सामग्री पर जाएँ
सर्वकोश
रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 133, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 133

११० रसार्णवे
ज्वालिनीबीजचूर्णेन मत्स्यपित्तेन भावयेत् ।
भृङ्गाम्भसा वा सप्ताहं भावितः क्षालितोऽम्भसा¹ ॥ ६९ ॥
तापितो बदराङ्गारैः² घृताक्ते लोहभाजने ।
भावर्त्तितश्च सूक्ष्मग्नौ घृताक्तात्³कर्पटोपरि ॥ ७० ॥
क्षिप्रं भृङ्गस्य निर्यासे⁴ चालितो गन्धको हितः⁵ ॥ ७१ ॥
गन्धको हि स्वभावेन रसरूपः⁶ स्वरूपतः ।
गन्धकं शोधयेत् क्षीरे⁷ शृङ्गवेररसे तथा⁸ ॥ ७२ ॥
रसे च⁹ भृङ्गराजस्य निम्बुकस्य रसे तथा¹⁰ ।
शोधितः सप्तवाराणि¹¹ गन्धको जायतेऽमलः¹² ॥ ७३ ॥
॥ इति¹³ गन्धकशुद्धिः ॥
तालकः पटलः पिण्डो द्विधा तत्राद्य उत्तमः ।
**