सामग्री पर जाएँ
सर्वकोश
रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

पृष्ठ 38, कुल 94 में से

संदर्भ में पढ़ें
पृष्ठ 38

३.] रसरत्नाकरस्य रसायनखण्डः । ३१
दिव्यखेचरीगुटिका ।
हेम्ना यद्वन्दितं वज्रं कुर्यात्तत्सूक्ष्मचूर्णितम् ॥ १३९ ॥
एतद्देयं गुहामृते मूषायामधरोत्तरम् ।
पादमात्रं प्रयत्नेन रुद्ध्वा सन्धिं विशोषयेत् ॥ १४० ॥
भूधराख्ये दिनं पच्यात्समुद्धृत्याथ मर्दयेत् ।
दिव्यौषधफलद्रावैस्तप्तखल्वे दिनावधि ॥ १४१ ॥
रुद्ध्वाऽथ भूधरे पच्याद्दिनं लघुपुटैः पुटेत् ।
समुद्धृत्य पुनस्तद्वन्मर्द्यं रुद्ध्वा दिनत्रयम् ॥ १४२ ॥
तुषाग्निना शनैः स्वेद्यमूर्ध्वाधः परिवर्तयन् ।
जायते भस्ममूतोऽयं सर्वयोगेषु योजयेत् ॥ १४३ ॥
द्रुतमूतस्य भागैकं भागैकं पूर्वभस्मकम् ।
शुद्धनागस्य भागैकं सर्वमम्लेन मर्दयेत् ॥ १४४ ॥
अन्धमूषागतं धाम्यं खोटो भवति तद्रसः ।
धमेत्प्रकटमूषायां यावन्नागक्षयो भवेत् ॥ १४५ ॥
द्रुतमूतप्रकारेण द्रावयित्वा त्विमं रसम् ।
निक्षिपेत्कच्छपे यन्त्रे विडं दत्त्वा दशांशतः ॥ १४६ ॥
स्वर्णादिसर्वलोहानि क्रमेणैव च जारयेत् ।
प्रत्येकं षड्गुणं पश्चाद्वज्रद्वन्द्वं च जारयेत् ॥ १४७ ॥
त्रिगुणं तु भवेद्यावत्ततो रत्नानि वै क्रमात् ।
जारयेद्रावितान्येव प्रत्येकं त्रिगुणं शनैः ॥ १४८ ॥
ततो यन्त्रात्समुद्धृत्य दिव्यौषधद्रवैर्दिनम् ।
मर्द्यं रुद्ध्वा धमेद्गाढं जायते गुटिका शुभा ॥ १४९ ॥
पूजयेदङ्कुशीमन्त्रैर्नाम्नेयं दिव्यखेचरी ।
यस्य वक्रे स्थिता ह्येषा स भवेद्भैरवोपमः ॥ १५० ॥
दिव्यतेजा महाकायः खेचरत्वेन गच्छति ।
यत्रेच्छा तत्र तत्रैव क्रीडते ह्यङ्गनादिभिः ॥ १५१ ॥