सामग्री पर जाएँ
सर्वकोश
रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

Rasagangadhara of Panditaraja Jagannatha with Commentary

पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा

DevanagariHindipublished414 पृष्ठ

पृष्ठ 169, कुल 414 में से

संदर्भ में पढ़ें
पृष्ठ 169

प्रथमाननम् १३७
संपन्नमिति द्योतनाय क्रमभङ्गो गुण एव ।
इदं पुनर्नोदाहार्यम्—
सुरस्रोतस्विन्याः पुलिनमधितिष्ठन्नयनयो-
र्विधायान्तर्मुद्रामथ सपदि विद्राव्य विषयान् ।
विधूतान्तर्ध्वान्तो मधुरमधुरायां चिति कदा
निमग्नः स्यां कस्यांचन नवनभस्याम्बुदरुचि ॥
अत्रापि यद्यपि विषयगणालम्बनः सुरस्रोतस्विनीतीराद्युद्दीपितो नयन-
निमीलनादिभिरनुभावितः स्थायी निर्वेदः प्रतीयते, तथापि भगवद्वासु-
देवालम्बनायां कविरतौ गुणीभूत इति न शान्तरसध्वनिव्यपदेशहेतुः ।
इदं च पद्यं मन्निर्मितायां भगवद्भक्तिप्रधानायां करुणालहर्य्यामुपनिबद्धमिति
प्रत्युदाहरणमाह — इदमित्यादिना ।
सुरस्रोतस्विन्या इत्यादि । विधूतमन्तर्ध्वान्तमज्ञानं यस्य तादृशोऽहं गङ्गातटे