सामग्री पर जाएँ
सर्वकोश
रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

Rasagangadhara of Panditaraja Jagannatha with Commentary

पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा

DevanagariHindipublished414 पृष्ठ

पृष्ठ 389, कुल 414 में से

संदर्भ में पढ़ें
पृष्ठ 389

प्रथमाननम् ३५७
किञ्च यदि भावशान्त्यादौ भावो न प्रधानं, किन्तु तदुपसर्जन-
शान्त्यादिरेवेत्यभ्युपेयते, तदा व्यज्यमानभावेषु अभिहित-तत्प्रशमादिषु काव्येषु
भावप्रशमादिध्वनित्वं न स्यात् । तथा हि—
उषसि प्रतिपक्षनायिका-सदनादन्तिकमञ्चति प्रिये ।
सुदृशो नयनाब्जकोणयोरुदियाय त्वरयाऽरुणद्युतिः ॥
अत्रोत्पूर्वकैणेतिना भावोदयस्य वाच्यतयैव प्रत्यायनात् ।
तत्तदवस्थायाः । औचित्यादिति । विद्यमानभावे निर्णीतार्थः नाशादिभावेष्वपि
स्वीकार्य इत्येवोचितम् “एकत्र निर्णीतः शास्त्रार्थोऽपरत्रापि सञ्चरती”ति न्यायात् ।
कस्यचिद् भावस्य नाशोत्तरमेवापरभावस्योदयो भवतीति भावशान्तेः प्रथमो-
पादानं युक्तमत्र तद्व्युत्क्रमेण प्रथममुत्पत्त्यवच्छिन्नत्वोक्तिश्चिन्तनीयैव ।
तद