रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
पृष्ठ 399, कुल 414 में से
संदर्भ में पढ़ेंप्रथमाननम् ३६७
तदुक्तीनां विरोधः। उपपत्तिस्त्वर्थेऽस्मिन् विचारणीया। 'रसभावादिरर्थ'
इत्यत्र रसादिशब्दो रत्यादिपरः।
उपपत्तिरिति। अस्मिन् स्थाय्यादीनामलक्ष्यक्रमत्वे रसत्वं संलक्ष्यक्रमत्वे तु
वस्तुत्वमित्यत्र उपपत्तियुक्तिर्विचारणीया काव्यतत्त्वज्ञैः। विषयोऽयं सङ्गतः प्रतिभाति,
किन्त्वत्र युक्तिं न पश्यामः, यदि युक्तिरुद्भाव्येत तर्हि मतमिदं मान्यमेवेत्याशयो ग्रन्थ-
कृतः। युक्तिं हि नागेशभट्टोक्तानुपदमेव वक्ष्यते।
ननु ''रसभावादिरर्थो न सर्वोऽलक्ष्यक्रमस्य विषय" इत्यभिनवगुप्तोक्तौ "सर्वोऽपि
रसादिलक्षण" इति पण्डितराजोक्तौ च रसस्यापि संलक्ष्यक्रमता विरुद्धयत इत्याह—
रसनावेति। तत्रत्य-रसपदं स्वाश्रये रत्यादौ लाक्षणिकम्।
अत्रोच्यते—रसादिध्वनेः संलक्ष्यक्रमत्वविषये मतत्रयमुपलभ्यते—(१) सर्वोऽपि
रसभावादिव्वनिः संलक्ष्यक्रमोऽपि भवतीति पण्डितराजमतम्। (२) रसव्यतिरिक्ताः
सर्वेऽपि स्थायिभावा व्यभिचारिभावाश्च अलक्ष्यक्रमत्वेन भावध्वनयो (रसध्वनयो)
भवन्ति, संलक्ष्यक्रमत्वेन तु वस्तुध्वनय इत्यानन्दवर्धनाभिनवगुप्तयोर्मतम्। संलक्ष्यक्रम-
ध्वनिरूपे हि तेषां वस्तुरूपेणैव भानं (रत्यादिरूपेण हर्षादिरूपेण वा), न तु भावत्वेन।
अत्र नागेशभट्टोक्ता उपपत्तिः—विगलितवेद्यान्तर एव रसास्वाद इति सर्वसम्मतं, स च
अलक्ष्यक्रम एव सम्भवति, यदि वाच्य-लक्ष्य-विभावानुभाव-रसेषु क्रमः पृथगवभासरूपः
प्रतीयते तर्हि तत्र वेद्यान्तरस्य ज्ञानान्तरस्य अविगलितत्वेन रसत्वमेव न सम्भवति।
अत एव तथाविधस्य स्थाय्यादेर्न रसत्वमपि तु वस्तुत्वमेवेति। (३) रसभावादीनां
सर्वेषामपि (स्थाय्यादीनामपि) सर्वदावालक्ष्यक्रमव्यङ्ग्यत्वमेव, नैव संलक्ष्यक्रमत्वमिति
मर्मप्रकाशे नागेशभट्टानां मतम्। अत्रोपपत्तिः—विभावादिप्रतीतिसामग्रीविलम्बे वाच्यार्थ-
प्रतीतो क्रमसत्त्वेऽपि विभावज्ञानोत्तरं रसप्रतीतौ नैव विलम्बः केनाप्यनुभूयते। वाच्यार्थ-
ज्ञानक्रमस्य ध्वनिप्रतीतिक्क्रमत्वेन नाङ्गीकारोऽपितु विभावज्ञान-रसज्ञानयोः क्रमस्यैव,
वक्तृवैशिष्ट्यप्रकरणादिज्ञानसहितस्यैव व्यञ्जकत्वात्। अत एव सर्वत्र रसोऽलक्ष्यक्रम-
व्यङ्ग्य एवेति।
सर्वसम्मत रूप से विगलितवेद्यान्तर (अन्य सभी ज्ञानों से रहित एकमात्र रसज्ञान-
स्वरूप) माना जाता है। ऐसी स्थिति में विभावादि-प्रतीति एवं रस-प्रतीति में यदि
सूक्ष्म काल का भी अन्तर हो जाता है तो अन्य ज्ञान की प्रतीति के कारण रसत्व का
भङ्ग हो जायगा और संलक्ष्यक्रम में ज्ञानान्तर का बोध हो ही जाता है। अतः उस
स्थिति में रहने वाले रत्यादि को रस नहीं, वस्तुमात्र कहा जा सकता है।
नवीन विद्वानों के मत कहकर नागेश ने अपना मत भी दिया है। वक्तृवैशिष्ट्य
प्रकरण आदि के ज्ञान सहित वाच्यार्थ ही व्यञ्जक होते हैं और क्रम तो प्रकरणादि
ज्ञान में ही रहता है। व्यञ्जक की उपस्थिति से तत्क्षण विभावादि एवं रसादि की