सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

४.] रसरात्नाकरस्य रसायनखण्डः । ३७
नवनागसहस्राणां बलं तस्याधिकं भवेत् ।
जीवते वज्रदेहः सन् सत्यं सत्यं शिवोदितम् ॥२१४॥
जराजर्जरिताङ्गानामन्धानां पङ्कुकुष्ठिनाम् ।
नष्टवाग्जडषण्ढानां कुब्जानां कुष्ठदेहिनाम् ॥ २१५ ॥
अनेकव्याधियुक्तानां भ्रान्तोन्मत्तपिशाचिनाम् ।
किं पुनः स्वच्छदेहानां भूपानां रससेविनाम् ॥ २१६॥
वीराणां साधकानां च दिव्यसिद्धिप्रदो भवेत् ।
तस्माद्वीरतरो योज्य भैरवोऽसौ न संशयः ॥ २१७ ॥
वज्रकायो भवेत्सिद्धो मेधावी दिव्यरूपवान् ।
अर्धयोजनविस्तीर्णं विमानं चाप्सरोयुतम् ॥ २१८ ॥
आयाति नात्र संदेहस्तस्य सिद्धस्य संमुखम् ।
तत्रारूढो रुद्रलोके क्रीडते भैरवो यथा ॥ २१९ ॥
क्षुत्पिपासाविनिर्म

३८ आयुर्वेदीयग्रन्थमाला । [ उपदेशः
कान्तादिमहारसायनम् ।
मृतकान्ताभ्रकं मृतं गन्धं भृङ्गविडङ्गकम् ।
त्वग्वज्रं बिल्वबीजं च प्रत्येकं पलषोडश ॥ २ ॥
त्रिंशत्पलं त्र्यूषणं च त्रिंशन्त्रिंशद्धृतं मधु ।
चित्रमूलं दशपलं सर्वं चूर्णं विलोडयेत् ॥ ३ ॥
पलानि त्रिफलायास्तु विंशपूर्वं चतुःशतम् ।
क्वाथ्यमष्टगुणैस्तोयैर्ग्राह्यमष्टावशेषितम् ॥ ४ ॥
कषायं भावयेत्तेन मासैकं पूर्वलोडितम् ।
लोहपात्रे खरे घर्मे तत्पलार्धं सदा पिबेत् ॥ ५ ॥
क्षीरैः शयनकाले तु वर्षान्मृत्युजरापहम् ।
बालो निबिडसंधिश्च जीवेच्चन्द्रार्कतारकम् ॥ ६ ॥
महारसायनं दिव्यं कामिनीशततोषकम् ।
रसायना अभ्रकयोगाः ।
अग्निवर्णं क्षिपेत्क्षीरे कृष्णाभ्रं वह्नितापितम् ॥ ७ ॥
भिन्नपत्रं ततः कृत्वा जलमध्ये विनिक्षिपेत् ।
त्रिंशत्पलानि यत्नेन मरिचं पलपञ्चकम् ॥ ८ ॥
चूर्णितं निक्षिपेत्तस्मिंस्त्रिदिनान्ते समुद्धरेत् ।
तत्सर्वं पेषयेच्छ्लक्ष्णं सितवस्त्रेण बन्धयेत् ॥ ९ ॥
जलपूर्णे घटे घर्मे दोलायन्त्रेण धारयेत् ।
शुष्के तोये पुनस्तोयं दद्याद्यावज्जले गतम् ॥ १० ॥
तदभ्रकं ततो वस्त्रं संत्यजेद्रक्षयेज्जलम् ।
त्रिंशद्भागं ततः कुर्यात्तज्जलं साभ्रकं सुधीः ॥ ११ ॥
तद्भागेकेन संलोढ्य पलैकं श्वेततण्डुलात् ।
त्रिंशत्पले गवां क्षीरे तत् पचेचाथ शीतलम् ॥ १२ ॥
मध्वाज्यैर्द्विपलैर्युक्तं निष्कैश्चैकैश्च मरीचकैः ।
साधको भक्षयेन्नित्यं मासान्मृत्युजरापहम् ॥ १३ ॥

४.] रसरत्नाकरस्य रसायनखण्डः । ३९
केशा दन्ता नखास्तस्य पतन्ति ह्युद्भवन्ति च ।
वज्रकायो भवेत्सिद्धो वायुवेगो महाबलः ॥ १४ ॥
अमृताभ्रकयोगोऽयं शम्भुना गदितः पुरा ।
मृताभ्रं गन्धकं शुद्धं कणा सर्वं समं घृतैः ॥ १५ ॥
कर्षैकं भक्षयेन्नित्यं वर्षान्मृत्युजरापहम् ।
कोरण्टकस्य पत्राणि मृताभ्रं गन्धकं समम् ॥ १६ ॥
तत्सर्वं नीलिकाद्रावैः सप्ताहं भाव्यमातपे ।
तत्कर्षैकं पिबेत्क्षीरैरब्दान्मृत्युजरापहम् ॥ १७ ॥
मृताभ्रकस्य कर्षैकं गवां क्षीरं पलं तथा ।
समूलपत्रां सर्पाक्षीं सार्द्रां पिष्ट्वा च गन्धकम् ॥ १८ ॥
एकीकृत्य पिबेत्सर्वं वर्षेकेन जरां जयेत् ।
वज्रकायः खेचरश्च जीवेद्ब्रह्मदिनत्रयम् ॥ १९ ॥
मृताभ्रं कान्तलोहं च त्रिफला मागधी समम् ।
पञ्चाङ्गं बदरीचूर्णमग्रतुल्यं नियोजयेत् ॥ २० ॥
सितामध्वाज्यसंयुक्तं पलार्थं भक्षयेत्सदा ।
हन्ति वर्षाज्जरां मृत्युमायुः स्याद्ब्रह्मणो दिनम् ॥ २१ ॥
'अमृतक्रीडे विष्णुसंवरणि स्वाहा ॥' अनेन मन्त्रेण सर्वे
अभ्रकयोगा अभिमन्त्र्य भक्षणीयाः ।
रसायनाः कान्तयोगाः ।
मृतं कान्तं तिलाः कृष्णा बदरीफलचूर्णकम् ।
काकतुण्डीबीजचूर्णं सर्वं तुल्यं प्रकल्पयेत् ॥ २२ ॥
शाल्मलीमल्लिपत्राणां द्रवैर्भाव्यं दिनत्रयम् ।
त्रिदिनं भृङ्गजैर्द्वावैर्भावितं शोषयेत्पुनः ॥ २३ ॥
तस्मिंस्तुल्यं गुडं क्षिप्त्वा वटिकाः कर्षमात्रकाः ।
रुदन्त्युत्थद्रवैः क्षीरैर्मध्वाज्याभ्यां पिबेत्सदा ॥ २४ ॥
१ 'महासिद्धो' ख. । २ 'सार्द्रैः' ख. । ३ 'कर्षकम्' ख. ।

४० आयुर्वेदीयग्रन्थमाला। [उपदेशः
वर्षेकेन जरां मृत्युं हन्ति सत्यं न संशयः ।
मृतं कान्तं कृष्णतिलांस्त्रिफलां चूर्णयेत्समम् ॥ २५ ॥
शाल्मलीकेतकीद्रावैर्लोडितं कान्तपात्रके ।
स्थितं रात्रौ पिबेत्प्रातः पलार्धं मृत्युनाशनम् ॥ २६ ॥
वत्सरेकाज्जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ।
कान्तभस्म कणाचूर्णं निम्बनिर्याासमेवं च ॥ २७ ॥
त्रिफलातुल्यतुल्यांशं मध्वाज्याभ्यां पलार्धकम् ।
लिहेन्मासाष्टकं नित्यं जीवेद्ब्रह्मदिनं नरः ॥ २८ ॥
कुष्ठखण्डानि संपाच्य कषाये त्रैफले समे ।
शोषयित्वा विचूर्ण्याथ तानि कान्तं मृतं समम् ॥२९॥
मध्वाज्याभ्यां लिहेत्कर्षं वर्षान्मृत्युजरापहम् ।
कोरण्टपत्रचूर्णं तु कान्तभस्म तिला गुडम् ॥ ३० ॥
तुल्यं भक्ष्यं पलार्धं तद्वर्षान्मृत्युजरापहम् ।
कान्तभस्म समं गन्धं तेलैर्ज्योतिष्मतीभवैः ॥ ३१ ॥
लिहेन्नित्यं चतुर्निष्कं ब्रह्मायुर्जायते नरः ।
बृहस्पतिसमो वाचा वत्सराद्भवति ध्रुवम् ॥ ३२ ॥
मृततीक्ष्णं त्रयो भागाः शुद्धगन्धाष्टभागकम् ।
घर्मे भाव्यं त्रिसप्ताहं तत्सर्वं कन्यकाद्रवैः ॥ ३३ ॥
गोक्षीरैस्तत्पिबेत्कर्षं जीवेद्ब्रह्मदिनत्रयम् ।
वर्षमात्रान्न संदेहो दिव्यतेजा महाबलः ॥ ३४ ॥
मृतं कान्तं शिला शुद्धा तुल्यं मध्वाज्यकैर्लिहेत् ।
निष्कं निष्कं तु वर्षेण जीवेद्ब्रह्मदिनत्रयम् ॥ ३५ ॥
त्रिनिष्कं मृततीक्ष्णं तु मुण्डं वा कान्तमेव वा ।
पिबेद्धारोष्णपयसा वयःस्तम्भकरं नृणाम् ॥ ३६ ॥
वर्षद्वयप्रयोगेण जीवेदाचन्द्रतारकम् ।
१ 'वर्षत्रयप्रयोगेण' ख. ।

४.] रस्रत्नाकरस्य रसायनखण्डः । ४१
सम्यक्कान्तमये पात्रे धात्रीचूर्णं शिवाम्बुना ॥ ३७ ॥
रात्रौ पलैकं संलिप्य प्रातरुत्थाय भक्षयेत् ।
वलीपलितनिर्मुक्तो वत्सरान्मृत्युजिद्भवेत् ॥ ३८ ॥
लेपयेत्कान्तपात्रान्तः पलैकं त्रिफलामधु ।
दिवारात्रं स्थितं पेयं तन्नित्यं तु शिवाम्बुना ।
वर्षान्मृत्युं जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ ३९ ॥
‘ॐ हः अमृते अमृतशक्ति अमृतगन्धोपजीवि निष्पन्नं
चन्द्रामृतं आज्ञापितं कुरु कुरु स्वाहा हे हे हं हः गम्’ इति
गन्धकलोहयोर्भक्षणमन्त्रः ॥
सर्वेषां लोहयोगानामनु स्यात्क्षीरपानकम् ।
आस्वादेत्स्वादुमुस्तानां स्वरसं दन्तपीडितम् ॥ ४० ॥
मूलानि भक्षयेत्तासामास्यवैरस्यशान्तये ।
बद्धे कोष्ठे तु दीप्ताग्नौ तप्तं क्षीरं पिवेत्सदा ॥ ४१ ॥
स्नानमर्दनतीक्ष्णोष्णं विष्टम्भे सति वर्जयेत् ।
ताम्बूलं भक्षयेन्नित्यं सकर्पूरं मुहुर्मुहुः ॥ ४२ ॥
सम्यग्जीर्णे तु दीप्ताग्नौ पिवेत्पश्चाद्बुलुक्षितः ।
शृतं क्षीरं ततोऽन्नं च सेव्यं लोहरसायने ॥ ४३ ॥
ब्रह्मवृक्षकल्पः ।
ब्रह्मवृक्षस्य पञ्चाङ्गं छायाशुष्कं सुचूर्णितम् ।
मध्वाज्याभ्यां लिहेत्कर्षं वर्षैकेन जरां जयेत् ॥ ४४ ॥
जीवेद्वर्षसहस्रैकं दिव्यतेजा महाबलः ।
ब्रह्मवृक्षस्य पुष्पाणि छायाशुष्काणि कारयेत् ॥ ४५ ॥
त्रिंशत्पलं तु तच्चूर्णं चतुर्विंशत्पलं घृतम् ।
एकीकृत्य क्षिपेद्भाण्डे तं रुद्धा धान्यराशिगम् ॥ ४६ ॥
कृत्वा मासात्समुद्धृत्य भागान् कुर्याच्चतुर्दश ।
भागैकं भक्षयेन्नित्यं भुञ्जीत कान्तभाजने ॥ ४७ ॥

४२ आयुर्वेदीयग्रन्थमाला । [उपदेशः
एवं मासत्रयं कुर्याद्वज्रकायो भवेन्नरः ।
तस्य मूत्रपुरीषाभ्यां ताम्रमायाति काञ्चनम् ॥ ४८ ॥
ब्रह्मवृक्षस्य बीजानि चूर्णितानि घृतैः सह ।
पूर्ववद्धान्यमध्ये तु क्षिप्त्वा मासात्समुद्धरेत् ॥ ४९ ॥
पलैकैकं सदा खादेद्वत्सरान्मृत्युजिद्भवेत् ।
वलीपलितनिर्मुक्तो जीवेद्ब्रह्मदिनत्रयम् ॥ ५० ॥
ब्रह्मबीजोत्थितं तैलं गवां क्षीरैः पलद्वयम् ।
तुल्यैः पिबेद्भवेन्मूर्च्छा सिञ्चेत्तस्य मुखे पयः ॥ ५१ ॥
बोधे क्षीरौदनं दद्यान्मासाज्ज्ञानी भवेन्नरः ।
द्वितीये शुक्रतुल्यः स्यात्तृतीये वज्रवद्भवेत् ॥ ५२ ॥
दूरश्रावी चतुर्थे तु पञ्चमे खेगतिर्भवेत् ।
मासषट्के स्वयं कर्ता शिवतुल्यपराक्रमः ॥ ५३ ॥
महाकल्पान्तपर्यन्तं जीवेद्वर्षैकसेवनात् ।
ब्रह्मवृक्षमतिस्थूलं छेदयेदूर्ध्वभागतः ॥ ५४ ॥
अधो रक्ष्यं त्रिहस्तं स्यात्तस्य मूर्ध्नि बिलं कृतम् ।
पक्वैर्धात्रीफलैः पूर्यं तत्काष्ठेन निरुध्य च ॥ ५५ ॥
कुशैस्तु वेष्टयेत्सर्वं लेप्यं मृद्रोमयैः पुनः ।
आवेष्ट्य वस्त्रखण्डेन लिम्पेन्मृद्रोमयैस्ततः ॥ ५६ ॥
शुष्के गजपुटं देयं पैरितोऽरण्यकोत्पलैः ।
स्वाङ्गशीतलमुद्धृत्य सद्रवाणि फलानि च ॥ ५७ ॥
क्षिपेन्मध्वाज्यसंयुक्ते भाण्डे तान्येव भक्षयेत् ।
यथेष्टं भूगृहान्तःस्थः क्षीराहारी जरां जयेत् ॥ ५८ ॥
मांसद्वयेन वसुधां छिद्रां पश्यति निश्चितम् ।
जीवेद्ब्रह्मदिनं यावत्सर्पवत्कञ्चुकं त्यजेत् ॥ ५९ ॥
१ ‘महाबलः’ ख. । २ ‘तं तु धात्रीफलैः’ ख. । ३ ‘पाचितो’ ख. ।
४ ‘छिद्रं पश्यति मासाद्वै निधानानि च भूतले’ ख. ।

४.] रसरत्नाकरस्य रसायनखण्डः । ५३
श्वेतपालाशकल्पः ।
श्वेतपालाशपञ्चाङ्गं चूर्णितं मधुना सह ।
कर्षैकं भक्षयेन्नित्यं मासान्मृत्युजरापहम् ॥ ६० ॥
ब्रह्मायुर्जायते सिद्धो वर्षमात्रान्न संशयः ।
अजाघृतेन तद्बीजमेकैकं भक्षयेत्सदा ॥ ६१ ॥
शरीरं भस्मना मर्द्य मासान्मृत्युजरां जयेत् ।
जीवेद्ब्रह्मदिनं यावद्दिव्यकायो भवेन्नरः ॥ ६२ ॥
अन्ये योगा यथा रक्ते ब्रह्मवृक्षे च ये गुणाः ।
तथैव श्वेतपालाशे भवेयुः साधकस्य वै ॥ ६३ ॥
'अमृतं कुरु कुरु अमृतमालिन्यै नमः ॥' अनेन मन्त्रेण
सर्वयोगाः सप्ताभिमन्त्रिता भक्षणीयाः ।
मुण्डीकल्पः ।
शुक्लपक्षेऽथ पूर्णायां पुष्ये वा श्रवणे तथा ।
रेवत्यां वाऽथ संपूज्य मुण्डीपञ्चाङ्गमुद्धरेत् ॥ ६४ ॥
छायाशुष्कं तु तच्चूर्णं कर्षं गोपयसा सह ।
वर्षैकेन जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ ६५ ॥
तस्य मूत्रपुरीषाभ्यां ताम्रं सौवर्णतां व्रजेत् ।
तच्चूर्णं तु घृतैस्तैलैर्हं तद्वत्स्याद्वलमद्भुतम् ॥ ६६ ॥
'ॐ नमोऽमृतोद्भवाय अमृतं कुरु कुरु स्वाहा ओं ह्रां स

४४ आयुर्वेदीयग्रन्थमाला । [ उपदेशः
चूर्णितं कर्षमात्रं तु नित्यं पेयं शिवाम्बुना ।
वर्षान्मृत्युं जरां हन्ति छिद्रां पश्यति मेदिनीम् ॥७०॥
पुनर्नवादेवदाल्योर्नीरैर्नित्यं पिबेन्नरः ।
देवदाल्याश्च सर्पाक्ष्याः पलैकं वा शिवाम्बुना ॥ ७१ ॥
पिबेत्स्यात्पूर्ववत्सिद्धिवत्सरान्नात्र संशयः ।
देवदालीं च निर्गुण्डीं पिबेत्कर्षां शिवाम्बुना ।
वर्षेकेन जरां हन्ति जीवेदाचन्द्रतारकम् ॥ ७२ ॥
ॐ अमृतगण रुद्रगणाम्भः स्वाहा । अयं च ग्रहणमन्त्रः ॥
‘नमो भगवते रुद्राय हुं फट् स्वाहा ।’ अयं साधकस्य शिखा-
बन्धनमन्त्रः ॥ १‘ॐ चर र र ।’ अयं भक्षणमन्त्रः ॥
श्वेतार्ककल्पः ।
पुष्ये श्वेतार्कमूलं तु ग्राह्यं छायाविशोषितम् ।
चूर्णकर्षं गवां क्षीरैः पलद्वन्द्वैर्युतं पिबेत् ॥ ७३ ॥
मासषट्काज्जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ।
द्रवं श्वेतार्कपत्राणां भृङ्गराजद्रवैः समम् ॥ ७४ ॥
एकीकृत्यातपे शुष्कं चूर्णं क्षीरैश्चतुर्गुणैः ।
मृद्वग्निना पचेत्तावद्यावत्पिण्डत्वमागतम् ।
२तत्कर्षैकं घृतैर्लेह्यं वर्षात्स्यात्पूर्ववत्फलम् ॥ ७५ ॥
‘ॐ आं हं वासरमालिने स्वाहा ।’ अयं भक्षणमन्त्रः ॥
हस्तिकर्णकल्पः ।
ग्राह्यं सोमत्रयोदश्यां हस्तिकर्णस्य पत्रकम् ।
छायाशुष्कं तु तच्चूर्णं गवां क्षीरैः पिबेत्पलम् ॥ ७६ ॥
वर्षमात्राज्जरां हन्ति जीवेद्ब्रह्मदिनं नरः ।
हस्तिकर्णस्य पञ्चाङ्गं छायाशुष्कं विचूर्णितम् ॥ ७७ ॥
१ अयं पाठः ख. पुस्तके नोपलभ्यते । २ ‘कर्षैकं तु’ ख. ।

४.] रसरत्नाकरस्य रसायनखण्डः । ४५
कर्षमात्रं पिवेन्नित्यं मासैकमुदकैः सह ।
आरनालैस्ततस्तक्रैर्दधिक्षीराज्यक्षौद्रकैः ॥ ७८ ॥
प्रत्येकेन क्रमात्सेव्यं मासैकेन जरापहम् ।
जीवेद्ब्रह्मदिनं सार्धं वज्रकायो महाबलः ॥ ७९ ॥
‘ॐ गरविषं दृष्टौ गृह्णामि स्वाहा ।’ हस्तिकर्णग्रहणमन्त्रः ॥
‘ॐ अमृतकुटीजातानां अमृतं कुरु कुरु स्वाहा ।’ अनेन
पूजयेत् । ‘ॐ अमृतोद्भवाय अमृतं कुरु कुरु नित्यं नमो नमः।’
भक्षणमन्त्रः ॥
रुदन्तीकल्पः ।
रुदन्त्याश्चैव पञ्चाङ्गं छायाशुष्कं विचूर्णयेत् ।
तदर्धं मुशलीचूर्णं मुशल्यार्धं फलत्रयम् ॥ ८० ॥
मूलानां कतकोत्थानां तैलं पातालयन्त्रके ।
ग्राहयेद्धर्मयन्त्रे वा तत्तैलं क्षालयेज्जलैः ॥ ८१ ॥
नालिकेरजलैर्वाऽथ क्षाल्यं पञ्चांशवारकम् ।
एतत्तैलेन संयुक्तं पूर्वचूर्णं लिहेत्क्रमात् ॥ ८२ ॥
कर्षादिवर्धनं कार्यं पलान्तं चाथ वर्धयेत् ।
एवमब्दाज्जरां हन्ति आयुः स्याद्ब्रह्मणो दिनम् ॥ ८३॥
सिद्धयोगो ह्ययं ख्यातो वज्रकायकरो नृणाम् ।
निर्गुण्डीकल्पः ।
पुष्यार्के ग्राहयेत्प्रातर्निर्गुण्डीमूलजां त्वचम् ॥ ८४ ॥
छायाशुष्कां विचूर्ण्याथ कर्षमेकं पिवेत्सदा ।
अजामूत्रपलैकेन षण्मासादमरो भवेत् ॥ ८५ ॥
वर्षमात्रप्रयोगेण शिवतुल्यो भवेन्नरः ।
तच्चूर्णं क्षीरमध्वाज्यैर्लोडितं स्निग्धभाण्डके ॥ ८६ ॥
१ 'अमृतकुक्षिजातानां' ख. । २ 'पञ्चांशवासरम्' ख.।

४६ आयुर्वेदग्रन्थमाला । [उपदेशः
रुद्ध्वा क्षिपेद्धान्यराशौ मासादुद्धृत्य भक्षयेत् ।
द्विपलं वर्षपर्यन्तं जीवेच्चन्द्रार्कतारकम् ॥ ८७ ॥
तच्चूर्णार्धपलं चाज्यैर्लिहेत्स्यात्पूर्ववत्फलम् ।
तच्चूर्णं त्रिफला मुण्डी भृङ्गी निम्बो गुडूचिका ॥ ८८ ॥
वचा चैषां समं चूर्णं मध्वाज्याभ्यां लिहेत्पलम् ।
वर्षान्मृत्युं जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ॥ ८९ ॥
निर्गुण्डीपत्रजं द्रावं भाण्डे मृद्वग्निना पचेत् ।
गुडवत्पाकमापन्नं पीतं वान्तिविरेककृत् ॥ ९० ॥
निर्यान्ति कृमयस्तस्य मुखनासाक्षिकर्णतः ।
राजयक्ष्मादिरोगांश्च सप्ताहेन विनाशयेत् ।
मासत्रयाज्जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ ९१ ॥
'ॐ नमो माय गणपतये भूपतये कुबेराय स्वाहा'. इति
भक्षणमन्त्रः ॥
रसायनाः कतिपययोगाः ।
भल्लातकोऽभया वीरा काकतुण्ड्याः फलं वचा ।
लाङ्गली निम्बपत्राणि सहदेवी समं समम् ॥ ९२ ॥
एषां पातालयन्त्रेण तैलं ग्राह्यं प्रयत्नतः ।
तत्तैलं नीलिकामूलयुक्तमर्धपलं पिबेत् ॥ ९३ ॥
वत्सरात्पलितं हन्ति आयुः स्याद्ब्रह्मणो दिनम् ।
तैलार्धनिष्के तन्नस्ये कृते स्यात्पूर्ववत्फलम् ॥ ९४ ॥
कृष्णजीरकप्रस्थैकं तत्तुल्यं भृङ्गजद्रवम् ।
यष्टी नीलोत्पलं चैव प्रति प्रस्थार्धमाहरेत् ॥ ९५ ॥
पादप्रस्थं तिलात्तैलं सर्वमेकत्र पाचयेत् ।
ग्राह्यं तैलावशेषं तन्नस्यं तेनैव कारयेत् ॥ ९६ ॥
नस्यं चाङ्कोल्लतैलेन कुर्यान्मृत्युजरापहम् ।
निष्कार्धंनिष्कं वर्षैकं जीवेद्वर्षशतत्रयम् ॥ ९७ ॥

४.] रसरत्नाकरस्य रसायनखण्डः । ४७
काकमाचीफलं पिष्ट्वा कर्षैकमुदकैः पिबेत् ।
वत्सरात्पलितं हन्ति आयुः स्याद्ब्रह्मणो दिनम् ॥ ९८॥
गुडूची मुशली मुण्डी निर्गुण्डी च शतावरी ।
विजया च समं चूर्णं सितामध्वाज्यसंयुक्तम् ॥ ९९ ॥
खादेत्कर्षद्वयं नित्यं वत्सरात्पलितं जयेत् ।
उक्तं गोरक्षनाथेन जीवेद्ब्रह्मदिनत्रयम् ॥ १०० ॥
शूनकशाल्मलिकाकल्पः ।
कृष्णाष्टम्यां कृष्णसूत्रैर्वृक्षं शूनकशाल्मलेः ।
आवेष्ट्याघोरमन्त्रेण रात्रौ कृष्णाजकं बलिम् ॥ १०१ ॥
दत्त्वाऽघोरं जपेत्तत्र यावदष्टसहस्रकम् ।
तस्य मूलत्वचं ग्राह्यं छायाशुष्कं विचूर्णयेत् ॥ १०२ ॥
मध्वाज्याभ्यां सदा खादेत्पलैकं वत्सरावधि ।
वलीपलितनिर्मुक्तो जीवेद्ब्रह्मदिनं नरः ॥ १०३ ॥
तस्य पुष्पाणि संगृह्य गवां क्षीरैः सदा पचेत् ।
पुष्पवर्जं पिबेत्क्षीरं मासान्मृत्युजरापहम् ॥ १०४ ॥
फलैकं तस्य वृक्षस्य गवां क्षीरेण पाचयेत् ।
फलवर्जं पिबेत्क्षीरं क्षीरमेवं पिबेद्बुधः ॥ १०५ ॥
चतुर्मासप्रयोगेण वज्रकायो भवेन्नरः ।
जीवेत्कल्पान्तपर्यन्तं वायुवेगो महाबलः ॥ १०६ ॥
तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् ।
काकमाची भृङ्गराजः सर्पाक्षी सहदेविका ॥ १०७ ॥
समूला देवदाली च निम्बबाकुचिबीजकम् ।
फलानि काकतुण्ड्याश्च मूलं ब्रह्माश्वगन्धयोः ॥ १०८॥
नीलकोरण्टपत्राणि त्रिफला च समं समम् ।
चूर्णं तत्कन्यकाद्रावैर्भावयेत्सप्तवासरम् ॥ १०९ ॥
छायायां शोषितं कुर्यात्सितामध्वाज्यसंयुक्तम् ।

४८ आयुर्वेदीयग्रन्थमाला । [उपदेशः
भक्षेतकर्षद्वयं नित्यं वर्षमात्राज्जरां जयेत् ।
जीवेच्चन्द्रार्कनक्षत्रं महाकायो महाबलः ॥ ११० ॥
‘ॐ ठः ठः ठः सः सः सः अमृते अमृतवर्षिणि अमृतसं-
जीवनि सर्वकामप्रदे भगवान् सोमराज आज्ञापयति स्वाहा’
इति भक्षणमन्त्रः ॥ '
त्रिफलादियोगः ।
त्रिफला बाकुचीबीजं पिप्पली चाश्वगन्धिका ।
सर्वं तुल्यं कृतं चूर्णं मध्वाज्याभ्यां लिहेत्पलम् ।
वर्षान्मृत्युं जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ॥ १११ ॥
‘ॐ ह्रां ह्रीं हूं सः स्वाहा’ अनेन मन्त्रेण भक्षयेत् ॥
मूलिकाकल्पेषु पारदयोगः ।
मूलिकाकल्पयोगेषु गुञ्जैकां मृतपारदम् ।
प्रतियोगयुतं खादेत्फलं शतगुणं भवेत् ।
रसेन्द्रस्य प्रभावेण शीघ्रं सिद्धिमवाप्नुयात् ॥ ११२ ॥
रसायनकल्पेषु मन्त्रयोगः ।
अस्थिमुद्राधरो मन्त्री लक्षमेकं श्मशानतः ।
जपेन्महाभयं हन्ति सिद्धिं दत्ते रसायनम् ॥ ११३ ॥
तेन भक्षितमात्रेण जीवेदाचन्द्रतारकम् ।
अजेयो देवदैत्यानां पर्वतानपि चालयेत् ॥ ११४ ॥
‘ॐ ह्रीं महाभयेरुम् ।’
रसायनसेवनविधिः ।
प्रातः पुष्यार्कमुख्ये विविधशुभदिने मन्त्रपूजाविधानै-
र्ग्राह्यं दिव्यौषधीनां फलदलकुसुमं मूलपत्रं रसं वा ।
सर्वाङ्गं वाऽथ सिध्यै सकलमभिनवं सेव्येद्ब्रह्मचारी
क्षीरान्नं चोदकान्नं हितमशनमिदं सर्वमन्यद्विवर्ज्यम्॥ ११५ ॥
इति श्रीपार्वतीपुत्रश्रीमन्नित्यसिद्धनाथविरचिते श्रीरसरत्नाकरे रसायनखण्डे
नानारसायनं नाम चतुर्थोपदेशः ।

५.] रसरत्नाकरस्य रसायनखण्डः । ४९
अथ पञ्चमोपदेशः ।
उद्वर्तनं पलितहारि परं नराणां
शोभावहं सुखकरं कचरञ्जनं च ।
वृद्धोपयोगिसुखसाध्यमनेकयुक्त्या
वक्ष्ये सुसिद्धमनुभूतिपथेन दृष्टम् ॥ १ ॥
वलीपलितनाशार्थे पारदाद्युद्वर्तनम् ।
पारदं गन्धकं तुल्यं नारीस्तन्येन मर्दयेत् ।
विष्णुक्रान्ता मेघनादा सर्पाक्षी मुनिमुण्डिका ॥ २ ॥
आसां द्रवैर्दिनं खल्वे मर्दयेत्तत्समुद्धरेत् ।
यवचूर्णं तिलांश्चैव प्रत्येकं रसतुल्यकम् ॥ ३ ॥
क्षिपेत्तस्मिन् घृतैः क्षौद्रैः सर्वमालोड्य रक्षयेत् ।
अनेनोद्वर्तनं सम्यग्वलीपलितनाशनम् ॥ ४ ॥
वत्सराद्दिव्यदेहः स्याज्जीवेद्वर्षसहस्रकम् ।
वलीपलितनाशार्थे वज्रकापालिनीमूलाद्युद्वर्तनम् ।
वज्रकापालिनीमूलं पारदं च समं समम् ॥ ५ ॥
शिवाम्बुना त्र्यहं मर्द्यमुद्धर्तातपूर्ववत्फलम् ।
वलीपलितनाशार्थे उत्पलाद्युद्वर्तनम् ।
उत्पलानि समूलानि पारदं च समं समम् ॥ ६ ॥
सप्ताहं मर्दयेत्खल्वे स्वकीयेनाशिवाम्बुना ।
तेनैव मर्दयेद्गात्रं जायते पूर्ववत्फलम् ॥ ७ ॥
वलीपलितनाशार्थे पारदाद्युद्वर्तनम् ।
पारदस्य समांशेन ब्रह्मदण्डीयमूलकम् ।
क्षिप्त्वा सप्तदिनं मर्द्यं स्वकीयेनाशिवाम्बुना ॥ ८ ॥
अनेनोद्वर्तयेद्गात्रं जायते पूर्ववत्फलम् ।
१ 'बलकरं' ख. ।
५

५० आयुर्वेदीयग्रन्थमाला । [ उपदेशः
वलीपलितनाशार्थे गन्धकयोगः ।
गन्धकं कटुतैलेन घर्मे भाव्यं दिनावधि ॥ ९ ॥
तत्पलार्धं सदा खादेद्दिव्यकायकरं नृणाम् ।
जायते स्वर्णवद्देहो वत्सराद्वलिवर्जितः ॥ १० ॥
रसायनार्थे कुष्ठयोगः ।
कुष्ठचूर्णं समध्वाज्यं नित्यं कर्षं लिहेत्तु यः ।
वत्सराद्दिव्यदेहः स्याद्गन्धेन शतपुष्पवत् ॥ ११ ॥
पलितनाशार्थे कान्तपाषाणादियोगः ।
कान्तपाषाणचूर्णं तु तैलमध्वाज्यसंयुतम् ।
काकतुण्डीफलं सर्वं सममेतत्तु कल्पयेत् ॥ १२ ॥
भाण्डे रुद्धा क्षिपेन्मासं धान्यराशावथोद्धरेत् ।
अनेन लेपयेच्छीर्षं नस्यं कुर्याद्दिनेन वै ॥ १३ ॥
त्र्यहाद्भ्रमरसंकाशाः केशाः स्युर्वत्सरार्धकम् ।
पलितनाशार्थे सीसकादियोगः ।
नागचूर्णपलैकं तु शङ्खचूर्णपलद्वयम् ॥ १४ ॥
पथ्याचूर्णं निष्कमेकं सर्वं पेष्यं दिनावधि ।
अम्लदध्ना युतं यत्नात्स्नात्वाऽऽदौ शिरसि क्षिपेत् ॥१५॥
मर्दयेद्घटिकार्धं तु वेष्टयेदेरण्डपत्रकैः ।
शिरः संवेष्ट्य वस्त्रेण प्रातः स्नानं समाचरेत् ॥ १६ ॥
इत्येवं त्रिदिनं यत्नात्कृत्वा केशांश्च रञ्जयेत् ।
केशरञ्जनार्थे नीलिकादियोगः ।
पञ्चाङ्गं नीलिकाभृङ्गत्रिफलालोहचूर्णकम् ॥ १७ ॥
तुल्यं सर्वं कृतं सूक्ष्ममिडामूत्रेण(?) वेष्टयेत् ।
दिनार्धं तेन कल्केन पूर्ववत्केशरञ्जनम् ॥ १८ ॥
केशरञ्जनार्थे गुञ्जादियोगः ।
गुञ्जाबीजं तु त्वग्वर्ज्यं कुष्ठैलादेवदारुकम् ।
तुल्यं चूर्णं दिनं भाव्यं भृङ्गराजभवैर्द्रवैः ॥ १९ ॥

५.] रसरत्नाकरस्य रसायनखण्डः । ५१
सर्वं चतुर्गुणे तैले पाचयेन्मृदुवह्निना ।
तेनाभ्यङ्गेन केशानां रञ्जनं भ्रमरोपमम् ॥ २० ॥
केशरञ्जनार्थे हस्तिदन्तादियोगः ।
हस्तिदन्तस्य दग्धस्य समं योज्यं रसाञ्जनम् ।
अजाक्षीरेण तत्पिष्ट्वा लेपनात्केशरञ्जनम् ॥ २१ ॥
केशरञ्जनार्थे त्रिफलादियोगः ।
त्रिफला लोहचूर्णं तु कृष्णमृद्भृङ्गजद्रवम् ।
इक्षुदण्डद्रवं चैव मासं भाण्डे निरोधयेत् ॥ २२ ॥
तल्लेपाद्रञ्जयेत्केशान् स्याद्यावन्मासपञ्चकम् ।
केशरञ्जनार्थे लोहकिट्टादियोगः ।
लोहकिट्टं जपापुष्पं पिष्ट्वा धात्रीफलं समम् ॥ २३ ॥
त्रिदिनं लेपितास्तेन कचाः स्युर्भ्रमरोपमाः ।
भृङ्गराजरसप्रस्थं तैलं कृष्णतिलोद्भवम् ॥ २४ ॥
तुल्यं च नीलिकाद्रावं सर्वं यामं विमर्दयेत् ।
तल्लेपस्त्रिदिनं कार्यः केशानां रञ्जनं भवेत् ॥ २५ ॥
केशरञ्जनार्थे सिन्दूरादियोगः ।
सिन्दूरस्य समं चूर्णं साबुणं च तयोः समम् ।
तज्जले पेषितं लेप्यं तत्क्षणात्कचरञ्जनम् ॥ २६ ॥
केशरञ्जनार्थे शतपुष्पादियोगः ।
शतपुष्पा काकमाची तिलाः कृष्णाश्च रोचनम् ।
दिनं शिवाम्बुना सर्वं मर्दयेल्लोहपात्रके ॥ २७ ॥
तल्लेपं त्रिदिनं कुर्यात्केशानां रञ्जनं भवेत् ।
केशरञ्जनार्थे चूर्णादियोगः ।
चूर्णं सर्जी यवक्षारं सिद्धार्थं काञ्जिकैः सह ॥ २८ ॥
नागपुष्पाद्रवैर्मर्द्यं तल्लेपाद्रञ्जनं भवेत् ।
केशरञ्जनार्थे नील्यादियोगः ।
नीलीपत्राणि कासीसं भृङ्गराजरसं दधि ॥ २९ ॥

५२ आयुर्वेदीयग्रन्थमाला । [उपदेशः
लोहचूर्णं समं पिष्ट्वा तल्लेपं केशरञ्जनम् ।
केशरञ्जनार्थं चूर्णादियोगः ।
चूर्णं सिन्दूरमङ्गारं कदलीकन्दसंयुतम् ॥ ३० ॥
लोहपात्रे लोहमुष्ट्या मर्द्यं जम्बीरजैर्द्रवैः ।
दिनैकं च ततो लेप्यं केशानां रञ्जनं भवेत् ॥ ३१ ॥
केशरञ्जनार्थं कुरण्टकपत्रादियोगः ।
कुरण्टकस्य पत्राणि नागमुष्ट्या विमर्दयेत् ।
तल्लेपं त्रिदिनं कुर्याज्जायते केशरञ्जनम् ॥ ३२ ॥
केशरञ्जनार्थमाम्रास्थ्यादियोगः ।
आम्रास्थि त्रिफला भृङ्गी प्रियङ्गुर्मातुलुङ्गकम् ।
निशा नीली मृणालानि नागं लोहं च चूर्णितम् ॥ ३३॥
समं कल्कं कान्तपात्रे निम्बतैलेन भावयेत् ।
मासमात्रं ततस्तेन लेपाद्भवति रञ्जनम् ॥ ३४ ॥
केशरञ्जनार्थे काकमाच्यादियोगः ।
काकमाचीयबीजानि समाः कृष्णतिलास्तथा ।
तत्तैलं ग्राहयेद्यन्त्रे तन्नस्यं केशरञ्जनम् ॥ ३५ ॥
केशरञ्जनं घृतम् ।
गोघृतं भृङ्गजं द्रावं मयूरशिखया सह ।
मृद्वग्निना पचेत्तेन स्यान्नस्यं केशरञ्जनम् ॥ ३६ ॥
केशरञ्जनार्थं जपापुष्परसनस्यम् ।
जपापुष्पद्रवं क्षौद्रं कर्षैकं नस्यमाचरेत् ।
सप्ताहाद्रञ्जयेत्केशान् सर्वनस्येष्वयं विधिः ॥ ३७ ॥
केशरञ्जनार्थं त्रिफलादितैलम् ।
त्रिफला लोहचूर्णं तु वारिणा पेषयेत्समम् ।
तत्तुल्येन च तैलेन भृङ्गराजरसेन च ॥ ३८ ॥
पचेत्तैलावशेषं तत्स्निग्धभाण्डे निरोधयेत् ।
मासैकं भूगतं कुर्यात्तेन शीर्षं प्रलेपयेत् ॥ ३९ ॥

रसरत्नाकरस्य रसायनखण्डः । ५३
कारवल्या दलैर्वेष्ट्य ततो वस्त्रेण बन्धयेत् ।
निर्वाते क्षीरभोजी स्यात्क्षालयेत्त्रिफलाजलैः ॥ ४० ॥
नित्यमेवं प्रकर्तव्यं लेपनं दिनसप्तकम् ।
कपालरञ्जनं ख्यातं यावज्जीवं न संशयः ॥ ४१ ॥
केशरञ्जनार्थे काकतुण्ड्यादियोगः ।
बीजानि काकतुण्ड्याश्च सिर्यालीबीजसंयुतम् १ ।
तच्चूर्णं दिनचत्वारि भाव्यं निर्गुण्डिजैर्द्रवैः ॥ ४२ ॥
जपापुष्पद्रवैस्तावत्ततः पातालयन्त्रके ।
तैलं ग्राह्यं तु तल्लेपात्केशानां रञ्जनं भवेत् ॥ ४३ ॥
वेष्ट्यमेरण्डपत्रैश्च निर्वाते क्षीरभोजनम् ।
कुर्यात्स्नानं काञ्जिकैश्च नित्यं सप्तदिने कृते ॥ ४४ ॥
यावज्जीवं न संदेहः केशाः स्युर्भ्रमरोपमाः ।
केशरञ्जनार्थे भृङ्गराजादियोगः ।
भृङ्गराजं काचमाचीं समांशं जलमण्डवीम् २ ॥ ४५ ॥
संपिष्ट्या ३ पूपिकां कृत्वा तैलमध्ये विपाचयेत् ।
पक्वां तां पेषयेत्तैलैर्लेपः स्यात्केशरञ्जनम् ॥ ४६ ॥
पूर्ववत्क्रमयोगेन सप्ताहात्तत्फलं भवेत् ।
केशरञ्जनार्थे त्रिफलादियोगः ।
अयस्कान्तमये पात्रे रात्रौ लेप्यं फलत्रयम् ॥ ४७ ॥
भृङ्गराजद्रवैः सार्धं प्रातः केशान् प्रलेपयेत् ।
एवं कुर्यात्त्रिसप्ताहं जायते पूर्ववत्फलम् ॥ ४८ ॥
केशरञ्जनार्थे कृष्णजीरकयोगः ।
प्रक्षिपेन्माहिषे शृङ्गे कृष्णजीरं तदन्धयेत् ।
गृहाग्रे कर्दमे क्षित्त्वा षण्मासात्तत्समुद्धरेत् ॥ ४९ ॥
तद्द्रुतं जायते कृष्णं कर्षैकं शिरसि क्षिपेत् ।
१ 'बीजं समम्' ख. । २ 'जलमण्ड्या' ख. । ३ 'सर्पाक्ष्याऽपूपिकां' ख. ।

५४ आयुर्वेदीयग्रन्थमाला । [उपदेशः
वेष्टयेत्पूर्वयोगेन कपालरञ्जनं भवेत् ॥ ५० ॥
भ्रमराञ्जनसंकाशं यावज्जीवं न संशयः ।
केशरञ्जनार्थं नील्यादियोगः ।
नीलीपत्रं भृङ्गराजं त्रिफला कृष्णमायसम् ॥ ५१ ॥
मदनस्य च बीजानि पुष्पं कोरण्टकस्य च ।
अर्जुनस्य त्वचं चूर्णं नलिनीमूलकर्दमम् ॥ ५२ ॥
सर्वं तुल्यं क्षिपेद्भाण्डे लोहजे तन्निरोधयेत् ।
पक्षमेकं क्षिपेद्भूभौ भाण्डात्कल्कं समुद्धरेत् ॥ ५३ ॥
कल्काच्चतुर्गुणं तैलं तैलाच्चतुर्गुणं द्रवम् ।
भृङ्गत्रिफलजं योज्यं पचेत्तैलावशेषकम् ॥ ५४ ॥
परीक्षार्थं क्षिपेत्पक्षं बलाकाया यदा भवेत् ।
कृष्णवर्णं तदा सिद्धं पात्रे कृष्णायसे क्षिपेत् ॥ ५५ ॥
मासैकं धारयेत्तस्मिंस्ततः केशान् विलेपयेत् ।
तिष्ठन्ति मासषट्कं तु भ्रमरस्तोमसंनिभाः ॥ ५६ ॥
केशरञ्जनार्थं सीसकादियोगः ।
वासापलाशचिञ्चोत्थैर्दण्डैर्वाऽश्वत्थजैर्दृढम् ।
नागं पात्रगतं चाल्यं यावद्भवति मूर्च्छितम् ॥ ५७ ॥
पलैकं तत्समादाय लोहचूर्णं पलद्वयम् ।
त्रिपलं त्रिफलाचूर्णं दाडिमस्य फलत्वचः ॥ ५८ ॥
शुष्कं चूर्णं पलैकं तत्सर्वेषां काञ्जिकं समम् ।
भाण्डे सर्वं पचेत्किंचित् क्षिपेल्लोहभाजने ॥ ५९ ॥
भृङ्गराजकुरण्टोत्थद्रवं दत्त्वाऽऽतपे क्षिपेत् ।
त्रिसप्ताहं प्रयत्नेन द्रवो देयः पुनः पुनः ॥ ६० ॥
ततस्तं रक्षयेत्तेन लेपात्स्यात्केशरञ्जनम् ।
उक्तानुक्तेषु लेपेषु वेष्ट्यमेरण्डपत्रकैः ॥ ६१ ॥
शिरो रात्रौ दिवा स्नानं युक्तिरेषा प्रशस्यते ।

५.] रस रत्नाकरस्य रसायनखण्डः । ५५
केशशुक्लीकरणयोगाः ।
वज्रीक्षीरेण सप्ताहं भावयेदभयाफलम् ।
तच्चूर्णयुक्ततैलस्य लेपाच्छुक्ला भवन्ति हि ॥ ६२ ॥
केशाश्च सर्वरोमाणि शङ्खवर्णा भवन्ति वै ।
सप्ताहं वज्रदुग्धेन सुश्वेतान् भावयेत्तिलान् ॥ ६३ ॥
तेभ्यस्तैलं गृहीत्वा तल्लेपाच्छुक्ला भवन्ति वै ।
गौरामलकचूर्णं तु वज्रीक्षीरेण सप्तधा ॥ ६४ ॥
भावयेत्तेन लेपेन शुक्लतां यान्ति मूर्धजाः ।
सिन्दूरं स्फटिकां श्वेतां जलेन सह लेपयेत् ॥ ६५ ॥
तल्लेपेन तु रोमाणि सुशुक्लानि भवन्ति हि ।
मासैकं मागधीचूर्णं वज्रीक्षीरेण भावयेत् ॥ ६६ ॥
नराश्वगजवाजीनां शुक्लीकरणमुत्तमम् ।
इन्द्रगोपं तैलिनी च तालकं रजनीद्वयम् ॥ ६७ ॥
मनःशिला च तुल्यांशं चूर्णं स्नुकूपयसा त्र्यहम् ।
भावयेदर्कजैः क्षीरैस्त्रिदिनं चातपे खरे ॥ ६८ ॥
ततः कूष्माण्डजैर्द्रवैर्भावयेद्दिनसप्तकम् ।
कूष्माण्डस्य ततो गर्भे क्षित्वा मासात्समुद्धरेत् ॥ ६९ ॥
तैलेन सर्वरोमाणि केशान् संलेपयेत्त्र्यहम् ।
वेष्टयेदर्कजैः पत्रैः शुक्लवर्णा भवन्ति च ॥ ७० ॥
स्नाने कृते शुष्ककचेषु रात्रौ लेपे कृते पूर्वदलैस्तु वेष्टयम् ।
दध्ना तिलैः स्नानमतः प्रभाते कुर्यात्त्र्यहं लेपनमित्थमेव ॥७१॥
इति पार्वतीपुत्रश्रीनित्यनाथसिद्धविरचिते रसरत्नाकरे रसायनखण्डे
उद्वर्तनकेशरञ्जनाधिकारो नाम पञ्चमोपदेशः ।

५६ आयुर्वेदीयग्रन्थमाला । [उपदेशः
अथ षष्ठोपदेशः ।
येषां रामा रमणकुशला रागसक्ताः प्रगल्भाः
कामासक्ता हरिणनयनाश्चन्द्रबिम्बाननाश्च ।
तेषां वक्ष्ये मदनसुखदां वीर्यवृद्धिं प्रभूतां
मेत्ताः सिद्धाः शतमपि दृढास्तादृशास्तोषयन्ति ॥ १
वाजीकरो मकरध्वजरसः ।
वज्रहेमार्कसृताभ्रलोहभस्म क्रमोत्तरम् ।
सर्वं कन्याद्रवैर्मर्द्यं शाल्मल्याश्च द्रवैस्त्र्यहम् ॥ २ ॥
तद्रुद्धा काचकुप्यन्तर्वालुकायां त्र्यहं पचेत् ।
तत्कल्कं मुशलीक्वाथैर्वज्रार्कक्षीरसंयुतैः ॥ ३ ॥
दिनैकं मर्दयेत्खल्वे रुद्ध्वाऽन्तर्भूधरे पुटेत् ।
यामादुद्धृत्य संचूर्ण्य सिताकृष्णात्रिजातकैः ॥ ४ ॥ २
समैः समं विमिश्र्याथ माषैकं भक्षयेत्सदा ।
मागधी मुशली यष्टी वानरीबीजकं समम् ॥ ५ ॥
चूर्णं सिताज्यगोक्षीरैः पलार्धं पाययेदनु ।
कामिनीनां सहस्रैकं रममाणो न मुह्यति ।
सेवनाद्दृढकायः स्याद्रसोऽयं मकरध्वजः ॥ ६ ॥
वाजीकरो मनोदयरसः ।
शुद्धसूतं समं गन्धं रक्तोत्पलदलद्रवैः ।
यामं मर्द्यं पुनर्गन्धं सार्धं तत्र विनिक्षिपेत् ॥ ७ ॥
पूर्वद्रवैर्दिनं मर्द्यं रसार्धं गन्धकं पुनः ।
दत्त्वा तद्दिनं मर्द्यं काचकूप्यां निरोधयेत् ॥ ८ ॥
दिनैकं वालुकायन्त्रे पक्वमुद्धृत्य चूर्णयेत् ।
भूकूष्माण्डीकषायेण भावयेद्दिनसप्तकम् ॥ ९ ॥
१ 'यस्यां सिद्धौ शतमपि वनितास्तादृशास्तोषयन्ति' ख. । २ 'द्विदिनं' ख. ।