रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
पृष्ठ 258, कुल 414 में से
संदर्भ में पढ़ें२२६ रसगङ्गाधरः
सर्वत्रैवेत्याहुः ॥
अपरे त्वेषु गुणेषु कतिपयान्प्रागुक्तेस्त्रिभिर्गुणैर्वक्ष्यमाणदोषाभावा-
लंकारैश्च गतार्थयन्तः, कांश्चिद्वैचित्र्यमात्ररूपतया क्वचिद्दोषतया च
मन्यमाना न तावतः स्वीकुर्वन्ति । तथा हि — श्लेषोदारताप्रसाद
समाधीनामोजोव्यञ्जकघटनायामन्तर्भावः । न च श्लेषोदारतयोः सर्वांशे
गाढबन्धात्मनोरोजोव्यञ्जकघटनान्तर्भावोऽस्तु नाम, प्रसादसमा-
ध्योस्तु गाढशिथिलात्मनोरंशेनौजौव्यञ्जकान्तर्भावेऽप्यंशान्तरेण कुत्रान्त-
इति । अवर्णितपूर्वस्यार्थस्य क्वचिदेव केनचिदेवोपनिबन्धनाभिप्रायेणोक्तमिदम् ।
‘इत्याहुः’ इत्यस्य दशशब्दगुणप्रस्तावे निर्दिष्टेन ‘जरत्तरास्तु’ इत्यनेनान्वयः ॥
एतावता प्रबन्धेन सपरिकरं दशशब्दगुणान् दशैव चार्थगुणान् वामनादिसम्म-
तान्निरूप्य सम्प्रति गुणत्रयवादिमते यथैषां त्रिषु गुणेषु तदतिरिक्तेषु वा गुणालङ्कारा-
दिषु यथायथमन्तर्भावो मम्मटाद्यभिमतस्तन्निरूपयति — अपरे त्वित्यारभ्य मम्मट-
भट्टादय इत्यन्तेन ग्रन्थेन । वक्ष्यमाणत्वं दोषस्य तदभावस्य वा स्वमते, न
मम्मटादिमते, तत्र गुणेभ्यः पूर्वमेव दोषाणां वर्णनात् । अलङ्कारैश्चेत्यत्र चकार
उपलक्षणं रसध्वने रसवदलङ्कारस्य चेति बोध्यम् । क्वचिद् दोषतयेति । विवक्षि-
तार्थप्रतिकूलत्वे सतीत्यर्थः । अन्तर्भावमेवोपपादयति — तथा हीत्यादिना । क्रमप्राप्तं
शब्दगुणानामन्तर्भावप्रकारमाह — श्लेषेत्यादिना । अंशेन = गाढात्मना । अंशान्त-
रेण = शिथिलात्मना । अंशान्तरस्येत्यादेर्माधुर्याभिव्यञ्जकेत्यादिर्वाक्यस्य । परेषाम् =
वामनादीनाम् । अस्माकम् = मम्मटादीनाम् । वामनादिभिः शब्दे माधुर्यं स्वीकृतम्,
मम्मटादिभिः पुना रसे । तथा च वामनाद्यभिमतं शब्दनिष्ठं माधुर्यं मम्मटादिमते
रसनिष्ठमाधुर्यस्याभिव्यञ्जकमिति व्यङ्ग्यचरसधर्मवाचकस्य माधुर्यादिशब्दस्य तद्-
कर, सर्वत्र देखा जा सकता है ।
इस प्रकार वामनादि-सम्मत दश अर्थगुणों का निरूपण किया गया ।
गुणत्रयवादी आचार्य तो पूर्वोक्त वामनादिसम्मत २० गुण नहीं मानते । इन
बीस गुणों में से कुछ को तो ये पूर्ववर्णित — माधुर्य, ओजस् और प्रसाद इन तीन
हीं गुणों में, कुछ को दोषाभाव में, कुछ को अलङ्कार आदि में गतार्थ कर देते; शेष
में से कुछ को दोष हीं मानते । जैसे — शब्दगुणान्तर्गत श्लेष, उदारता, प्रसाद और
समाधि का ओजोगुण के व्यञ्जक रचना में अन्तर्भाव हो जाता है । इनमें भी श्लेष
तथा उदारता का तो ओजोव्यञ्जक रचना में अन्तर्भाव सुस्पष्ट है, क्योंकि इन दोनों
में बन्ध — रचना की गाढ़ता पूर्णरूपेण होती हीं है । परन्तु प्रसाद में प्रारम्भ में
और समाधि में अन्त में विभिन्नता होने से इन दोनों के प्रौढांश का ओजोव्यञ्जक