रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
पृष्ठ 370, कुल 414 में से
संदर्भ में पढ़ें३३८ रसगङ्गाधरः
एषु च सञ्चारिभावेषु मध्ये केचन केषाञ्चन विभावा अनुभावाश्च
भवन्ति । तथा हि—ईर्ष्याया निर्वेदं प्रति विभावत्वम्, असूयां प्रति चानुभाव-
त्वम् । चिन्ताया निद्रां प्रति विभावत्वम्, औत्सुक्यं प्रति चानुभावतेत्यादि
स्वयमूह्यम् ॥
अथ रसाभासः । तत्र—
अनुचित-विभावालम्बनत्वं रसाभासत्वम् ।
विभावादावनौचित्यं पुनर्लोकानां व्यवहारतो विज्ञेयं, यत्र तेषाम्
एष्विति । हर्षादयो ये सञ्चारिभावा निरूपितास्ते कदापि कदाचिद् विभावा
अनुभावाश्चापि जायन्ते । निर्वेदभावस्थले तज्जनकत्वेन ईर्ष्या विभावो भवति । असूया-
स्थले तज्जन्यत्वात् साऽनुभावतां याति । यद्यपि चिन्ता निद्राया बाधिकारूपेण प्रसिद्धा
तथापि चिरकालस्थितया चिन्तया कदा निद्रा समागतेति न ज्ञायत इत्यपि प्रसिद्ध-
मेवेति चिन्ता निद्रोत्पादिकारूपेण निद्राया विभाव इत्याद्यवसरप्रसङ्गादि दृष्ट्वा स्वयमेवा-
स्वादकैरूहनीयम् ।
रसाभासत्वमिति । रसस्य आभासः प्रकाश आकृतिर्वा यस्मिन् असौ रसा-
भासः । अनुचितो विभाव आलम्बनं यस्य स अनुचितविभावालम्बन एव रसाभासः ।
लोकानामिति । वस्तुतः सहृदयानामित्येव वक्तव्यम् ! लोके हि स्वयोतिरिक्तानां
नायिकानामनुचितत्वेऽपि साहित्ये तासां बहुत्र समुचितत्वप्रतिपादनात् परस्त्रीति वक्तव्ये
मुनिपत्न्यादीत्यनुपदमेवोक्तत्वात् । शृङ्गारेऽनुचितविभावत्वं हि परस्परानुरक्तयोः स्त्री-
पुंसयोरन्यतरस्य पूज्यत्वं, बहुनायकानुरक्तार्वं तयोरेकतरस्याननुरक्तत्वञ्चेति कविसमय-
प्रसिद्धम् । वस्तुतो नायकस्य स्वपरिणीता, स्वपरिणययोग्या कुमारी, वेश्या चेति
त्रिविधैव नायिकात्रोचिता, तद्भिन्ना सर्वा अपि अनुचिता एव ।
अतः भावों की संख्या पूर्वोक्त से अधिक नहीं मानी जा सकती है ।
इन हर्षादि ३३ संचारिभावों में कितने ही किन्हीं के विभाव एवं अनुभाव भी
हो जाते हैं । जैसा कि—ईर्ष्या निर्वेद का विभाव एवं असूया के प्रति अनुभाव है ।
चिन्ता निद्रा के प्रति विभाव और औत्सुक्य के प्रति अनुभाव बन जाती है । इस
प्रकार अन्य भावों के विषय में भी स्वयं ऊह करना चाहिए ।
अब रसाभास का निरूपण करते हैं । उसमें पहले इसका लक्षण दिया जा रहा
है । जिसका आलम्बन विभाव अनुचित हो वह रसाभास ( रस का प्रकाश या आकृति
वाला ) है ।
विभाव एवं रति के अनौचित्य का ज्ञान लोकव्यवहार से जानना चाहिए । जिस