्षणसंस्कारनिर्णयो नाम
षष्ठः पटलः ॥ ६ ॥
(1) K reads erroneously खेदणा जायते। (2) B reads कान्तलोहं
च वाजरः. K reads कांतलोह च वाजरं. M reads कान्तलोहश्च वा रजः. All
the texts seem to be incorrect. We have adopted a reading after
collating all of them. (3) This portion is wanting in B and M.
सप्तमः पटलः ।
श्रीदेव्युवाच ।¹
सह लक्षण²संस्कारै-राज्ञापय महारसान् ।
अन्यच्च तादृशं देव रसविद्योपकारकम् ॥ १ ॥
श्रीभैरव उवाच ।³
माक्षिको विमलः शैलः⁴ चपलो रसकस्तथा ।
सस्यको दरदश्चैव स्रोतोऽञ्जनमथाष्टकम्⁵ ।
अष्टौ महारसाश्चैव⁶-मेतान्⁷ प्रथमतः शृणु ॥ २ ॥
कृष्णास्तु भारतं श्रुत्वा⁸ योगनिद्रामुपागतः⁹ ।
तस्य पादतले विद्धं¹⁰ व्याधेन मृगशङ्कया ॥ ३ ॥
ये तत्र¹¹ पतिता भूमौ क्षताद्रुधिरबिन्दवः ।
(1) M reads देवी and nothing else. (2) B reads लक्षणे, which
is not gram. correct. (3) B has भैरवीवाच । K has श्रीभैरव्युवाच ।
Both the readings are incorrect. M has श्रीभैरवः and nothing else.
(4) B reads मलसः instead of विमलः, which seems to be the blunder
of the scribe. K reads माक्षिका विमला शिला. M reads शैलो, which is
gram. inc. (5) K has सोताञ्जनमकथाष्टकम्, which is inc. [Vide
रसरत्नसमुच्चय Chap. II., and रससार, 6th Paṭala, vs. 2-3.] (6) B
reads महारसास्येव. M reads महारसाख्येव. Both the readings are inc.
(7) K reads मेतत्. (8) K has कृत्वा. (9) B reads मुपागताः,
which is gram. inc. (10) K has विन्नं, which has no sense here.
(11) K reads एकत्र.
९६ रसार्णवे
ते निम्बफलसंस्थाना जाता वै माक्षिकोपलाः¹ ॥ ४ ॥
माक्षिको द्विविधस्तत्र² पीतशुक्लविभागतः³ ।
विमलस्त्रिविधो⁴ देवि शुक्लः पीतश्च लोहितः⁵ ॥ ५ ॥
तैलारनालतक्रेषु गोमूत्रे कदलीरसे⁶ ।
कुलत्थकोद्रवक्वाथैः⁷ माक्षिकं विमलं तथा⁸ ।
मुहुः शूरणकन्दस्थं खेदयेदहरवार्णि⁹ ॥ ६ ॥
क्षाराम्ललवणैरण्ड-तैलसर्पिः¹⁰समन्वितम् ।
पुटत्रयं प्रदातव्यं तद्द्वयं शोधितं भवेत् ॥ ७ ॥
(1) This hemistich is wanting in B. K reads माक्षिकोपला (without
विसर्ग), which is gram. inc. M reads जाता माक्षिककोमलाः. (2) This
hemistich is not found in B. K has an incomplete charaṇa —माक्षिको
द्विवस्तत्र. (3) पीतः शुक्लो विभागः, a variant in K. [रसरत्नसमुच्चय reads
माक्षिको द्विविधो हेमाक्षिकस्तारमाक्षिकः. Chap. II. v. 80.] The following
śloka is found in MS. K only ;—चतुर्धा करकाकारः शुक्तिकापुटसन्निभः ।
तथांगुलीयकाकारी भृशकर्करिकासमः ॥ इति माक्षिक लक्षणं ॥ We have placed
it in the footnote, because we do not find these varieties of माक्षिक in
any other MS., neither in रस.स., nor in रससार. (4) B reads
विमलास्त्रिविधा. K reads विमलस्त्रिविधो, which is inc. (5) B has
शुक्लः पीतश्च लोहिताः ; here the last term is inc. K has शुक्लपीतश्च. [रस.स.
mentions the different names of विमल according to its colour, as
पीतः—हेमविमलः, शुक्लः—तारविमलः, लोहितः—कांस्यविमलः. Chap. II. v. 96.]
(6) गोमूत्रकदलीरसैः, a variant in K. (7) M reads कुलत्थकोद्रवक्वाथे,
which is inc. (8) K reads माक्षिकं विमलस्तथा, which is not gram.
correct, as these are objects to स्वेदयेत्. (9) K reads this hemistich
very imperfectly—मुहुः शूरणक दर्दहरवार्णि. (10) B and M read तैलसर्पि.
सप्तमः पटलः । २७
माक्षिकं चूर्णितं स्तन्य¹-सुह्यर्कक्षीरभावितम् ।
सत्त्वं मुञ्चति सुध्यातं टङ्कककुष्ठमोदितम्² ॥ ८ ॥
कदलीकन्दतुलसी-नारङ्गाम्लपरिस्रुतम्³ ।
सप्तसप्तपुटोपेतं⁴ पञ्चद्रावकसंयुतम्⁵ ।
स्त्रीस्तन्यमोदितं आतं⁶ सत्त्वं मुञ्चति माक्षिकम् ॥ ९ ॥
क्षौद्रगन्धर्व्वतैलाभ्यां⁷ गोमूत्रेण घृतेन च ।
कदलीकन्दसारेण भावितं माक्षिकं मुहुः ।
मूषायां⁸ मुञ्चति आतं सत्त्वं शुल्वनिभं मृदु⁹ ॥ १० ॥
देवदालोरसं क्षिप्त्वा¹⁰ पादांशटङ्कणैर्युतम्¹¹ ।
प्रकटां मूषिकां¹² कृत्वा धमेत् सत्त्वमपेक्षितम्¹³ ॥ ११ ॥
किमत्र चित्रं कदलीरसेन
सुपाचितं¹⁴ सूरणकन्दसम्पुटे ।
(1)
८८ रसार्णव
वातारितैलेन पुटेन तार्य
पुटेन दग्धं वरशुद्धिमिति¹ ॥ १२ ॥
गोमूत्रैश्च सुहिग्क्षीरैः² भाव्यमेरण्डतैलकैः³ ।
माक्षिकं दिनमेकन्तु मर्दितं वटकीकृतम् ।
अभ्रवद्धमयेत् सत्त्वं⁴ सस्यकस्याप्ययं विधिः⁵ ॥ १३ ॥
ताप्यमावर्त्तकं धातु⁶-माक्षिकं⁷ मधुधातुकम् ।
माक्षिकं तिक्तमधुरं मेहार्शः⁸क्षयकुष्ठनुत् ।
कफपित्तहरं बल्यं⁹ योगवाहि रसायनम् ॥ १४ ॥
ज्वरसन्निपातदारिद्र्याण्यपि¹⁰ यन्नामकथनमात्रेण¹¹ ।
नश्यन्ति योजनशते¹² कस्तस्याज्ञोऽवेधकरः¹³ ॥ १५ ॥
॥ इति माक्षिकशुद्धिः ॥¹⁴
(1) M reads परशुद्धिमिति. (2) गोमूत्रेण सुहिक्षीरैः, a variant in K.
(3) B reads तैलतः. (4) K reads सत्वे. M reads अभ्रकन्तु पतेत् सत्वं.
(5) B has an incomplete charana—सस्याप्ययं विधिः. (6) ताप्य आव-
र्त्तकमाक्षं, an incorrect variant in M. (7) M reads मार्थिकं, which
is an error of the scribe. (8) B has मेहात्ताँ, which is inc. M
has महार्षः. (9) M reads बल्य (without अनुस्वार). (10) K has
ज्वरसन्निपातदार्याण्यपि. M has ज्वरसन्नितादारिद्याण्यपि. Both seem to be inc.
(11) K has तु after मात्रेण. But we have not adopted it, because the
final ण is optionally a गुरु-letter. (12) K reads योजनशतांतरे.
(13) B has कस्तोर्ध्याभाडवेधवरकः, which is entirely absurd. M has कस्त
स्याचाज्ञोऽवेधकरः, which has no clear sense. (14) B reads इति
माक्षिकक्रियाविधिः । This is wanting in M.
सप्तमः पटलः । ९९
विमलं¹ शिगुतोयेन काञ्चीकासीसटङ्कणैः² ।
वज्रकन्दसमायुक्तं भावितं कदलीरसैः³ ॥ १६ ॥
मोचक⁴क्षारसंयुक्तं धमितं मूकमूषया⁵ ।
सत्त्वं चन्द्रार्कसंकाशं⁶ प्रयच्छति न संशयः ॥ १७ ॥
॥ इति विमलशुद्धिः⁷ ॥
पतितोऽपतितश्चेति⁸ द्विविधः शैल शेखरि⁹ ।
ग्रन्थान्तरेऽपि कीर्त्योऽसौ¹⁰ कीर्त्तितो बहुभिः सुरैः ॥ १८ ॥
निदाघे घर्मसंतप्ता धातुसारं धराधराः ।
निर्यासं च विमुञ्चन्ति तच्छिलाजतु¹¹ कीर्त्तितम् ॥ १९ ॥
शिलावद्दृधातु कं¹² ज्ञातं शैलजं गिरिसानुजम्¹³ ।
(1) B and K read विमला, but use its adjectives in the neuter
gender; this is ungrammatical. (2) कांचिकाशौसटकणैः, a variant
in K. काचिकासिसटङ्कणैः, a variant in M. (3) M reads कद्लौरसै.
(4) K reads मोचिक. M reads मोचष. (5) M has सञ्चितं instead
of समितं. K has बूकभूखया, which is incorrect. (6) M reads संयुक्तं.
[The 16th and the 17th ślokas nearly agree with the texts in रस. स.
Chap. II. vs. 103–104.] (7) Both B and K read विमलाशुद्धिः।
This is wanting in M. (8) पातितः पतितश्चैव, a variant in K.
(9) B reads शैलमौखरि. M reads द्विविधा शैलमौखरि, which is gram. inc.
(10) The portion commencing from this charaṇa and ending in
शोधयेत्ततु यत्नतः (ślokas 18—21) is not found in B and M. (11) K
reads मिलाजितु, which seems to be inc. [Cf. रस. स. Chap. II. vs. 110—
111.] (12) K reads incompletely धातु. (13) K has गिरि-
सानुजम.
ņ or n?
In standard Indological transliteration of the era (Bibliotheca Indica), it uses ṇ (with underdot) or n or ṇ?
Wait, look at the letter: charanas - wait, footnote (2) has charanas? Let's check:
"charaņas" vs "charanas" vs "charaṇas":
Look at line 11: charaņas - there is a cedilla or underdot? It looks like charaṇas (underdot on n) or plain charanas?
Wait, look at line 17: charana: plain n or ṇ? In line 17: (5) This charaņa is wanting in K. M reads कृत्वा instead of बद्धा.
Wait! In कृत्वा:
Wait, look at footnote 5:
M reads कृत्वा instead of बद्धा.
Wait, does it say कृत्वा or हत्वा?
Let's look at line 17:
M reads कृत्वा instead of बद्धा.
Wait, look at कृत्वा: it's कृत्वा or हत्वा?
Wait, क with ृ? No, it looks like ह with ल? हत्वा?
Wait! In the main text: पिण्डं बद्ध्वा तु विधिवत्⁵.
सप्तमः पटलः । १०१
शेषौ मध्यौ च लाक्षावत्¹ शीघ्रद्रावौ तु निष्फलौ² ।
वङ्गवद्द्रवते³ वह्नौ चपलस्तेन कीर्तितः⁴ ॥ २४ ॥
वस्त्रेण बद्धा चपलं लङ्घयेद्यदि सागरम् ।
वस्त्रञ्च वेष्टयेत् सद्यः तेनासौ चपलः स्मृतः ॥ २५ ॥⁵
सारयेत् पुटपाकेन चपलं गिरिमस्तके ।
देहबन्धं करोत्येव विशेषाद्रसबन्धनम् ॥ २६ ॥
चपलश्चपलावेधं करोति घनवद्बलः ।
चपलो लेखनः स्निग्धो देहलोहकरो मतः ॥ २७ ॥
॥ इति चपलगुद्धिः ॥⁶
मृत्तिका⁷गुड़पाषाण-भेदतो रसकस्त्रिधा⁸ ॥ २८ ॥
पीतस्तु मृत्तिकाकारो मृत्तिकारसको वरः⁹ ।
(1) B has शेषा मध्याय लाक्षावन्. M has शेषा मध्याश्च लाक्षाय, wherein
the last term seems to be incorrect. (2) शीघ्रं द्रावास्तु निष्फलाः, a
variant in B. K has शीघ्रद्रावोस्तु, which is inc. रसद्रावास्तु निष्फलम्, a
variant in M, wherein the last term is inc. (3) M reads नागवद्द्रवते.
(4) The ślokas 23rd and 24th nearly agree with the texts in रस. स.
Chap. II. vs. 143–144. (5) The 25th śloka is not found in B
and M. (6) The 26th and the 27th ślokas with the portion—
इति चपलगुद्धिः are not found in B and M. [The latter hemistich of the
27th śloka exactly agrees with the text in रस. स. Chap. II. v. 145.]
(7) M reads मूर्त्तिका, which is inc. (8) B reads भेदको तो, which
is not correct. M reads भेदको रसखिधा, which is a defective charaṇa.
[But रस. स. states two sorts of रसक. Vide Chap. II. v. 149.]
(9) मृत्तिकारसतो वरम्, a variant in M, which is erroneous.
१०२ रसार्णवे
गुड़ाभो मध्यमो ज्ञेयः पाषाणाभः कनिष्ठकः¹ ॥ २९ ॥
कटुकालाबुनिर्यासैनालोड्य² रसकं पचेत् ।
शुद्धो दोषविनिर्मुक्तः³ पीतवर्णस्तु जायते⁴ ॥ ३० ॥
किमत्र चित्रं रसकं⁵ रसेन
रजस्वलायाः कुसुमेन⁶ भावितम् ।
क्रमेण कृत्वा उरगेन⁷ रञ्जितं
करोति शुक्लं त्रिपुटेन⁸ काञ्चनम् ॥ ३१ ॥
ध्रीयते नापि वह्निस्थः सत्त्वरूपो महाबलः ॥ ३२ ॥⁹
रसकं चूर्णयित्वा तु बद्धा वस्त्रे विचक्षणः ।
मूत्रे निधापयेत् स्त्रीणां सप्तरात्रं सुरेश्वरि ॥ ३३ ॥
पुष्पाणां रक्तपीतानां रसैः पत्रैश्च¹⁰ भावयेत् ॥ ३४ ॥
(1) K reads कनिष्टकः. M reads कनिष्ठिकः. Both are incorrect.
(2) B has निर्यासै चालोद्य. M has निर्यासै चालोध्या. Both are incorrect.
(3) K reads दोषः विनिर्मुक्तः. M reads विनिर्मुक्तो. Both are gram. inc.
(4) पीतवर्णसु जायते, a variant in K, which seems to be an error of the
scribe. जायते पीतवर्णकः, a variant in M. [Vide रस.स. Chap. II. vs.
153-154.] (5) M reads रसको. [The term रसक is of both genders.]
(6) M reads रजस्वलाया ऋतुजेन. (7) K reads तुरगेण. [Both उरग
(lead) and तुरग (sulphur) are mentioned in रसचिन्तामणि, Chap. 3.]
(8) M has समं त्रिपुटेन. (9) This hemistich is not found in B
and M. After this 32nd śloka we find चण्डश्च in K only; hence we
have not inserted it in the text. It appears to be redundant.
(10) B reads पचैश्च, which is evidently an error of the scribe. K reads
पिष्टैश्च, which is also incorrect, as the पिष्ट of flowers is unusual.
सप्तमः पटलः । १०१
क्षारैः स्नेहेश्च चाम्लैः भावितं रसकं मुहुः ।
ऊर्ध्वालाक्षानिशा¹पथ्या भूलताधूमसंयुतम्² ॥ ३५ ॥
मूकभूषागतं³ ध्मातं टङ्कणेन समन्वितम् ।
सत्त्वं कुटिलसङ्काशं मुञ्चत्येव⁴ न संशयः⁵ ॥ ३६ ॥
गोभद्दो रसकस्तुत्यं⁶ क्षितिकिट्टो⁷ रसोद्भवः ।
खर्परो⁸ नेत्ररोगारिः रीतिकृत्ताम्ररञ्जकः⁹ ॥ ३७ ॥
रसको रञ्जको रुच्यो वातहृत् श्लेष्मनाशनः¹⁰ ।
त्रिदोषघ्नस्तु तत्सत्त्वं नेत्रदोषविनाशनम्¹¹ ॥ ३८ ॥
॥ इति रसकशुद्धिः¹² ॥
कालकूट¹³विषं पीत्वा गरुड़ः सोढुमक्षमः ।
(1) B has उर्वालाक्षा तथा, wherein the first term is not correct. K
has तथा in lieu of निशा. M has ऊर्ध्व instead of ऊर्ध्वा. [Vide रस.स. Chap.
II. v. 162, which mentions निशा.] (2) K reads संयुता, which is
gram. inc. (3) B has गते. K has मूखा. M has एक in place of
मूक. All the readings are inc. (4) Vide रस.स. Chap. II. v. 161,
which says “वङ्गाभं पतितं सत्त्वं.” K reads मुञ्चत्यथ. M reads मुञ्चत्येवं.
(5) Cf. रस.स. Chap. II. v. 162. (6) M has an incomplete
charaṇa—रसन्तु······त्य. (7) M reads भद्दो, which seems to be inc.
(8) B has खुर्परो. M has कर्परो. (9) K reads रतिकृत्ताम्ररंजकः.
M reads रीतिकृत्ता शिरञ्जकः. (10) M reads नाशिनी, which is not
correct. [रस.स. states कफपित्तविनाशनः. Chap. II. v. 150.] (11) K
reads नेत्ररोगविनाशनम्. M reads नेत्रदोषं हरन्ति च, which is gram. inc.
(12) B has not इति. M reads रसकविधिः, which is not correct. (13) B
reads कालकूटे.
१०४ रसार्णवे
सुधामपि तथावामत्¹ भुक्त चाशीविषामृते² ।
स्वयं विनिर्गते चक्ष्वोः सस्वकोऽभूत् स कालिकः³ ॥ ३९ ॥
एकधा सत्वकस्तस्य⁴ स्त्रीमूत्रे भावयेद्रजः⁵ ।
भृशं⁶शोषितमध्ये वा दिनमेकं निधापयेत् ॥ ४० ॥
तस्य चूर्णं महेशानि पादसौभाग्यसंयुक्तम्⁷ ।
करञ्ज तैलमध्यस्थं दिनमेकं निधापयेत्⁸ ॥ ४१ ॥
मध्यस्थमन्धमूषायाः⁹ धमयेत् कोकिलाचयम्¹⁰ ।
इन्द्रगोपकसंकाशं¹¹ सत्त्वं पतति शोभनम्¹² ॥ ४२ ॥
एकधा सत्वकस्तस्मात्¹³ आतो निपतितो भवेत् ।
(1) B reads स्वधावामत्. K reads सुधां चाह. M reads सुधामविषमृधात्मानं,
which is unintelligible. We have kept अवामत्, though gram. incorrect,
merely for the sake of metre. (2) मोक्षमाशीविषामृते, a variant in B.
सुह्मामासोदविषामृते, a variant in K. मोक्षमाशीविषाहते, a variant in M.
[Vide रस्रत्नसमुच्चय Chap. II. vs. 126–127.] (3) M reads सकामतः.
(4) एकश| सखकसुखं, a reading in K, which seems to be inc. M reads
एकथा instead of एकधा. (5) M reads द्रावयेद्रजः. (6) M has भर.
(7) M has an incorrect reading—पादचन्द्रसायसंयुतम्. (8) Cf. रस.स.
Chap. II. v. 133. (9) K has धन्ममूखायां, which is erroneous. M
has मयकृपायां, which is absurd. रस.स. has धन्धमूवासमध्यस्थं. Chap. II.
v. 134. (10) K reads आपयेत्. रस.स. reads also आपयेत् कोकिलाषयम्.
Chap. II. v. 134. (11) M has an absurd reading—षगोपकाभासा-
काश. रस.स has इन्द्रगोपाह्वति चैव. (12) रस.स. reads भवति instead
of पतति. Chap. II. v. 134. (13) K reads सत्वकस्तुल्यं. M reads
रकथा सत्वकामञ्जे.
सप्तमः पटलः । १०५
कालिकांरहितो रक्तः शिखिकंठ¹समाकृतिः ॥ ४३ ॥
सस्यो मयूरतुत्थं स्यात्² वह्निकृत् कालनाशनः³ ।
रसायने तु योग्यः स्याद्⁴ वयस्तम्भकरो भवेत् ॥ ४४ ॥
सस्यकः शुद्धिमाप्नोति रक्तवर्गेण भावितः⁵ ॥ ४५ ॥
॥ इति सस्यकशुद्धिः ॥
दरदस्त्रिविधः प्रोक्त⁶श्चर्मांरः शुकतुण्डकः⁷ ।
हंसपादस्तृतीयः स्याद्⁸ गुणवानुत्तरोत्तरः९ ॥ ४६ ॥
चूर्णपारदभेदेन¹⁰ द्विविधो दरदः पुनः ॥ ४७ ॥
(1) K has शिखिकंस. M has शिखिकर्षिं. But रस.स. has मयूरकण्ठसच्छायं.
Chap. II. v. 127. (2) B has तुल्य स्याद्. K has तुल्य स्या. M has तुर्थस्य.
All the readings are gram. incorrect. (3) B reads कलताशनः, which
has no clear sense. K reads वह्निकृद्वह्निनाशनः. (4) B and K have
योग्य स्याद्. M has योग्यस्स्याद्. Both are gram. inc. (5) K and M
read रसवर्गेण, which is evidently an error; because we find in रस.स. रक्त-
वर्गेण, which is supported by the MS. B. M has भावितम्, which is
gram. erroneous. [Vide रस.स. Chap. II. v. 130.] (6) दरदस्त्रिविधो
रक्त, a variant in B and M. (7) B has चर्मांरशुकटण्डकः. M has
चर्माभः शुकदण्डकः. (8) B and M read इसपादस्तु लेपः स्यात्. [रस.स.
reads हंसपाकः. Vide Chap. III. v. 139.] (9) All the MSS.
have उत्तरोत्तरम्; but since दरद is written in the masculine gender, it
ought to have an adjective in the same gender. (10) K reads
भेदानि. M reads दारद. Both are inc.
14
१०६ रसार्णवे
गोमांषे माहिषे मूत्रे¹ दध्यम्लतिलतैल्योः² ।
एकैकं त्रिदिनं पञ्चा न्निखिप्तेन भावयेत् ॥ ४८ ॥
दरदं पातनावन्त्रे³ पातयेत् सलिलाश्रये⁴ ।
सत्त्वं तु सूतसंकाशं⁵ जायते नात्र संशयः⁶ ॥ ४६ ॥
शबुकन्दरदो म्लेच्छो⁷ हिङ्गुलं चूर्णपारदम्⁸ ।
मञ्चिरामजमसैवं⁹ नाम चर्मारगन्धिकम्¹⁰ ॥ ५० ॥
तिक्तोष्णं हिङ्गुलं दिव्यं¹¹ रसगन्धकसम्भवम्¹² ।
लोहकुष्ठहरं दिव्य¹³-बलमेघाग्निदीपनम् ॥ ५१ ॥
(1) The portion commencing from this charaṇa and ending in
घृताक्तकर्पटोपरि (48—70) is wanting in K. (2) दध्नं सतैलतैलयोः, a
variant in M, which seems to be incorrect. (3) M has दरदः पात-
येत् पात्रे, wherein the first term is gram. inc. [For पातनायन्त्र vide रस.स.
Chap. IX. vs. 6—8.] (4) The term पातयेत् is wanting in B,
which reads सलिलाश्रया. M reads सलिलाश्रयः. But as we see in रस.स.,
which nearly agrees with this śloka, the term जलाग्रये, we have adopted
the above reading as correct one. [Vide Chap. III. v. 144.]
(5) सत्व सूतकसङ्गाशं, a variant in M. [रस.स. reads तद्यत्त्व सूतसंकाशं. Chap.
III. v. 144.] (6) रस.स. reads पातयेन्नात्र संशयः. [Chap. III. v. 144.]
(7) M has an incorrect and incomplete reading—शबुकन्ददोम्लेन.
(8) B reads पूर्वपारम. M reads पुर्वपारवम्. (9) मचिनान्करंदसैब,
a variant in B. मञ्चिकाम्राकरं सैव, a variant in M. Both the readings
seem to be inc. (10) B reads दावा. M reads नामा चर्मावरनिसिकम्.
(11) M reads गुवं. (12) M reads संभवेत्, which is not correct.
(13) B has लोहकुष्टहरं दिव्यं M has दोह्य, which has no sense.
सप्तमः पटलः । १०७
विमलं स्विन्नं दरदः सुभावितः
क्षीरेण मेष्या बहुशोऽर्कवह्निभिः ।
सितं सुवर्णं बहुशश्चतापितं
करोति साक्षाद्वरकुङ्कुमप्रभम् ॥¹ ५२ ॥
॥ इति दरदशुद्धिः ॥
वल्मीकशिखराकारं भङ्गे नीलोत्पलद्युति ।
घृष्टन्तु गैरिकच्छायं² स्रोतोऽञ्जनं सुरवन्दितं³ ॥ ५३ ॥
गोशकृद्रसमूत्रेषु घृतक्षौद्रवसासु च ।
भावितं बहुशस्तच्च क्षिप्रं बध्नाति सूतकम्⁴ ॥ ५४ ॥
॥ इति स्रोतोऽञ्जनशुद्धिः ॥⁵
॥ इत्यष्टमहारसशुद्धिः ॥⁶
एवं महारसाः⁷ प्रोक्ताः शृणुष्वोपरसान्⁸ प्रिये ॥ ५५ ॥
(1) M reads बहुधर्मभावितं. This śloka agrees with the text in रस.स.
except the term सितं, which is एवं. [Chap. III. v. 143.] (2) दृष्टन्तु
गैरिकछायं,—an incorrect variant in M. (3) M reads सोताऽण्ड, which
is evidently an error. This śloka agrees with the text in रस.स. except
the last term, which is वरंस्मृतम्.- (4) Cf. रस.स. Chap. III. v. 107.
(5) This portion is wanting in M. (6) This portion is not
found in M. (7) B reads महारसा (without विसर्ग), which is inc.
(8) M has शृणुष्वेव रसान्, which is gram. inc. [The verb शृणुष्व is gram.
inc. The correct form is शृणु. This sort of error is generally seen in
the Purāṇas and Tantras. For a similar grammatical anomaly vide
ante page 100, note 3.]
१०८ रसार्णवे
गन्धकस्तालकः¹ शिला सौराष्ट्री खग²गैरिकम् ।
राजावर्त्तश्च³ कङ्कुष्ठम्⁴ चष्टा⁵ उपरसाः स्मृताः⁶ ॥ ५६ ॥
श्वेतद्वीपे पुरा देवि सर्व्वरत्नविभूषिते ।
सर्व्वकाममये रम्ये तीरे क्षीरपयोनिधेः⁷ ॥ ५७ ॥
विद्याधरीभिर्मुख्याभिरङ्गनाभिश्च योषिते ।⁸
सिद्धाङ्गनाभिश्चिष्टाभिस्तथैवाप्सरसां गणैः ॥ ५८ ॥
देवाङ्गनाभिरन्याभिः क्रीड़िताभिः पुरा प्रिये ।
गीतनृत्यैर्विचित्रैश्च वाद्यैर्नानाविधैस्तथा ॥ ५६ ॥
एवं⁹ संक्रीड़मानायास्तवाभूत् प्रस्रुतं¹⁰ रजः ।
तद्रजोऽतीव सुश्रोणि¹¹ सुगन्धि सुमनोहरम्¹² ॥ ६० ॥
रजस्यातिबाहुल्यात् वासस्ते रक्ततां¹³ ययौ ।
तत्र त्यक्ता तु तद्वासः¹⁴ सुस्नाता¹⁵ क्षीरसागरे ॥ ६१ ॥
(1) B reads here मसकं तालकं. But it writes afterwards मसकः and
तालकः. (2) M reads खर here ; but we see afterwards in B and
M काशीशं instead of खग or खर. [Vide śloka 81.] (3) B and M
read at first राजावर्त्त, but afterwards राजावर्त्त.. (4) B reads कङ्गुष्ट.
(5) B has महा, which is grammatically inc. (6) B reads प्रिये.
(7) B has पयोनिधं (without विसर्ग), which is incorrect. (8) This
hemistich and the next three are not found in M. (9) M reads
बहु. (10) B reads प्रसूतं, which is neither accurate nor metrical.
(11) M has सूश्रोणि, which is gram. inc. (12) B reads सुमहत्तरम्.
(13) B reads पक्कतां. (14) B has तद्वस्त्र. (15) M reads
साक्षावि.
सप्तमः पटलः । १०९
हृता¹ देवाङ्गनाभिस्त्वं सुरैश्चापि पुरं² गता ।
जम्भीभिस्ते रजोवस्त्रं³ नीतं मध्ये⁴ पयोनिधेः ॥ ६२ ॥
एवं ते शोषितं भद्रे प्रविष्टं क्षीरसागरे ।
क्षीराब्धिमथने चैतदमृतेन सहोत्थितम् ।
निजगन्धेन तान् सर्व्वान् हर्षयद्देवदानवान्⁵ ॥ ६३ ॥
ततो देवगणैरुक्तं⁶ गन्धकाख्यो भवत्वयम् ॥ ६४ ॥
रसस्य बन्धनार्थाय जारणाय⁷ भवत्वयम् ।
ये गुणाः पारदे प्रोक्ता⁸स्ते चैवात्र भवन्त्विति ॥ ६५ ॥
इति देवगणैः प्रीतैः पुरा प्रोक्तं सुरेश्वरि ।
तेनायं गन्धको नाम विख्यातः क्षितिमण्डले ॥ ६६ ॥
स चापि त्रिविधो देवि शुकचञ्चुनिभो वरः ।
मध्यमः पीतवर्णः स्याच्छुक्लवर्णोऽधमः प्रिये ॥ ६७ ॥
करञ्जैरण्डतैलेन द्रावयित्वाजदुग्धके⁹ ।
सिञ्चेदुक्तस्तनिर्यासे¹⁰ त्रीन् वारांस्तं¹¹ पृथक् पृथक् ॥ ६८ ॥
(1) B reads हृता, which is not accurate. (2) B has सुरैरासु
पुरा, which has no sense. (3) व्यंर्भोभिस्तद्रजोवस्त्रं, a variant in M.
(4) This term is wanting in M. (5) Both B and M read सर्व्व-
दानवान्, which creates tautology. (6) M has देवगणैर्युक्तं, which
appears to be incorrect. (7) M reads जारणार्थाय. (8) B has
पारदैः प्रोक्ताः, which is gram. inc. M has पारदेऽप्युक्ताः. (9) द्रावयित्वा
च दुग्धकैः, a variant in M. (10) M reads सिञ्चेदुत्तमनिर्यासेः, wherein
the middle term seems to be inaccurate. (11) Both B and M
read त्रीन् वारांस्तं, which is gram. inc.
११० रसार्णवे
ज्वालिनीबीजचूर्णेन मत्स्यपित्तेन भावयेत् ।
भृङ्गाम्भसा वा सप्ताहं भावितः क्षालितोऽम्भसा¹ ॥ ६९ ॥
तापितो बदराङ्गारैः² घृताक्ते लोहभाजने ।
भावर्त्तितश्च सूक्ष्मग्नौ घृताक्तात्³कर्पटोपरि ॥ ७० ॥
क्षिप्रं भृङ्गस्य निर्यासे⁴ चालितो गन्धको हितः⁵ ॥ ७१ ॥
गन्धको हि स्वभावेन रसरूपः⁶ स्वरूपतः ।
गन्धकं शोधयेत् क्षीरे⁷ शृङ्गवेररसे तथा⁸ ॥ ७२ ॥
रसे च⁹ भृङ्गराजस्य निम्बुकस्य रसे तथा¹⁰ ।
शोधितः सप्तवाराणि¹¹ गन्धको जायतेऽमलः¹² ॥ ७३ ॥
॥ इति¹³ गन्धकशुद्धिः ॥
तालकः पटलः पिण्डो द्विधा तत्राद्य उत्तमः ।
**
सप्तमः पटलः। १११
सुक्क्षीरकटुकालाबु¹-रसयोः सप्तधा प्लुतम् ।
तिलसर्षपशिग्रूत्थि लाक्षा च लवणं गुड़ः² ।
टङ्कणं च युतैश्छातैः³ तालकं भूधरे द्रवेत्⁴ ॥ ७५ ॥
व्याधिघातफलक्षारं⁵ मधु⁶कुष्ठाक्षकं तथा ।
द्रवैः⁷ पुनर्नवोद्भूतैः सप्ताहं मर्दयेद्बुधः ॥ ७६ ॥
दत्त्वा पादांशकं⁸ सर्व्वं ततः पातनयन्त्रके ।
दद्यात् पुटं गजाकारं⁹ पतेत् सत्त्वं सुतालकात्¹⁰ ॥ ७७ ॥
॥ इति तालकशुद्धिः ॥¹¹
रक्ता शिला¹² तु गोमांसे लुङ्गाम्लेन विपाचिता¹³ ।
(त्रिपुष्येण पृथग्भाव्या शिला तालकवद्द्रवेत् ।)¹⁴
(1) B has सक्क्षीरकरंडुकालाबु, which is unintelligible, as well as
defective in metre. K has सुह्यर्कक्षीरकटुको. M has सक्क्षीरकटुकालाम्बु.
(2) M has गुड़म्. (3) B reads युत होतै, which is gram. incorrect.
M reads युतं छोतैः. (4) K reads धमेत्. M reads न्द्रवत्, which is
inc. (5) व्याधिघातवलनार, a variant in B. व्याघ्रीघृतफलखार, a variant
in K. M has an incomplete charana—व्याधिघातप····रक्ष. (6) B
reads मधु. M has not this term. (7) B reads द्रावैः. (8) M
reads पादात् क्रमं. (9) M reads गजकायान्. (10) पतेत् सर्वं
सुतालकम्, a variant in M. (11) This is wanting in B and M.
(12) K reads रक्तां शिलां, which seems to be gram. inc. (13) भङ्गाखे
च विपाचिता, a variant in B. लुङ्गाम्लेन तु पाचिता, a variant in K. लुङ्गाम्लेन
विपाचितम्, a variant in M. The last two readings are gram. incorrect.
(14) This hemistich is found only in M