रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 50, कुल 94 में से
संदर्भ में पढ़ें४.] रसरत्नाकरस्य रसायनखण्डः । ५३
श्वेतपालाशकल्पः ।
श्वेतपालाशपञ्चाङ्गं चूर्णितं मधुना सह ।
कर्षैकं भक्षयेन्नित्यं मासान्मृत्युजरापहम् ॥ ६० ॥
ब्रह्मायुर्जायते सिद्धो वर्षमात्रान्न संशयः ।
अजाघृतेन तद्बीजमेकैकं भक्षयेत्सदा ॥ ६१ ॥
शरीरं भस्मना मर्द्य मासान्मृत्युजरां जयेत् ।
जीवेद्ब्रह्मदिनं यावद्दिव्यकायो भवेन्नरः ॥ ६२ ॥
अन्ये योगा यथा रक्ते ब्रह्मवृक्षे च ये गुणाः ।
तथैव श्वेतपालाशे भवेयुः साधकस्य वै ॥ ६३ ॥
'अमृतं कुरु कुरु अमृतमालिन्यै नमः ॥' अनेन मन्त्रेण
सर्वयोगाः सप्ताभिमन्त्रिता भक्षणीयाः ।
मुण्डीकल्पः ।
शुक्लपक्षेऽथ पूर्णायां पुष्ये वा श्रवणे तथा ।
रेवत्यां वाऽथ संपूज्य मुण्डीपञ्चाङ्गमुद्धरेत् ॥ ६४ ॥
छायाशुष्कं तु तच्चूर्णं कर्षं गोपयसा सह ।
वर्षैकेन जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ ६५ ॥
तस्य मूत्रपुरीषाभ्यां ताम्रं सौवर्णतां व्रजेत् ।
तच्चूर्णं तु घृतैस्तैलैर्हं तद्वत्स्याद्वलमद्भुतम् ॥ ६६ ॥
'ॐ नमोऽमृतोद्भवाय अमृतं कुरु कुरु स्वाहा ओं ह्रां स