रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
पृष्ठ 163, कुल 414 में से
संदर्भ में पढ़ेंप्रथमाननम् १३१
रौद्रस्यापकर्तृपुरुषादिरालम्बनम् । तत्कृतोऽपराधादिरुद्दीपकः ।
वधबन्धादिफलको नेत्रारुण्यदन्तपीडनपरुषभाषणशस्त्रग्रहणादिरनुभावः ।
अमर्षवेगौग्र्यचापलादयः संचारिणः ।
एवं यस्याश्चित्तवृत्तेर्यो विषयः स तस्या आलम्बनम् । निमित्तानि
चोद्दीपकानीति बोध्यम् ।
तत्र शृङ्गारो द्विविधः—संयोगो विप्रलम्भश्च । रतेः संयोगकालाव-
च्छिन्नत्वे प्रथमः, वियोगकालावच्छिन्नत्वे द्वितीयः । संयोगश्च न दंपत्योः
सामानाधिकरण्यम्, एकतल्पशयनेऽपीर्ष्यादिसद्भावे विप्रलम्भस्यैव वर्ण-
प्रकरणे वक्ष्यति । अमर्ष इति । अयं चानुपदमेव ग्रन्थकृता लक्षितः ।
तदेवं शृङ्गारकरुणशान्तरौद्राणां विभावादीन् विशेषतो वर्णयित्वा सम्प्रति
रसान्तरालम्बनोद्दीपनप्रवृत्तिनिमित्तप्रतिपादन