रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
पृष्ठ 256, कुल 414 में से
संदर्भ में पढ़ें२२४ रसगङ्गाधरः
यथा—
गणिकाऽजामिलमुख्यानवता भवता बताहमपि ।
सीदन्भवमरुगर्त्ते करुणामूर्त्ते न सर्वथोपेक्ष्यः ॥
अत्रोपेक्षाभावे करुणामूर्त्तित्वं पोषकम् । पापिष्ठत्वात्करुणाया अभावे
प्रकृतेऽस्याः संपादनाय गणिकेत्यादि सीदन्निति च ।
दीप्तरसत्वं कान्तिः ॥
कत्वमित्यर्थः । एतादृशं विशेषणं हेतुगर्भमित्युच्यते ।
गणिकेत्यादि । हे करुणावतार परमेश्वर ? गणिकाऽजामिली मुख्यौ येषां
तान् अवता रक्षता भवता भव एव मरुगर्त्तस्तस्मिन् सीदन् क्लेशमनुभवन्नहमपि न
सर्वथोपेक्ष्य इति कश्चिद् अधमो भक्तो भगवन्तं प्रार्थयते । अथ च पद्ये निर्दिष्टा
गणिका पिङ्गलानाम्नी यस्याः कथा श्रीमद्भागवते एकादशस्कन्धस्य नवमेऽध्याये,
अजामिलस्य च दासीपुत्रस्य कथा तत्रैव षष्ठस्कन्धस्याद्येषु त्रिष्वध्या