सामग्री पर जाएँ
सर्वकोश
रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

Rasagangadhara of Panditaraja Jagannatha with Commentary

पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा

DevanagariHindipublished414 पृष्ठ

पृष्ठ 252, कुल 414 में से

संदर्भ में पढ़ें
पृष्ठ 252

२२० रसगङ्गाधरः
यदाहुः—
पदार्थे वाक्यरचना वाक्यार्थे च पदाभिधा ।
प्रौढिर्व्याससमासौ च साभिप्रायत्वमस्य च ॥ इति ।
पूर्वार्धप्रतिपाद्यं द्वयं व्याससमासौ चेति चतुष्प्रकारा प्रौढिः, साभिप्रा-
यत्वं चेति पञ्चप्रकारमोज इत्यर्थः । प्रौढिः प्रतिपादनवैचित्र्यम् ।
यथा—
सरसिजवनबन्धुश्रीसमारम्भकाले
रजनिरमणराज्ये नाशमाशु प्रयाति ।
उक्तार्थे वामनवचनं प्रमाणत्वेनोपन्यस्यति—यदाहुरिति । वाक्यरचनेत्यत्र
वाक्यरचनं वाक्यवचनं चेति पाठद्वयं वामनग्रन्थे सम्प्रत्युपलभ्यते । अत्र पक्षे
'साभिप्रायत्वमस्य च' इत्यत्रेदम्पदेन विशेषणस्य ग्रहणमभिप्रेत्य पूर्वं विशेषणस्य
साभिप्रायत्वमुक्तम् । वामनेनापि 'आश्रयः कृतधियाम्' इत्यत्र विशेषणस्यैव साभि-
प्रायत्वं वर्णित