रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 41, कुल 94 में से
संदर्भ में पढ़ें३४ आयुर्वेदीयग्रन्थमाला । [उपदेशः
जायन्ते नात्र संदेहः शिवाम्बु क्रामकं पिबेत् ।
पञ्चानना गुटिका ।
स्वर्णतारार्ककान्तं च तीक्ष्णचूर्णं समं समम् ॥ १७७॥
द्वन्द्वमेलापलिप्तायां मूषायां चान्धितं धमेत् ।
तत्खोटं चूर्णितं कृत्वा चाभिषिक्तं तु पूर्ववत् ॥ १७८॥
समुखे जारयेत्स्रुते यावत्पञ्चगुणं क्रमात् ।
दिव्यौषधद्रवैस्तं वै मर्दयेद्दिवसत्रयम् ॥ १७९ ॥
अन्धमूषागतं ध्मातं जायते गुटिका शुभा ।
नाम्ना पञ्चानना धार्या वक्त्रे संवत्सरावधि ॥ १८० ॥
वलीपलितनिर्मुक्तो जीवेच्चन्द्रार्कतारकम् ।
हस्तिकर्णी समूला तु चूर्ण्या मध्वाज्यसंयुता ॥ १८१ ॥
स्निग्धभाण्डे तु तां रुद्ध्वा धान्यराशौ निवेशयेत् ।
त्रिसप्ताहात्समुद्धृत्य पलैकं भक्षयेदनु ॥ १८२ ॥
शतवेधिकादिगुटिकाः ।
ऋद्धिखण्डे तु यत्प्रोक्तं विविधं रसबन्धनम् ।
अत्र तस्यैव वक्ष्यामि देहवेधक्रमं २यथा ॥ १८३ ॥
जारितैर्बन्धितैस्तैस्तै रसराजैः पृथक्पृथक् ।
कारयेद्गुटिकां दिव्यां बदराण्डप्रमाणकाम् ॥ १८४ ॥
सा धार्या वत्सरं वक्त्रे स्वानुरूपफलप्रदा ।
गुटिका शतवेधी स्याद्युगायुष्यकरी नृणाम् ॥ १८५ ॥
सहस्रवेधी गुटिका अष्टकल्पान्तरक्षिका ।
लक्षवेधकरी या तु सा दत्ते विष्णुवड्डलम् ॥ १८६ ॥
वेधिका दशलक्षे या सा रुद्रपददायिनी ।
कोटिवेधकरी या सा ईश्वरत्वकरी नृणाम् ॥ १८७ ॥
वेधिका दशकोटीनां सा सदाख्यपदप्रदा ।
१ ऋद्धिखण्डे इति वादिखण्डे इत्यर्थः । २ ‘तथा’ ख.