रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
पृष्ठ 224, कुल 414 में से
संदर्भ में पढ़ें१९२ रसगङ्गाधरः
ब्रह्मन्नध्ययनस्य नैष समयस्तूष्णीं बहिः स्थीयतां
स्वल्पं जल्प बृहस्पते जडमते नैषा सभा वज्रिणः ।
वीणां संहर नारद स्तुतिकथालापैरलं तुम्बुरो
सीतारल्लकभल्ल भग्नहृदयः स्वस्थो न लङ्केश्वरः ॥
इति कस्यचिन्नाटकस्य पद्ये विप्रलम्भशृङ्गाराङ्गीभूतवीररसाक्षेपकपरमै-
श्वर्यपरिपोषकतया स्थितदौवारिकवचनस्य ब्रह्माद्यधिक्षेपपरस्यानौचित्यं
न दोषः । एवमेव 'अले ले सद्दःसमुप्पाडिअहरियकुसग्गंथिमयाच्छ-
मालापइवित्तिविस्सम्भिअबालविह्वन्दःकअणा बम्हणा' इत्यादिविदूषकवच-
नेऽपि रेशब्दादिप्रयोगस्य तत्तथा, हास्यानुगुणत्वात् । एषा हि दिगुपदर्शिता ।
अनया सुधीभिरन्यदप्यूह्यम् ॥
कस्येयमुक्तिः—ब्रह्मन्नित्यादि । अध्ययनस्य = रावणमङ्गलार्थं करिष्यमाणस्य
वेदपाठस्य । तुम्बुरुर्गन्धर्वः । सीतारल्लकेत्यादि । सीताया य आरल्लकः स्वपतिं
राममुद्दिश्य सिन्दूरधारणार्थं तया गृहीता लोहशलाका सिन्दूरसरणिर्वा सैव भल्लक-
स्तेन भग्नं हृदयं यस्य स रावण इत्यर्थः । विप्रलम्भशृङ्गारः = सीता लम्बनको
विप्रलम्भशृङ्गाराभासः । परिपोषकतयेति । अयं ब्रह्मादीनामधिक्षेपः प्रतिपादयति
यत् तस्य रावणस्येदृशं परमैश्वर्यं यद् ब्रह्माद्या अपि तत्समक्षं तुच्छा इति रीत्याऽस्य
परिपोषकत्वम् भवति । उदाहरणान्तरमाह—एवमेवेति । अले ले सद्द
इत्यादिवचनस्य संस्कृतच्छाया यथा—'अरे रे सद्यःसमुत्पाटितहरितकुशग्रन्थिमया-
क्षमालापरिवृत्तिविश्रम्भितबालविधवान्तःकरणा ब्राह्मणाः' इति । सद्यस्तत्क्षणं
समुत्पाटिता अत एव चाशुष्कत्वाद् हरिता ये कुशाः तेषां ग्रन्थयः पर्वाणि तैर्निर्मि-
ताया अक्षमालायाः परिवृत्तिमात्रेण विश्रम्भितं विश्वासं प्रापित बालविधवाना मन्तः-
करणं यैस्ते ब्राह्मणा इति सम्बोधनम् । अनेन वस्तुत एतेषां न ब्रह्मनिष्ठत्वमिति
सूचितम् । तत् = अनौचित्यम्, तथा = न दोषावहम् ॥
"अरे ब्रह्मा ! यह वेदपाठ का समय नहीं, चुपचाप जाकर प्रतीक्षा कर; अरे
मूढ़ बृहस्पति ? धीरे-धीरे बोल, यह इन्द्र की सभा नहीं; ओ नारद ? अपनी वीणा
को हंटा; ओ तुम्बुरु ? स्तुतियां बन्द कर, क्योंकि सीता की सिन्दूर-रेखारूपी बर्छी
से आहत हृदय वाले लङ्काधिपति महाराज रावण इस समय स्वस्थ नहीं हैं ।"
किसी कवि के नाटक में निबद्ध इस पद्य में रावण के द्वारपाल द्वारा ब्रह्मा आदि
की निन्दा करने वाले इस कथन में अनुभूयमान अनौचित्य दोष नहीं है, क्योंकि
यह अनौचित्यपूर्ण कथन रावण के परम ऐश्वर्य का परिपोषक है जिससे विप्रलम्भ-
शृङ्गाराभास का अङ्गभूत रावणालम्बनक वीररस का आक्षेप हो जाता है ।