सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

रसरत्नाकरस्य रसायनखण्डः । २३
अर्कप्रभावती गुटिका ।
रसनिष्कत्रयं शुद्धं निष्कैकं ताम्रचूर्णकम् ।
चिञ्चाफलाम्लतक्राभ्यां खल्वे मर्द्य दिनावधि ॥ ४५ ॥
तद्गोलं बन्धयेद्वस्त्रैस्तक्रचिञ्चाम्लपूरिते ।
दोलायन्त्रे दिनं पच्याद्गुटिकाऽर्कप्रभावती ॥ ४६ ॥
वर्षैकं धारयेद्वक्त्रे सूर्यतुल्यो भवेन्नरः ।
पालाशबीजजं तैलं गोक्षीरैः कर्षमात्रकम् ॥ ४७ ॥
क्रामकं ह्यनुपानं स्याज्जरामृत्युहरं परम् ।
सुरसुन्दरी वटिका ।
स्वर्णमेकं कान्तमेकं पश्चतारं द्विपारदम् ॥ ४८ ॥
त्रिभागं व्योमसत्त्वं स्यात् षड्भागं शुल्वचूर्णकम् ।
सर्वमेतत्कृतं सूक्ष्मं तप्तखल्वे दिनत्रयम् ॥ ४९ ॥
मर्दयेदम्लवर्गेण दोलायन्त्रे सकाञ्जिके ।
तद्गोलं त्रिदिनं पच्याद्गुटिका सुरसुन्दरी ॥ ५० ॥
जायते धारिता वक्त्रे वर्षान्मृत्युजरापहा ।
भूतारवटमूलं च कर्षं क्षीरैः पिबेदनु ॥ ५१ ॥
वज्रतुण्डवटिका ।
स्वर्णतारार्कमुण्डं च वङ्गसीसाभ्रसत्त्वकम् ।
एतत्सर्वं समं चूर्ण चूर्णांशं मृतवज्रकम् ॥ ५२ ॥
सर्वतुल्यं शुद्धसूतं सर्वं दिव्यौषधिद्रवैः ।
मर्दयेद्दिनमेकं तु वज्रमूषानिधतं धमेत् ॥ ५३ ॥
गुटिका वज्रतुण्डेयं जायते धारिता मुखे ।
जरामृत्युं शस्त्रसंघं नाशयेद्वत्सरात्किल ॥ ५४ ॥
वज्रकायो महावीरो जीवेद्वर्षशतत्रयम् ।
कुमार्याः स्वरसं ग्राह्यं गुडेन सह लोडयेत् ॥ ५५ ॥
'भूतावरटमूलं' ख.

२४ आयुर्वैदीयग्रन्थमाला । [उपदेशः
पलैकं क्रामकं लेह्यमनुपानं सदैव हि ।
कामसुन्दरीगुटिका ।
स्वर्णचूर्णं तु भागैकं त्रिभागं शुद्धपारदम् ॥ ५६ ॥
पादभागं मृतं वज्रं तत्सर्वं क्षीरकन्दजैः ।
द्रवैश्च देवदाल्युत्थैस्तप्तखल्वे दिनावधि ५७ ॥
मर्दयेत्कान्तचूर्णं च वज्रतुल्यं क्षिपेच्च वै ।
वज्रमूषान्धितं धाम्यं गुटिका कामसुन्दरी ॥ ५८ ॥
जायते धारिता वक्त्रे वर्षान्मृत्युजरापहा ।
निष्कत्रयं ब्रह्मतैलं गवां क्षीरं पलद्वयम् ॥ ५९ ॥
मिश्रितं पाययेच्चानु लक्षायुर्जायते नरः ।
गान्धारीगुटिका ।
लोहपात्रे द्रुते गन्धे पादांशं पारदं क्षिपेत् ॥ ६० ॥
किंचिच्चाल्यं तु काष्ठेन मुहूर्तादवतारयेत् ।
शतावरी क्षीरकन्दो वज्रवल्लीन्द्रवारुणी ॥ ६१ ॥
पाठा पुनर्नवा चिञ्चा लाङ्गली सुरदालिका ।
एतासां वस्त्रपूतैश्च द्रवैर्मर्घ्यं दिनत्रयम् ॥ ६२ ॥
तस्मिन् पात्रे लोहमुष्ट्या छायांशुष्कं वटीकृतम् ।
लोहसंपुटगं रुद्धा संधिं मृल्लवणैर्दृढम् ॥ ६३ ॥
तं धमेत्खदिराङ्गारैर्यावदारक्तमुद्धरेत् ।
उत्खन्योत्खन्य तन्मध्यादुद्धरेच्चद्रसं पुनः ॥ ६४ ॥
काचटङ्कणसंयुक्तं मूषायां चान्धितं पचेत् ।
गान्धारीगुटिका सिद्धा वर्षे वक्त्रे स्थिता सदा ॥६५॥
काकतुण्डीबीजतैलं कर्षैकं नस्यमाचरेत् ।
क्रामकं ह्यनुपानं स्याज्जीवेद्वर्षसहस्रकम् ॥ ६६ ॥
मातङ्गी गुटिका ।
शुद्धसूतसमं गन्धं मर्दनात्कजलीकृतम् ।
१ 'शुष्कं तं च विचूर्णयेत्' ख.

३.] रसरत्नाकरस्य रसायनखण्डः । २५
तत्ताम्रसंपुटे रुद्ध्वा लवणेन मृदा दृढम् ॥ ६७ ॥
शुष्कं दीपाग्निना पच्याद्यामैकं भस्मयन्त्रके ॥ ६८ ॥
संपुटस्योर्ध्वलग्नं तत्समुद्धृत्याथ मर्दयेत् ।
तुल्यपारदसंयुक्तं पूर्ववत्संुपुटे पचेत् ॥ ६९ ॥
उद्धृत्य तुल्यमृतेन संयुक्तं मर्दितं पचेत् ।
इत्येवं सप्तधा कुर्यात्पुनः पारदटङ्कणम् ॥ ७० ॥
तुल्यं तुल्यं क्षिपेत्तस्मिन् दिनं सर्वं विमर्दयेत् ।
वज्रमूषागतं रुद्ध्वा धमाते खोटो भवेद्रसः ॥ ७१ ॥
मार्तण्डी गुटिका ह्येषा वर्षैकं यस्य वक्त्रगा ।
वलीपलितमुक्तोऽसौ जीवेदाचन्द्रतारकम् ॥ ७२ ॥
पलाशबीजजं तैलं पलैकं क्षीरतुल्यकम् ।
क्रामणं प्रपिबेन्नित्यं तत्क्षणान्मूर्च्छितो भवेत् ॥ ७३ ॥
तस्य वक्त्रे गवां क्षीरं स्तोकं स्तोकं निषेचयेत् ।
प्रबुद्धे क्षीरमन्नं स्याद्भोजने परमं हितम् ॥ ७४ ॥
तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् ।
वायुवेगो महासिद्धश्छिद्रां पश्यति मेदिनीम् ॥ ७५ ॥
तारकेश्वरीगुटिका ।
काकमाच्यमृताद्रावैः पारदं तालकं समम् ।
मर्दयेद्दिनमेकं तु कृत्वा गोलं विशोषयेत् ॥ ७६ ॥
निक्षिपेद्वज्रमूषायामाच्छाद्य लोहैःपर्पटैः ।
रुद्ध्वा सन्धिं धमेद्गाढं खोटबद्धो भवेद्रसः ॥ ७७ ॥
लोहपर्पटकं दत्त्वा तद्वद्धाम्यं त्रिधा पुनः ।
वर्षैकं धारयेद्वक्त्रे गुटिका तारकेश्वरी ॥ ७८ ॥
बाकुचीबीजकर्षैकं गवां क्षीरैः पिबेदनु ।
'दीप्ताग्निना' ख.। २ 'बद्धो' ख.। ३ 'पर्पटीरसैः' ख।
३

२६ आयुर्वेदीयग्रन्थमाला । [ उपदेशः
विद्यावागीश्वरी गुटिका ।
व्योमसत्त्वं मृतं वज्रं स्वर्णतारार्कमुण्डकम् ॥ ७९ ॥
तीक्ष्णं कान्तं तालकं च शुद्धं कृत्वा विमिश्रयेत् ।
सूक्ष्मचूर्णं समं सर्वं चूर्णांशं शुद्धपारदम् ॥ ८० ॥
त्रिदिनं चाम्लवर्गेण मर्दितं चान्धितं धमेत् ।
विद्यावागीश्वरी ख्याता गुटिका वत्सरावधि ॥ ८१ ॥
यस्य वक्त्रे स्थिता तस्य जरा मृत्युर्न विद्यते ।
कर्षं ज्योतिष्मतीतैलं क्रामणार्थं पिबेत्सदा ॥ ८२ ॥
वाक्पतिर्जायते धीरो जीवेच्चन्द्रार्कतारकम् ।
वज्रतुण्डवाटिका ।
कान्तपाषाणमाक्षीकं टङ्कणं कर्कटास्थि च ॥ ८३ ॥
स्नुह्यर्कक्षीरभूनागं सर्वमेतत्समं भवेत् ।
स्त्रीस्तन्येन दिनं मर्द्यं तेन मूषां प्रलेपयेत् ॥ ८४ ॥
तन्मध्ये द्रुतसूतं १ तु वज्रभस्म समं समम् ।
क्षिप्त्वा रुद्ध्वा पुटे पच्याद्गजाख्ये याममात्रकम् ॥ ८५ ॥
ततः प्रलिप्तमूषायां क्षिप्त्वा रुद्ध्वा धमेद्दृढात् ।
एवं पुनः पुनः कार्यं वज्रसूतं मिलत्यलम् ॥ ८६ ॥
ततस्तस्यैव दातव्यं समं काचं सटङ्कणम् ।
एवं मूषाशते देयं तुल्यं तुल्यं धमन् धमन् ॥ ८७ ॥
तेजःपुञ्जो रसेन्द्रोऽसौ भवेन्मार्तण्डसंनिभः ।
गुटिका वज्रतुण्डेयं वक्त्रस्था मृत्युनाशिनी ॥ ८८ ॥
वर्षमात्रान्न संदेहो रुद्रतुल्यो भवेन्नरः ।
तस्य मूत्रपुरीषाभ्यां पूर्ववत्काञ्चनं भवेत् ॥ ८९ ॥
पञ्चाङ्गं भक्षयेत्कर्षं रुदन्त्या मधुसर्पिषा ।
गगनेश्वरीगुटिका ।
टङ्कणं कर्कटास्थीनि ऊर्णा चैव शिलाजतु ॥ ९० ॥
१ 'शुद्धसूतं' ख ।

३.] रसरत्नाकरस्य रसायनखण्डः । २७
महिषीकर्णनेत्रोत्थं मलं स्त्रीस्तन्यकैः समम् ।
पिष्ट्वा तल्लिप्तमूषायामभ्रसत्त्वं क्षिपेद्धमेत् ॥ ९१ ॥
सत्त्वतुल्यं क्षिपेत्तत्र पूर्ववद्द्रुतपारदम्¹ ।
द्रवं दिव्यौषधीनां च दत्त्वा तत्रैव तद्धमेत् ॥ ९२ ॥
मिलितो जायते बद्धः पूर्ववत्काचटङ्गणैः ।
ध्मातो मूषाशतेनायं तेजःपुञ्जो भवेद्रसः ॥९३ ॥
वर्षैकं धारयेद्वक्रे शिवतुल्यो भवेन्नरः ।
अजरामरकारीयं गुटिका गगनेश्वरी ॥ ९४ ॥
बिल्वबीजोत्थितं तैलं निष्कमात्रं पिबेदनु ।
उदरे जायते वह्निः पिबेत्क्षीरं पुनः पुनः ॥ ९५ ॥
साक्षाज्जातिस्मरत्वं च कवित्वं श्रुतधारणम् ।
खेचरत्वमदृश्यत्वं जायते नात्र संशयः ॥ ९६ ॥
आनन्दगुटिका ।
अग्निमन्थो वज्रवल्ली सूरणं वनसूरणम् ।
चित्रकश्च द्रवैरेषां शुद्धमृतं दिनावधि ॥ ९७ ॥
मर्दयेत्तप्तखल्वे तु तं रसं पलमात्रकम् ।
पलं पलं तालवङ्गौ तत्सर्वं चाम्लवेतसैः ॥ ९८ ॥
मर्दयेद्दिनमेकं तु कृत्वा तं गोलकं पुनः ।
चतुःपलां नागमूषां कृत्वा तस्यां तु तत्क्षिपेत् ॥ ९९॥
चतुष्पले शुद्धताम्रसंपुटे तां निरोधयेत् ।
मृण्मूषायां तु तां रुद्ध्वाऽरण्योत्पलकैः पुटेत् ॥१००॥
शतद्वयप्रमाणैस्तु स्वाङ्गशीतं समुद्धरेत् ।
सर्वं दिव्यौषधद्रावैर्मर्दयेद्दिवसत्रयम् ॥ १०१ ॥
चतुर्निष्कमिता कार्या वटिका, शोषयेत्ततः ।
एकैकां वज्रमूषायां रुद्ध्वा तीव्राग्निना धमेत् ॥ १०२ ॥
१ ‘पूर्ववच्छुद्धपारदम्’ ख. ।

२८ आयुर्वेदियग्रन्थमाला । [ उपदेशः
आनन्दगुटिका ह्येषा वक्त्रस्था मृत्युनाशिनी ।
वत्सरान्नात्र संदेहो जीवेद्ब्रह्मदिनत्रयम् ॥ १०३ ॥
तैलं वातारिबीजोत्थं गोक्षीरैर्निष्कमात्राकम् ।
क्रामणार्थं पिबेन्नित्यं शीघ्रसिद्धिकरं परम् ॥ १०४ ॥
वज्रखेचरिकावटिका ।
वज्रभस्मसमं सूतं हंसपाद्या द्रवैर्यहम् ।
मर्दितं द्वन्द्वमूषायां लिप्तायां चान्वितं पुटेत् ॥ १०५ ॥
भूधराख्ये दिवारात्रौ समुद्धृत्याथ तस्य वै ।
पूर्वांशं पारदं दत्त्वा हंसपाद्या द्रवैरुयहम् ॥ १०६ ॥
मर्दितं द्वन्द्वलिप्तायां मूषायां चान्वितं धमेत् ।
तत्खोटं धमनाच्छोध्यं काचटङ्कणयोगतः ॥ १०७ ॥
नक्षत्राभं भवेद्यावत्तावद्धाम्यं पुनः पुनः ।
तद्रसं व्योमसत्त्वं च काञ्चनं च

२. द्वितीय उपदेश: महारस, उपरस, गन्धक-जारण एवं स्वर्ण-रजत भस्म कल्प

३.] रसरत्नाकरस्य रसायनखण्डः । २९
वेष्टयेद्भूर्जपत्रेण वस्त्रे बद्ध्वा पचेत्र्यहम् ।
दोलायन्त्रे सारनाले जातं गोलं समुद्धरेत् ॥ ११५ ॥
गान्धारी जीवनी चैव लाङ्गली चेन्द्रवारुणी ।
एतासां पिण्डकल्केन वेष्टयेत्पूर्वगोलकम् ॥ ११६ ॥
अन्धयित्वा दिनं पच्याद्भूधरे तं समुद्धरेत् ।
पुनर्लेप्यं पुनः पाच्यं चतुर्दशदिनावधि ॥ ११७ ॥
गुटिका जायते दिव्या नाम्ना रत्नेश्वरी तथा ।
वक्रस्था वर्षमात्रं तु नन्दितुल्यो भवेन्नरः ॥ ११८ ॥
जीवेद्वर्षसहस्राणि दिव्यतेजा महाबलः ।
वर्षद्वादशपर्यन्तं यस्य वक्रे स्थिता तु सा ॥ ११९ ॥
तस्य प्रस्वेदसंपर्कादष्टलोहानि काञ्चनम् ।
जायन्ते नात्र संदेहः सत्यमीश्वरभाषितम् ॥ १२० ॥
पञ्चाङ्गचूर्णं मध्वाज्यै रुदन्त्युत्थं लिहेदनु ।
दिव्यखेचरीवटिका ।
स्वर्णं कृष्णाभ्रसत्त्वं च तारं ताम्रं सुचूर्णितम् ॥ १२१ ॥
समांशं द्वन्द्वलिप्तायां मूषायां चान्धितं धमेत् ।
तत्खोटं भागचत्वारि भागैकं मृतवज्रकम् ॥ १२२ ॥
माक्षिकं तीक्ष्णकान्तं च भागैकैकं सुचूर्णितम् ।
समस्तं द्वन्द्वलिप्तायां मूषायां चान्धितं धमेत् ॥ १२३ ॥
तत्खोटं सूक्ष्मचूर्णं तु चूर्णांशं द्रुतसूतकम् ।
त्रिदिनं तप्तखल्वे तु मर्द्यं दिव्यौषधिद्रवैः ॥ १२४ ॥
रुद्ध्वाऽथ भूधरे पच्यादहोरात्रात्समुद्धरेत् ।
द्रुतसूतं पुनस्तुल्यं दत्त्वा मर्द्य पुटेत्तथा ॥ १२५ ॥
इत्येवं सप्तवारांस्तु द्रुतं सूतं समं समम् ।
दत्त्वा मर्द्य पुटे पच्याज्जायते भस्मसूतकः ॥ १२६ ॥
भस्मसूतसमं गन्धं दत्त्वा रुद्ध्वा धमेद्दृढम् ।
जायते गुटिका दिव्या विख्याता दिव्यखेचरी ॥ १२७ ॥

३० आयुर्वेदीयग्रन्थमाला । [उपदेशः
वर्षैकं धारयेद्वक्त्रे जीवेत्कल्पसहस्रकम् ।
तस्य मूत्रपुरीषाभ्यां सर्वलोहस्य लेपनात् ॥ १२८ ॥
जायते कनकं दिव्यं समावर्ते न संशयः ।
पलद्वयं भृङ्गराजद्रवं चानु पिबेत्सदा ॥ १२९ ॥
पूर्वोक्तं भस्मसूतं वा गुञ्जामात्रं सदा लिहेत् ।
वर्षैकं मधुनाऽऽज्येन लक्षायुर्जायते नरः ॥ १३० ॥
वलीपलितनिर्मुक्तो महाबलपराक्रमः ।
स्वर्णवैक्रान्तबद्धरसः ।
स्वर्णं वैक्रान्तसत्त्वं च द्वन्द्वितं जारयेद्रसे ॥ १३१ ॥
समांशं तु भवेद्यावत्तस्तेनैव सारयेत् ।
समेन जायते बद्धो धारयेत्तं मुखे सदा ॥ १३२ ॥
संवत्सरप्रयोगेण जराकालापमृत्युजित् ।
कुमार्या दलजं द्रावं सितायुक्तं पिबेदनु ॥ १३३ ॥
स्वर्णवैक्रान्तबद्धोऽयं ब्रह्मायुर्यच्छते नृणाम् ।
वैक्रान्तवटिका ।
वैक्रान्तसत्त्वतुल्यांशं शुद्धसूतं विमर्दयेत् ॥ १३४ ॥
दिनं दिव्यौषधद्रावैस्तद्गोलं निगडेन वै ।
लिप्त्वा लवणगर्भायां वज्रमूष्यां निरोधयेत् ॥ १३५ ॥
छायायां शोषयेत्सन्धिं त्रिदिनं तुषवह्निना ।
स्वेदयेद्वा करीषाग्नौ दिवारात्रमथोद्धरेत् ॥ १३६ ॥
तद्गोलं निगडेनैव लिप्त्वा तद्वन्निरुध्य च ।
छायाशुष्कं धमेद्गाढं बन्धमायाति निश्चितम् ॥१३७॥
वर्षैकं धारयेद्वक्त्रे जीवेद्ब्रह्मदिनत्रयम् ।
वैक्रान्तगुटिका ह्येषा सर्वकामफलप्रदा ॥ १३८ ॥
कर्षैकं त्रिफलाचूर्णं मध्वाज्याभ्यां लिहेदनु ।
१ 'जारयेत्' ख. ।

३.] रसरत्नाकरस्य रसायनखण्डः । ३१
दिव्यखेचरीगुटिका ।
हेम्ना यद्वन्दितं वज्रं कुर्यात्तत्सूक्ष्मचूर्णितम् ॥ १३९ ॥
एतद्देयं गुहामृते मूषायामधरोत्तरम् ।
पादमात्रं प्रयत्नेन रुद्ध्वा सन्धिं विशोषयेत् ॥ १४० ॥
भूधराख्ये दिनं पच्यात्समुद्धृत्याथ मर्दयेत् ।
दिव्यौषधफलद्रावैस्तप्तखल्वे दिनावधि ॥ १४१ ॥
रुद्ध्वाऽथ भूधरे पच्याद्दिनं लघुपुटैः पुटेत् ।
समुद्धृत्य पुनस्तद्वन्मर्द्यं रुद्ध्वा दिनत्रयम् ॥ १४२ ॥
तुषाग्निना शनैः स्वेद्यमूर्ध्वाधः परिवर्तयन् ।
जायते भस्ममूतोऽयं सर्वयोगेषु योजयेत् ॥ १४३ ॥
द्रुतमूतस्य भागैकं भागैकं पूर्वभस्मकम् ।
शुद्धनागस्य भागैकं सर्वमम्लेन मर्दयेत् ॥ १४४ ॥
अन्धमूषागतं धाम्यं खोटो भवति तद्रसः ।
धमेत्प्रकटमूषायां यावन्नागक्षयो भवेत् ॥ १४५ ॥
द्रुतमूतप्रकारेण द्रावयित्वा त्विमं रसम् ।
निक्षिपेत्कच्छपे यन्त्रे विडं दत्त्वा दशांशतः ॥ १४६ ॥
स्वर्णादिसर्वलोहानि क्रमेणैव च जारयेत् ।
प्रत्येकं षड्गुणं पश्चाद्वज्रद्वन्द्वं च जारयेत् ॥ १४७ ॥
त्रिगुणं तु भवेद्यावत्ततो रत्नानि वै क्रमात् ।
जारयेद्रावितान्येव प्रत्येकं त्रिगुणं शनैः ॥ १४८ ॥
ततो यन्त्रात्समुद्धृत्य दिव्यौषधद्रवैर्दिनम् ।
मर्द्यं रुद्ध्वा धमेद्गाढं जायते गुटिका शुभा ॥ १४९ ॥
पूजयेदङ्कुशीमन्त्रैर्नाम्नेयं दिव्यखेचरी ।
यस्य वक्रे स्थिता ह्येषा स भवेद्भैरवोपमः ॥ १५० ॥
दिव्यतेजा महाकायः खेचरत्वेन गच्छति ।
यत्रेच्छा तत्र तत्रैव क्रीडते ह्यङ्गनादिभिः ॥ १५१ ॥

३२ आयुर्वेदियग्रन्थमाला । [उपदेशः
महाकल्पान्तपर्यन्तं तिष्ठत्येव न संशयः ।
तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् ॥ १५२ ॥
पलाशपुष्पचूर्णं तु तिलाः कृष्णाः सशर्कराः ।
सर्वं पलत्रयं खादेन्नित्यं स्यात् क्रामणे हितम् ॥ १५३॥
प्रचण्डखेचरीगुटिका ।
चूर्णमश्वखुरस्यैव गुह्यसूते समं क्षिपेत् ।
त्रिदिनं मातुलुङ्गाम्लैस्तत्सर्वं मर्दयेद्दृढम् ॥ १५४ ॥
सूततुल्यं मृतं वज्रं तस्मिन् क्षिप्त्वाऽथ मर्दयेत् ।
तप्तखल्वे दिनं चाम्लैस्तद्गोलं चान्वितं पुटेत् ॥ १५५ ॥
दिनैकं भूधरे यन्त्रे भागैकं पूर्वपारदम् ।
क्षिप्त्वा तस्मिन् दृढं मर्द्यं मातुलुङ्गरद्रवैर्दिनम् ॥ १५६ ॥
रुद्धाऽथ पूर्ववत्पच्यात्पुनर्देयश्च पारदः ।
मर्द्यं पाच्यं यथापूर्वमेवं कुर्याच्च सप्तधा ॥ १५७ ॥
रसं पुनः पुनर्दत्त्वा स्यादेवं भस्मसूतकः ।
योजयेत्सर्वयोगेषु जरामृत्युहरो भवेत् ॥ १५८ ॥
भागैकं नागचूर्णस्य भागैकं पूर्वभस्मनः ।
द्रुतसूतस्य भागैकं खोटं कुर्याच्च पूर्ववत् ॥ १५९ ॥
तद्वद्भागं गते नागे द्रावितं जारयेत्पुनः ।
पूर्ववल्लोहरत्नान्तं जीर्णे बद्धा स्थिता मुखे ॥ १६० ॥
प्रचण्डखेचरी नाम्नी गुटिका खे गतिप्रदा ।
पूर्ववल्लभते वीरः फलमत्यन्तदुर्लभम् ॥ १६१ ॥
निर्गुण्डीमूलचूर्णं तु कर्षं तक्रैः पिबेदनु ।
कङ्कालखेचरीगुटिका ।
शुद्धसूतस्य दातव्यं कलांशं मृतवज्रकम् ॥ १६२ ॥
तत्सर्वमम्लवर्गेण तप्तखल्वे दिनत्रयम् ।
मर्दयित्वा ततस्तेन लेपयेत्समभागतः ॥ १६३ ॥
१ 'जारितं द्रावयेत्पुनः' ख. ।

३.] रसरत्नाकरस्य रसायनखण्डः । ३३
पक्वबीजस्य पत्राणि तानि भानुदलैः पुनः ।
वेष्टितानि निरुध्याथ निखनेच्चुल्लिगर्भतः ॥ १६४ ॥
आच्छाद्य ज्वालयेत्तत्र काष्ठाग्निं दिवसत्रयम् ।
उद्धृत्य द्वन्द्वलिप्तायां मूषायां तं निरोधयेत् ॥ १६५ ॥
करीषाग्नौ पुटे पच्यादहोरात्रात्समुद्धरेत् ।
वासनामुखिते सूते तुल्यमेतद्विनिक्षिपेत् ॥ १६६ ॥
अम्लेन मर्दयेद्यामं जातं गोलं समुद्धरेत् ।
क्षिपेज्जम्बीरगर्भे तं वस्त्रे बद्ध्वा त्र्यहं पचेत् ॥ १६७ ॥
दोलायन्त्रे सारनाले जायते गुटिका शुभा ।
कङ्कालखेचरी नाम्ना वक्त्रस्था मृत्युनाशिनी ॥ १६८ ॥
वर्षैकं धारयेद्यस्तु स जीवेद्ब्रह्मणो दिनम् ।
गन्धकं गुग्गुलुं तुल्यमाज्यैः कर्षं लिहेदनु ॥ १६९ ॥
कालविध्वंसिका वटिका ।
कृष्णाभ्रकस्य सत्त्वं तु कान्तमाक्षीककाञ्चनम् ।
तीक्ष्णं सौवीरचूर्णं च तुल्यं रुद्ध्वा धमेदृढम् ॥ १७० ॥
तत्खोटं सूक्ष्मचूर्णं तु द्रुतसूतसमं भवेत् ।
सूतार्धं मारितं वज्रं सर्वमम्लेन मर्दयेत् ॥ १७१ ॥
दिनैकं तप्तखल्वे तु तं रुद्ध्वा भूधरे पचेत् ।
अहोरात्रात्समुद्धृत्य तत्समं पूर्वसूतकम् ॥ १७२ ॥
दत्त्वा दिव्यौषधद्रावैर्मर्द्यं सर्वे दिनावधि ।
पूर्ववद्भूधरे पच्याद्द्रुतसूतं पुनः समम् ॥ १७३ ॥
दत्त्वा मर्द्यं पुनः पच्यादित्येवं सप्तवारकम् ।
एतद्द्रससमं गन्धं दत्त्वा चान्ध्यं धमेदृढम् ॥ १७४ ॥
जायते गुटिका दिव्या कालविध्वंसिका परा ।
यस्य वक्रे स्थिता ह्येषा तस्य कालः करोति किम् १७५
वर्षषट्कप्रयोगेण जीवेत्कल्पसहस्रकम् ।
तद्गात्रस्वेदमात्रेण सर्वलोहानि काञ्चनम् ॥ १७६ ॥

३४ आयुर्वेदीयग्रन्थमाला । [उपदेशः
जायन्ते नात्र संदेहः शिवाम्बु क्रामकं पिबेत् ।
पञ्चानना गुटिका ।
स्वर्णतारार्ककान्तं च तीक्ष्णचूर्णं समं समम् ॥ १७७॥
द्वन्द्वमेलापलिप्तायां मूषायां चान्धितं धमेत् ।
तत्खोटं चूर्णितं कृत्वा चाभिषिक्तं तु पूर्ववत् ॥ १७८॥
समुखे जारयेत्स्रुते यावत्पञ्चगुणं क्रमात् ।
दिव्यौषधद्रवैस्तं वै मर्दयेद्दिवसत्रयम् ॥ १७९ ॥
अन्धमूषागतं ध्मातं जायते गुटिका शुभा ।
नाम्ना पञ्चानना धार्या वक्त्रे संवत्सरावधि ॥ १८० ॥
वलीपलितनिर्मुक्तो जीवेच्चन्द्रार्कतारकम् ।
हस्तिकर्णी समूला तु चूर्ण्या मध्वाज्यसंयुता ॥ १८१ ॥
स्निग्धभाण्डे तु तां रुद्ध्वा धान्यराशौ निवेशयेत् ।
त्रिसप्ताहात्समुद्धृत्य पलैकं भक्षयेदनु ॥ १८२ ॥
शतवेधिकादिगुटिकाः ।
ऋद्धिखण्डे तु यत्प्रोक्तं विविधं रसबन्धनम् ।
अत्र तस्यैव वक्ष्यामि देहवेधक्रमं २यथा ॥ १८३ ॥
जारितैर्बन्धितैस्तैस्तै रसराजैः पृथक्पृथक् ।
कारयेद्गुटिकां दिव्यां बदराण्डप्रमाणकाम् ॥ १८४ ॥
सा धार्या वत्सरं वक्त्रे स्वानुरूपफलप्रदा ।
गुटिका शतवेधी स्याद्युगायुष्यकरी नृणाम् ॥ १८५ ॥
सहस्रवेधी गुटिका अष्टकल्पान्तरक्षिका ।
लक्षवेधकरी या तु सा दत्ते विष्णुवड्डलम् ॥ १८६ ॥
वेधिका दशलक्षे या सा रुद्रपददायिनी ।
कोटिवेधकरी या सा ईश्वरत्वकरी नृणाम् ॥ १८७ ॥
वेधिका दशकोटीनां सा सदाख्यपदप्रदा ।
१ ऋद्धिखण्डे इति वादिखण्डे इत्यर्थः । २ ‘तथा’ ख.

३.] रसकलाकरस्य रसायनखण्डः । ३५
गुटिकाऽर्बुदवेधी या सा श्रीकण्ठपदप्रदा ॥ १८८ ॥
सम्यग्भवपदं दत्ते गुटिका शङ्खवेधिका ।
धूम्रवेधी तु या सिद्धा सा शक्तिपददायिनी ॥ १८९॥
पराशक्तिपदं दत्ते स्पर्शवेधकरी तु या।
शब्दवेधकरा या तु सा यस्य वत्सरावधि ॥ १९० ॥
वक्त्रे स्थिता स वै सिद्धो नित्यं नित्यपदं लभेत् ।
स्वेच्छाचारी वज्रकायो वज्रपातैर्न भिद्यते ॥ १९१ ॥
तस्य मूत्रपुरीषाभ्यां सर्वलोहानि काञ्चनम् ।
जायन्ते खेदसंपर्काद्गात्रसंस्पर्शनादपि ॥ १९२ ॥
सर्वेषामुक्तयोगानामनु स्याच्छुद्धगन्धकम् ।
पलार्धं भक्षयेन्नित्यं रससंक्रामणे हितम् ॥ १९३ ॥
१कालि कालि महाकालि मांसशोणितभोजिनि ।
रक्तकृष्णमुखे देवि रससिद्धिं ददस्व मे ॥१९४॥ स्वाहा
अनेन सिद्धमन्त्रेण शक्तिचक्रं प्रपूजयेत् ।
कालिकां भैरवं सिद्धान् कुमारीं साधितं रसम् ॥१९५
ततो रसायनं दिव्यं सेवयेत् सिद्धिमाप्नुयात् ।
गुटिकां धारयेद्वक्त्रे पूर्वमन्त्रं जपेत्सदा ॥ १९६ ॥
रसमन्त्रप्रयोगेण शीघ्रं सिद्धिमवाप्नुयात् ।
कालान्तरससिद्धिकरणप्रकारः ।
कालान्तरससिद्धिर्या प्रोक्ता मन्थानभैरवे ॥ १९७ ॥
तदर्थं पञ्च तत्त्वानि षष्ठं जीवं च साधयेत् ।
काकिन्याः पुष्पकाले तु सङ्गं कृत्वा समाहरेत् ॥ १९८
तद्योनिस्थं रजोबीजं गगनं तं विदुर्बुधाः ।
काकिन्युत्पन्नपुत्रस्य सद्योविद्वायुरुच्यते ॥ १९९ ॥
तेजस्तु काकिनीपुष्पं जलं तत्पुत्रशोणितम् ।
१ अस्याग्रे 'ऐं ह्रीं श्रीं श्रीं' इत्यधिकं ख. पुस्तके ।

३६ आयुर्वेदियग्रन्थमाला । [उपदेशः
काकिनीपुत्रसर्वाङ्गं पृथिवीतत्त्वमुच्यते ॥ २०० ॥
रससेवकदेहोत्थवीर्य जीवस्तु कथ्यते ।
तत्प्रत्येकं कोटिवेधं कर्षैकं रससंयुतम् ॥ २०१ ॥
कृत्वा संरक्षयेद्बिम्बं सुपिष्टं गोलकीकृतम् ।
उन्नतं पौरुषं यावद्विस्तारेण तदर्धकम् ॥ २०२ ॥
कुर्यात्ताम्रकटाहं तु स्थूलं यावत् षडङ्गुलम् ।
चतुर्मुखस्य कोष्ठस्य पृष्ठे धार्यं दृढं यथा ॥ २०३ ॥
गोघृतं नरतैलं च समभागेन मेलयेत् ।
तेनापूर्य कटाहं तं सिद्धचक्रं ततोऽर्चयेत् ॥ २०४ ॥
कुमारीगुरुदेवाग्नीन् भैरवं भैरवीयुतम् ।
तर्पयेद्बलिमांसेन क्षेत्रपालं च पूजयेत् ॥ २०५ ॥
धमनं तत्र कुर्वीत चतुर्दिक्षु शनैः शनैः ।
चतुर्भिर्वङ्कनालैश्च खदिराङ्गारयोगतः ॥ २०६ ॥
सुतप्तं फेननिर्मुक्तं निर्धूमं च यदा भवेत् ।
चन्द्रार्कग्रहनक्षत्रदेवताभुवनानि च ॥ २०७ ॥
नमस्कृत्य गुरुं देवं

४.] रसरात्नाकरस्य रसायनखण्डः । ३७
नवनागसहस्राणां बलं तस्याधिकं भवेत् ।
जीवते वज्रदेहः सन् सत्यं सत्यं शिवोदितम् ॥२१४॥
जराजर्जरिताङ्गानामन्धानां पङ्कुकुष्ठिनाम् ।
नष्टवाग्जडषण्ढानां कुब्जानां कुष्ठदेहिनाम् ॥ २१५ ॥
अनेकव्याधियुक्तानां भ्रान्तोन्मत्तपिशाचिनाम् ।
किं पुनः स्वच्छदेहानां भूपानां रससेविनाम् ॥ २१६॥
वीराणां साधकानां च दिव्यसिद्धिप्रदो भवेत् ।
तस्माद्वीरतरो योज्य भैरवोऽसौ न संशयः ॥ २१७ ॥
वज्रकायो भवेत्सिद्धो मेधावी दिव्यरूपवान् ।
अर्धयोजनविस्तीर्णं विमानं चाप्सरोयुतम् ॥ २१८ ॥
आयाति नात्र संदेहस्तस्य सिद्धस्य संमुखम् ।
तत्रारूढो रुद्रलोके क्रीडते भैरवो यथा ॥ २१९ ॥
क्षुत्पिपासाविनिर्म

३८ आयुर्वेदीयग्रन्थमाला । [ उपदेशः
कान्तादिमहारसायनम् ।
मृतकान्ताभ्रकं मृतं गन्धं भृङ्गविडङ्गकम् ।
त्वग्वज्रं बिल्वबीजं च प्रत्येकं पलषोडश ॥ २ ॥
त्रिंशत्पलं त्र्यूषणं च त्रिंशन्त्रिंशद्धृतं मधु ।
चित्रमूलं दशपलं सर्वं चूर्णं विलोडयेत् ॥ ३ ॥
पलानि त्रिफलायास्तु विंशपूर्वं चतुःशतम् ।
क्वाथ्यमष्टगुणैस्तोयैर्ग्राह्यमष्टावशेषितम् ॥ ४ ॥
कषायं भावयेत्तेन मासैकं पूर्वलोडितम् ।
लोहपात्रे खरे घर्मे तत्पलार्धं सदा पिबेत् ॥ ५ ॥
क्षीरैः शयनकाले तु वर्षान्मृत्युजरापहम् ।
बालो निबिडसंधिश्च जीवेच्चन्द्रार्कतारकम् ॥ ६ ॥
महारसायनं दिव्यं कामिनीशततोषकम् ।
रसायना अभ्रकयोगाः ।
अग्निवर्णं क्षिपेत्क्षीरे कृष्णाभ्रं वह्नितापितम् ॥ ७ ॥
भिन्नपत्रं ततः कृत्वा जलमध्ये विनिक्षिपेत् ।
त्रिंशत्पलानि यत्नेन मरिचं पलपञ्चकम् ॥ ८ ॥
चूर्णितं निक्षिपेत्तस्मिंस्त्रिदिनान्ते समुद्धरेत् ।
तत्सर्वं पेषयेच्छ्लक्ष्णं सितवस्त्रेण बन्धयेत् ॥ ९ ॥
जलपूर्णे घटे घर्मे दोलायन्त्रेण धारयेत् ।
शुष्के तोये पुनस्तोयं दद्याद्यावज्जले गतम् ॥ १० ॥
तदभ्रकं ततो वस्त्रं संत्यजेद्रक्षयेज्जलम् ।
त्रिंशद्भागं ततः कुर्यात्तज्जलं साभ्रकं सुधीः ॥ ११ ॥
तद्भागेकेन संलोढ्य पलैकं श्वेततण्डुलात् ।
त्रिंशत्पले गवां क्षीरे तत् पचेचाथ शीतलम् ॥ १२ ॥
मध्वाज्यैर्द्विपलैर्युक्तं निष्कैश्चैकैश्च मरीचकैः ।
साधको भक्षयेन्नित्यं मासान्मृत्युजरापहम् ॥ १३ ॥

४.] रसरत्नाकरस्य रसायनखण्डः । ३९
केशा दन्ता नखास्तस्य पतन्ति ह्युद्भवन्ति च ।
वज्रकायो भवेत्सिद्धो वायुवेगो महाबलः ॥ १४ ॥
अमृताभ्रकयोगोऽयं शम्भुना गदितः पुरा ।
मृताभ्रं गन्धकं शुद्धं कणा सर्वं समं घृतैः ॥ १५ ॥
कर्षैकं भक्षयेन्नित्यं वर्षान्मृत्युजरापहम् ।
कोरण्टकस्य पत्राणि मृताभ्रं गन्धकं समम् ॥ १६ ॥
तत्सर्वं नीलिकाद्रावैः सप्ताहं भाव्यमातपे ।
तत्कर्षैकं पिबेत्क्षीरैरब्दान्मृत्युजरापहम् ॥ १७ ॥
मृताभ्रकस्य कर्षैकं गवां क्षीरं पलं तथा ।
समूलपत्रां सर्पाक्षीं सार्द्रां पिष्ट्वा च गन्धकम् ॥ १८ ॥
एकीकृत्य पिबेत्सर्वं वर्षेकेन जरां जयेत् ।
वज्रकायः खेचरश्च जीवेद्ब्रह्मदिनत्रयम् ॥ १९ ॥
मृताभ्रं कान्तलोहं च त्रिफला मागधी समम् ।
पञ्चाङ्गं बदरीचूर्णमग्रतुल्यं नियोजयेत् ॥ २० ॥
सितामध्वाज्यसंयुक्तं पलार्थं भक्षयेत्सदा ।
हन्ति वर्षाज्जरां मृत्युमायुः स्याद्ब्रह्मणो दिनम् ॥ २१ ॥
'अमृतक्रीडे विष्णुसंवरणि स्वाहा ॥' अनेन मन्त्रेण सर्वे
अभ्रकयोगा अभिमन्त्र्य भक्षणीयाः ।
रसायनाः कान्तयोगाः ।
मृतं कान्तं तिलाः कृष्णा बदरीफलचूर्णकम् ।
काकतुण्डीबीजचूर्णं सर्वं तुल्यं प्रकल्पयेत् ॥ २२ ॥
शाल्मलीमल्लिपत्राणां द्रवैर्भाव्यं दिनत्रयम् ।
त्रिदिनं भृङ्गजैर्द्वावैर्भावितं शोषयेत्पुनः ॥ २३ ॥
तस्मिंस्तुल्यं गुडं क्षिप्त्वा वटिकाः कर्षमात्रकाः ।
रुदन्त्युत्थद्रवैः क्षीरैर्मध्वाज्याभ्यां पिबेत्सदा ॥ २४ ॥
१ 'महासिद्धो' ख. । २ 'सार्द्रैः' ख. । ३ 'कर्षकम्' ख. ।

४० आयुर्वेदीयग्रन्थमाला। [उपदेशः
वर्षेकेन जरां मृत्युं हन्ति सत्यं न संशयः ।
मृतं कान्तं कृष्णतिलांस्त्रिफलां चूर्णयेत्समम् ॥ २५ ॥
शाल्मलीकेतकीद्रावैर्लोडितं कान्तपात्रके ।
स्थितं रात्रौ पिबेत्प्रातः पलार्धं मृत्युनाशनम् ॥ २६ ॥
वत्सरेकाज्जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ।
कान्तभस्म कणाचूर्णं निम्बनिर्याासमेवं च ॥ २७ ॥
त्रिफलातुल्यतुल्यांशं मध्वाज्याभ्यां पलार्धकम् ।
लिहेन्मासाष्टकं नित्यं जीवेद्ब्रह्मदिनं नरः ॥ २८ ॥
कुष्ठखण्डानि संपाच्य कषाये त्रैफले समे ।
शोषयित्वा विचूर्ण्याथ तानि कान्तं मृतं समम् ॥२९॥
मध्वाज्याभ्यां लिहेत्कर्षं वर्षान्मृत्युजरापहम् ।
कोरण्टपत्रचूर्णं तु कान्तभस्म तिला गुडम् ॥ ३० ॥
तुल्यं भक्ष्यं पलार्धं तद्वर्षान्मृत्युजरापहम् ।
कान्तभस्म समं गन्धं तेलैर्ज्योतिष्मतीभवैः ॥ ३१ ॥
लिहेन्नित्यं चतुर्निष्कं ब्रह्मायुर्जायते नरः ।
बृहस्पतिसमो वाचा वत्सराद्भवति ध्रुवम् ॥ ३२ ॥
मृततीक्ष्णं त्रयो भागाः शुद्धगन्धाष्टभागकम् ।
घर्मे भाव्यं त्रिसप्ताहं तत्सर्वं कन्यकाद्रवैः ॥ ३३ ॥
गोक्षीरैस्तत्पिबेत्कर्षं जीवेद्ब्रह्मदिनत्रयम् ।
वर्षमात्रान्न संदेहो दिव्यतेजा महाबलः ॥ ३४ ॥
मृतं कान्तं शिला शुद्धा तुल्यं मध्वाज्यकैर्लिहेत् ।
निष्कं निष्कं तु वर्षेण जीवेद्ब्रह्मदिनत्रयम् ॥ ३५ ॥
त्रिनिष्कं मृततीक्ष्णं तु मुण्डं वा कान्तमेव वा ।
पिबेद्धारोष्णपयसा वयःस्तम्भकरं नृणाम् ॥ ३६ ॥
वर्षद्वयप्रयोगेण जीवेदाचन्द्रतारकम् ।
१ 'वर्षत्रयप्रयोगेण' ख. ।

४.] रस्रत्नाकरस्य रसायनखण्डः । ४१
सम्यक्कान्तमये पात्रे धात्रीचूर्णं शिवाम्बुना ॥ ३७ ॥
रात्रौ पलैकं संलिप्य प्रातरुत्थाय भक्षयेत् ।
वलीपलितनिर्मुक्तो वत्सरान्मृत्युजिद्भवेत् ॥ ३८ ॥
लेपयेत्कान्तपात्रान्तः पलैकं त्रिफलामधु ।
दिवारात्रं स्थितं पेयं तन्नित्यं तु शिवाम्बुना ।
वर्षान्मृत्युं जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ ३९ ॥
‘ॐ हः अमृते अमृतशक्ति अमृतगन्धोपजीवि निष्पन्नं
चन्द्रामृतं आज्ञापितं कुरु कुरु स्वाहा हे हे हं हः गम्’ इति
गन्धकलोहयोर्भक्षणमन्त्रः ॥
सर्वेषां लोहयोगानामनु स्यात्क्षीरपानकम् ।
आस्वादेत्स्वादुमुस्तानां स्वरसं दन्तपीडितम् ॥ ४० ॥
मूलानि भक्षयेत्तासामास्यवैरस्यशान्तये ।
बद्धे कोष्ठे तु दीप्ताग्नौ तप्तं क्षीरं पिवेत्सदा ॥ ४१ ॥
स्नानमर्दनतीक्ष्णोष्णं विष्टम्भे सति वर्जयेत् ।
ताम्बूलं भक्षयेन्नित्यं सकर्पूरं मुहुर्मुहुः ॥ ४२ ॥
सम्यग्जीर्णे तु दीप्ताग्नौ पिवेत्पश्चाद्बुलुक्षितः ।
शृतं क्षीरं ततोऽन्नं च सेव्यं लोहरसायने ॥ ४३ ॥
ब्रह्मवृक्षकल्पः ।
ब्रह्मवृक्षस्य पञ्चाङ्गं छायाशुष्कं सुचूर्णितम् ।
मध्वाज्याभ्यां लिहेत्कर्षं वर्षैकेन जरां जयेत् ॥ ४४ ॥
जीवेद्वर्षसहस्रैकं दिव्यतेजा महाबलः ।
ब्रह्मवृक्षस्य पुष्पाणि छायाशुष्काणि कारयेत् ॥ ४५ ॥
त्रिंशत्पलं तु तच्चूर्णं चतुर्विंशत्पलं घृतम् ।
एकीकृत्य क्षिपेद्भाण्डे तं रुद्धा धान्यराशिगम् ॥ ४६ ॥
कृत्वा मासात्समुद्धृत्य भागान् कुर्याच्चतुर्दश ।
भागैकं भक्षयेन्नित्यं भुञ्जीत कान्तभाजने ॥ ४७ ॥

४२ आयुर्वेदीयग्रन्थमाला । [उपदेशः
एवं मासत्रयं कुर्याद्वज्रकायो भवेन्नरः ।
तस्य मूत्रपुरीषाभ्यां ताम्रमायाति काञ्चनम् ॥ ४८ ॥
ब्रह्मवृक्षस्य बीजानि चूर्णितानि घृतैः सह ।
पूर्ववद्धान्यमध्ये तु क्षिप्त्वा मासात्समुद्धरेत् ॥ ४९ ॥
पलैकैकं सदा खादेद्वत्सरान्मृत्युजिद्भवेत् ।
वलीपलितनिर्मुक्तो जीवेद्ब्रह्मदिनत्रयम् ॥ ५० ॥
ब्रह्मबीजोत्थितं तैलं गवां क्षीरैः पलद्वयम् ।
तुल्यैः पिबेद्भवेन्मूर्च्छा सिञ्चेत्तस्य मुखे पयः ॥ ५१ ॥
बोधे क्षीरौदनं दद्यान्मासाज्ज्ञानी भवेन्नरः ।
द्वितीये शुक्रतुल्यः स्यात्तृतीये वज्रवद्भवेत् ॥ ५२ ॥
दूरश्रावी चतुर्थे तु पञ्चमे खेगतिर्भवेत् ।
मासषट्के स्वयं कर्ता शिवतुल्यपराक्रमः ॥ ५३ ॥
महाकल्पान्तपर्यन्तं जीवेद्वर्षैकसेवनात् ।
ब्रह्मवृक्षमतिस्थूलं छेदयेदूर्ध्वभागतः ॥ ५४ ॥
अधो रक्ष्यं त्रिहस्तं स्यात्तस्य मूर्ध्नि बिलं कृतम् ।
पक्वैर्धात्रीफलैः पूर्यं तत्काष्ठेन निरुध्य च ॥ ५५ ॥
कुशैस्तु वेष्टयेत्सर्वं लेप्यं मृद्रोमयैः पुनः ।
आवेष्ट्य वस्त्रखण्डेन लिम्पेन्मृद्रोमयैस्ततः ॥ ५६ ॥
शुष्के गजपुटं देयं पैरितोऽरण्यकोत्पलैः ।
स्वाङ्गशीतलमुद्धृत्य सद्रवाणि फलानि च ॥ ५७ ॥
क्षिपेन्मध्वाज्यसंयुक्ते भाण्डे तान्येव भक्षयेत् ।
यथेष्टं भूगृहान्तःस्थः क्षीराहारी जरां जयेत् ॥ ५८ ॥
मांसद्वयेन वसुधां छिद्रां पश्यति निश्चितम् ।
जीवेद्ब्रह्मदिनं यावत्सर्पवत्कञ्चुकं त्यजेत् ॥ ५९ ॥
१ ‘महाबलः’ ख. । २ ‘तं तु धात्रीफलैः’ ख. । ३ ‘पाचितो’ ख. ।
४ ‘छिद्रं पश्यति मासाद्वै निधानानि च भूतले’ ख. ।