रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
पृष्ठ 171, कुल 414 में से
संदर्भ में पढ़ेंप्रथमाननम् १३९
अयं पततु निर्दयं दलितदृप्तभूभृद्गल-
स्खलद्रुधिरघस्मरो मम परश्वधो भैरवः ॥
अत्र तदानीं रामत्वेनाऽज्ञातो गुरुकार्मुकभञ्जक आलम्बनम् । अत एव
विशेष्यानुपादानम्, गुरुद्रुहो नामग्रहणानौचित्यात्, क्रोधाविष्काराद्वा ।
ध्वनिविशेषानुमितो निःशङ्कधनुर्भङ्ग उद्दीपकः । परुषोक्तिरनुभावः । गर्वो-
ग्रत्वादयः संचारिणः । एषा च धनुर्भङ्गध्वनिभग्नसमाधेर्भार्गवस्योक्तिः ।
नवोच्छलितेत्यादि । नवोच्छलितं नवोद्भूतं यद् यौवनं तेन स्फुरन्
अखर्वोज्जलपो गर्वस्वरूपो ज्वरो यत्र, अत एव मदीयस्य गुरोर्महेश्वरस्य कार्मुकं
गलितं साध्वसं भयं यस्मिन् कर्मणि तादृशं कार्मुकसम्बन्धि व्रश्चनं छेदनं भङ्गं
कुर्वति (रामे) अयं दृप्तानां भूभृतां दलितैर्गलैः स्खलतो रुधिरस्य घस्मरः पानकर्ता
भैरवो मम परश्वधः परशुः निर्दयं यथा स्यात्तथा पतत्विति पद्यार्थः ।
अत्र रौद्ररसध्वनिमुपपादयति—अत्रेत्यादिना । तदानीम् = धनुर्भङ्गभूमौ क्रुद्ध-
परशुरामोपस्थितिकाले । रामत्वेन = दशरथज्येष्ठपुत्रत्वेन, यौगिकर्तृ कर्मणाधि-
करणत्वेन वा अज्ञात इत्यर्थः । आलम्बनं क्रोधस्य परशुरामनिष्ठस्य । अत एव=
अज्ञातत्वादपीत्यर्थः । विशेष्यस्य = रामस्य । विशिष्यानुपादानमिति पाठस्तु युक्ततरः
प्रतीयते । रामस्यानुपादाने कारणान्तरमाह—गुरुद्रुह इत्यादिना । अनौचित्यं चात्र
रामस्य पातक्तित्वेन बोध्यम् । क्रोधातिरेकेऽपि शत्रुनामग्रहणं प्रायेण न दृश्यत इति
लोकस्वभावोऽपि नामाग्रहणे हेत्वन्तरमित्याह । ध्वनिविशेषोऽत्र रामदोर्बलदलत्
कोदण्डकोलाहल एव । एतादृशस्य ध्वनिविशेषस्य धनुर्भङ्गव्यापकत्वादुक्तमनुमित इति ।
निःशङ्कभञ्जनं च गलितसाध्वसं वृश्चतीत्यनेनात्र पद्य उक्तमेव । रौद्रव्यञ्जने सह-
अब रौद्ररस का उदाहरण देखिए :—
“नवीन यौवन से उत्पन्न असीम अहङ्कारस्वरूपी ज्वर से उद्दीप्त इस क्षत्रिय पर,
जिसने मेरे आराघनीय गुरुदेव—भगवान् पिनाकपाणि ‘शिव’ के धनुष को निर्भीक-
भाव से तोड़ डाला है, मेरा यह भयङ्कर फरशा, जो उद्दान्त क्षत्रियों के कटे गलों से
बहते हुए रक्त को पीने में प्रवीण है, निर्दय होकर प्रहार करे ॥”
इस पद्यार्थ में परशुराम द्वारा क्रोध की अभिव्यक्ति के समय ‘यह राम हैं’
इस प्रकार विशेषरूप में अज्ञात किन्तु ‘इसी ने हमारे गुरु का धनुष तोड़ा है’ इस
प्रकार सामान्य रूप में ज्ञात व्यक्ति आलम्बन है । इसी उद्देश्य से पद्य में
‘राम’ इस विशेष्य का निर्देश नहीं किया गया है । साथ हीं, गुरु के शत्रु का नाम
लेना भी अनुचित है, अथवा क्रोध-काल में विशेष रूप में क्रोध-विषयीभूत व्यक्ति
का नाम लेना स्वाभाविक नहीं होता । इस लिए भी राम का नाम न लिया