रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
पृष्ठ 354, कुल 414 में से
संदर्भ में पढ़ें३२२ रसगङ्गाधरः
अत्र त्रासस्यैव प्रतीयमानत्वेन विषादस्याप्रतीतेः, लेशतया प्रतीतौ वा
त्रास एव आनुगुण्यौचित्येन ध्वनिव्यपदेशायोग्यत्वात् ।
अधुनैवास्य लाभो ममास्त्वतीच्छा औत्सुक्यम् ॥
इष्टविरहादिरत्र विभावः । त्वरा-चिन्तादयोऽनुभावाः । यदाहुः—
सञ्जातमिष्टविरहादुद्दीप्तं प्रियसंसृतेः ।
निद्रया तन्द्रया गात्रगौरवेण च चिन्तया ॥
अनुभावितमाख्यातमौत्सुक्यं भावकोविदैः ॥ इति ।
सूक्तम्, अमी समीपस्था एव निनादाः शब्दाः, मे मम, श्रुतिविवरं कर्णकुहरं दारयन्ति
स्फोटयन्ति ।
अत्र उत्तरस्य विषादो विद्यमानोऽपि न भावपदवीमावहति, भीरुत्वेन कठोरशब्द-
श्रवणरूपविभावेन च प्रतीयमानस्त्रास एवात्र भावः । यथाकथञ्चित् लेशतया यत्किञ्चित्
कर्णविवर-विदीर्णनद्वारा प्राणान्ताशङ्कया प्रतीतोऽपि विषादः, पूर्णाभिव्यक्तत्वेन प्रतीय-
मानस्य त्रासस्य आनुगुण्येन अनुकूलतया पोषकत्वेन गौणो ध्वनित्वेन व्यवहारस्या-
योग्य एव ।
औत्सुक्याख्यं भावं लक्षयति—अधुनैवेति । अभिलषितवस्तुनः प्राप्त्यर्थमुत्कटे-
च्छास्वरूपो भाव औत्सुक्यसंज्ञकः । इष्टस्य प्रियजनस्य वस्तुनो वा विरहोऽभावस्वरूप एव
विभावः । तत्प्राप्तये त्वरा शीघ्रकारिता, चिन्तादिश्च कार्यतयानुभावः । अत्र प्राचीन-
संमतिं दर्शयति—सञ्जातमिति । इष्टविरहात् संजातमुत्पन्नं, प्रियसंसृतेः उद्दीप्तं
वर्धितं, तेन प्रियसंसृतिरुद्दीपनविभाव इति सूचितम्, निद्रा-तन्द्रादेहगुरुत्वानुभव-चिन्ता-
दयोऽनुभावाः तैः अनुभावितम् अनुभावनव्यापारसम्बन्धीकृतम्, यत् तद् भावज्ञैः औत्सुक्य-
भावरूपं प्रतिपादितम् ।
यहाँ त्रास ( भय ) ही प्रतीयमान हो रहा है, इसलिए विषाद की प्रतीति ही
नहीं होती है । अंशतः उसकी प्रतीति मान भी लें तो उसे त्रास के अनुकूल गौण रहने
के कारण वह ध्वनि कहलाने योग्य नहीं है ।
'अभी मुझे यह मिल जाय' इस प्रकार की उत्कट इच्छा ही औत्सुक्य है ।
इष्ट का विरह ( अभाव ) यहाँ विभाव एवं प्राप्ति की शीघ्रता, चिन्ता आदि
अनुभाव है । जैसा कि आचार्यों ने कहा भी है—
इष्ट व्यक्ति या वस्तु के विरह से उत्पन्न, उसी प्रिय व्यक्ति या वस्तु के स्मरण
से उद्दीप्त ( वर्धित ) और निद्रा, तन्द्रा, देह के भारीपन तथा चिन्ता से अनुभवगोचर
होने वाले भाव को भाववेत्ताओं ने औत्सुक्य कहा है ।