रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 59, कुल 94 में से
संदर्भ में पढ़ें५२ आयुर्वेदीयग्रन्थमाला । [उपदेशः
लोहचूर्णं समं पिष्ट्वा तल्लेपं केशरञ्जनम् ।
केशरञ्जनार्थं चूर्णादियोगः ।
चूर्णं सिन्दूरमङ्गारं कदलीकन्दसंयुतम् ॥ ३० ॥
लोहपात्रे लोहमुष्ट्या मर्द्यं जम्बीरजैर्द्रवैः ।
दिनैकं च ततो लेप्यं केशानां रञ्जनं भवेत् ॥ ३१ ॥
केशरञ्जनार्थं कुरण्टकपत्रादियोगः ।
कुरण्टकस्य पत्राणि नागमुष्ट्या विमर्दयेत् ।
तल्लेपं त्रिदिनं कुर्याज्जायते केशरञ्जनम् ॥ ३२ ॥
केशरञ्जनार्थमाम्रास्थ्यादियोगः ।
आम्रास्थि त्रिफला भृङ्गी प्रियङ्गुर्मातुलुङ्गकम् ।
निशा नीली मृणालानि नागं लोहं च चूर्णितम् ॥ ३३॥
समं कल्कं कान्तपात्रे निम्बतैलेन भावयेत् ।
मासमात्रं ततस्तेन लेपाद्भवति रञ्जनम् ॥ ३४ ॥
केशरञ्जनार्थे काकमाच्यादियोगः ।
काकमाचीयबीजानि समाः कृष्णतिलास्तथा ।
तत्तैलं ग्राहयेद्यन्त्रे तन्नस्यं केशरञ्जनम् ॥ ३५ ॥
केशरञ्जनं घृतम् ।
गोघृतं भृङ्गजं द्रावं मयूरशिखया सह ।
मृद्वग्निना पचेत्तेन स्यान्नस्यं केशरञ्जनम् ॥ ३६ ॥
केशरञ्जनार्थं जपापुष्परसनस्यम् ।
जपापुष्पद्रवं क्षौद्रं कर्षैकं नस्यमाचरेत् ।
सप्ताहाद्रञ्जयेत्केशान् सर्वनस्येष्वयं विधिः ॥ ३७ ॥
केशरञ्जनार्थं त्रिफलादितैलम् ।
त्रिफला लोहचूर्णं तु वारिणा पेषयेत्समम् ।
तत्तुल्येन च तैलेन भृङ्गराजरसेन च ॥ ३८ ॥
पचेत्तैलावशेषं तत्स्निग्धभाण्डे निरोधयेत् ।
मासैकं भूगतं कुर्यात्तेन शीर्षं प्रलेपयेत् ॥ ३९ ॥