सामग्री पर जाएँ
सर्वकोश
रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

Rasagangadhara of Panditaraja Jagannatha with Commentary

पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा

DevanagariHindipublished414 पृष्ठ

पृष्ठ 282, कुल 414 में से

संदर्भ में पढ़ें
पृष्ठ 282

२५० रसगङ्गाधरः
शभिन्नमहाप्राणघटितसंयोगस्य सकृदपीति संक्षेपः ॥
दीर्घसमासो यथा—
लोलालकावलिबलन्नयनारविन्द-
लीलावशंवदितलोकविलोचनायाः ।
सायाह्नि प्रणयिनो भवनं व्रजन्त्या-
श्चेतो न कस्य हरते गतिरङ्गनायाः ॥
मपि दास्यते । नैकट्येनेति । नैकट्यं चात्र वैवक्षिकमेकानुभवप्रवाहपतितत्त्वं वा
बोध्यम् । सकृदपीत्यत्रापिशब्देनासकृत्प्रयोगस्य सुतरां वर्जनीयत्वमुक्तम् ।
वर्जनीयानामुदाहरणानि क्रमेणाह —दीर्घेत्यादिना ।
लोलालकेत्यादि । लोलानां चञ्चलानां मुखोपरिस्फुरतामलकानां केशानां या
आवलिस्तया बलद् आच्छन्नमावृतं यन्नयनारविन्दं तस्य लीलया विलासपूर्णया
आच्छादकाऽलकावलिनिक्षेपाय क्रियमाणेन व्यापारेण वशंवदितान्येकान्तत आकृष्टानि
लोकानां विलोचनानि यया तस्याः, अथचैवंरूपेण सायाह्नि स्वप्रियतमस्य भवनं
व्रजन्त्या अङ्गनाया गतिः कस्य रसिकस्य मनो न हरत इत्यर्थः । अत्र हरतेरात्मनेपदं
चिन्त्यम् ॥
अत्र पूर्वे व्याख्यातारः वलदिति अन्त स्थादिं चलनार्थकं धातुं मत्वा व्याचक्षते ।
तत्र चलनार्थकस्य वलधातोः परस्मैपदः कथमित्यवगन्तुं न शक्यते । अतो बलन्निति
पवर्गादिः पाठः कर्त्तव्यः । धातूनामनेकार्थत्वाच्च प्राणनार्थकस्य बलधातोर्थान्तरं
प्रकृतोपयोगि मन्तव्यम् । चलदितिपाठन्तरकल्पनमप्यरसिकत्वं तेषामप्रमाणयति,
लीलेत्यनेनोक्तार्थत्वं चेति । यदि तु कथञ्चिदन्तःस्थादिरेव वलधातुः परस्मैपदीति
स् ) को छोड़कर अन्य महाप्राण व्यञ्जनों ( पांचों व्यञ्जन-वर्गों के द्वितीय और
चतुर्थ व्यञ्जनों) से घटित संयोग का तो एक बार भी प्रयोग नहीं करना चाहिए ।
दीर्घसमास का प्रयोग ‘लोलालकावलि...’ इत्यादि पद्य में किया गया है ।
पद्यार्थ निम्नलिखित है—
“चञ्चल केश-कलाप से आच्छन्न नेत्र-कमल के विलासपूर्ण व्यापार से लोगों के
लोचन को बरवश आकृष्ट करती हुई शाम के समय अपने प्रेमो के घर की ओर
जाने वाली अभिसारिका की गति किस रसिक के मन को आकृष्ट नहीं कर लेती ?
अर्थात् सब के मन को आकृष्ट कर हीं लेती है ॥”
इस पद्य का पूर्वार्द्ध एक समस्त पद है । अतः यह मधुर रस के प्रतिकूल
निबन्धन है ।