सामग्री पर जाएँ
सर्वकोश
रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

Rasagangadhara of Panditaraja Jagannatha with Commentary

पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा

DevanagariHindipublished414 पृष्ठ

पृष्ठ 360, कुल 414 में से

संदर्भ में पढ़ें
पृष्ठ 360

३२८ रसगङ्गाधरः
कुत्र शैवं धनुरिदं क चायं प्राकृतः शिशुः ।
भङ्गस्तु सर्वसंहर्त्रा कालेनैव विनिर्मितः ॥
एषा भग्नहरकार्मुकस्य रामस्य पराक्रममसहमानानां तत्रत्यानां राज्ञा-
मुक्तिः । अत्र च श्रीमद्दाशरथिबलस्य सर्वोत्कृष्टताया दर्शनं विभावः, प्राकृत-
शिशुपदगम्या निन्दानुभावः ।
तृष्णालोलविलोचने कलयति प्राचीं चकोरव्रजे,
मौनं मुञ्चति किञ्च कैरवकुले, कामे धनुर्धुन्वति ।
माने मानवतीजनस्य सपदि प्रस्थातुकामेऽधुना
धातः ! किं नु विधौ विधातुमुचितो धाराधराडम्बरः ॥
कुत्रेति । जनकनगरे धनुर्यज्ञे रामविद्वेषिणामुक्तिरियम् । कुत्र पुरुषोत्थापना-
शक्यमिदं शैवं शिवसम्बन्धि धनुः ? अयं रामः प्राकृतो वैशिष्ट्यरहितः साधारणः शिशु-
र्बालिश्च क्व ? उभयोः सम्बन्धोऽसम्भव एव । तेन धनुर्भङ्गो नैव रामेण सम्भाव्यते ।
तर्हि तद् भग्नं कथमिति चेदुच्यते, तस्य भङ्गस्तु सर्वसंहारकेण कालपुरुषेणैव विनिर्मितो
निर्धारितः । धातूनामनेकार्थत्वाद् रचनार्थकस्य निर्मितेः करणार्थे प्रयोगः । निदर्शना-
लङ्कारः ।
भग्नहरकार्मुकस्य भग्नं हरकार्मुकं शिवधनुर्येन । तत्रत्यानां धनुर्यज्ञे सीता-
परिणयार्थमागतानां राज्ञाम् ।
पुनरसूयाममर्षसङ्कीर्णामुदाहरति — तृष्णेति । अत्र कस्यचिद् राजकुमारस्या-
गमनं प्रस्तुतं सहसाऽवरुद्धमिति अप्रस्तुतेन चन्द्रवृत्तान्तेन वर्णितम् । चन्द्रोदयकाल एव
मेघाडम्बरविघातारं धातारं कश्चिदाक्रोशति — हे धातः अधुना सायंकाले चन्द्रोदयावसरे
तृष्णया चन्द्रिकाप्राप्तीच्छया लोले चञ्चले विलोचने यस्य तस्मिन्, चकोरसमुदाये प्राचीं
दिशं कलयति पश्यति सति, किञ्च अपि च, कैरवकुले कुमुदगणे मौनं दिवाकृतमुद्रणं
मुञ्चति सति, कामदेवे धनुः धुन्वति कम्पयति सति, मानवतीजनस्य माने प्रणयकोपे
कहाँ यह शिव का धनुष और कहाँ यह साधारण बालक (राम) ? इस
धनुष का भङ्ग तो सबों के संहार करने वाले कालपुरुष ने ही किया है ।
यह शिवधनुष को तोड़ने वाले राम के पराक्रम को न सहने वाले वहाँ सीता-
परिणय के लिए उपस्थित राजाओं की उक्ति है । यहाँ श्रीमान् दाशरथि राम के सैन्यों
की सर्वोत्कृष्टता देखना विभाव एवं 'साधारण शिशु' पद से ध्वनित निन्दा अनुभाव है ।
अमर्षमिश्रित असूया का उदाहरण—हे विधाता ! अभी चन्द्रोदय होने के
समय सायंकाल में जब चांदनी को देखते हेतु चंचल आँखों वाले चकोरगण पूरब
की ओर देखने लगे, कुमुदिनी-वन अपनी चुप्पी (संकुचित होना) छोड़ने लगे, काम-