रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
पृष्ठ 356, कुल 414 में से
संदर्भ में पढ़ेंरसगङ्गाधरः
चिन्तोत्कण्ठा-भय-विरहेष्टानिष्टदर्शनश्रवणादिजन्याऽवश्यककर्त्तव्यार्थ-
प्रतिसन्धान-विकला चित्तवृत्तिर्जडता ।
इयं च मोहात् पूर्वतः परतश्च जायते । यदाहुः—
कार्याविवेको जडता, पश्यतः शृण्वतोऽपि वा ।
तद्विभावाः प्रियानिष्टदर्शनश्रवणे रुजा ॥
अनुभावास्त्वमी तूष्णीम्भाव-विस्मरणादयः ।
स पूर्वं परतो वा स्यान्मोहादिति विदां मतम् ॥ इति ।
मन्दोदर्या विलापोऽयम् । लीलया अनायासेनेव विहितः सिन्धुबन्धनः सागरबन्धनो येन
सोऽयं परिचितो दिव्यपराक्रमशाली मर्मोपस्थितो रामचन्द्रो लङ्कामागच्छति । किन्तु
दशाननो रावणो दर्पेण दुर्विलसितो दुराग्रहो, रामस्य समर्चां न करोति, तं द्वेष्टि । अत
एव कुलक्षयो निकट एव । अशरणा क्व गच्छामीति । अत्र कुलस्यैव क्षय इत्यालम्बन-
विभावो, रघुनन्दनागमनमुद्दीपनविभावः, स्थैर्यस्य स्थिरताया अभावः चञ्चलताऽनुभावः ।
उद्वेगस्येव = आवेगस्येव चिन्तायाः प्राधान्येन प्रतीत्यभावात् । चर्वणायाम् = आस्वाद-
काले । गुणत्वेन===अङ्गतया ।
जडताख्यं भावं लक्षयति—चिन्तेति । चिन्तोत्कंपभयेति पाठान्तरम् । उत्कर्षाति-
शयादपि कर्त्तव्यमौग्ध्येन जडता भवति । चिन्तादि-समुत्पन्ना किङ्कर्त्तव्यविमूढता
जडता । इष्टस्यानिष्टस्य च दर्शनेन श्रवणेन चेत्यर्थः ।
इयं जडता । मोहात् = मूर्च्छनात् । कार्याविवेक इति । किमपि पश्यतः
शृण्वतो वा जनस्य कर्त्तव्यनिर्धारणाज्ञानं जडता । तस्याः विभावाः प्रियस्य इष्टस्य
अनिष्टस्य च दर्शन-श्रवणे रोगश्च, अनुभावास्तु तूष्णीम्भावो विस्मृतिश्चेत्यादयः ।
( चाञ्चल्य ) के द्वारा जैसे उद्वेग ( आवेग ) दृष्ट हो रहा है, वैसे चिन्ता प्रधानरूप से
प्रतीत नहीं होती है । परन्तु आवेग-भाव के आस्वादनकाल में उसके पोषक के रूप में
अङ्ग बनकर चिन्ता भी यहाँ सम्मिलित होकर विषय बनती है ।
[L25