रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
पृष्ठ 162, कुल 414 में से
संदर्भ में पढ़ें१३० रसगङ्गाधरः
ग्लानिक्षयमोहविषादचिन्तौत्सुक्यदीनताजडतादयो व्यभिचारिणः ।
शान्तस्यानित्यत्वेन ज्ञातं जगदालम्बनम् । वेदान्तश्रवण-तपोवन-तापस-
दर्शनाद्युद्दीपनम् । विषयारुचिशत्रुमित्राद्यौदासीन्यचेष्टाहानिनासाग्रदृष्टया-
दयोऽनुभावाः । हर्षोन्मादस्मृतिमत्यादयो व्यभिचारिणः ।
नुपपत्तेर्बन्ध्वादिनाशस्यैवालम्बनत्वमुचितमिति पण्डितराजाकूतम् । तथा हि यस्या-
श्चित्तवृत्तेर्यो विषयः स एव तस्या आलम्बनम् । प्रकृते च प्रतियोगिनि बन्ध्वादौ
प्रीत्या तन्नाशाऽसहिष्णुत्वलक्षणद्वेषात्मकस्य करुणरसस्थायिनः शोकस्य विषयो न
बन्ध्वादिः, तत्र द्वेषाऽभावात्, अपि तु तन्नाश एवेति युक्तं बन्ध्वादिनाशस्यैवा-
लम्बनत्वं न तु बन्ध्वादेः । यद्वा नष्टबन्ध्वादय एवालम्बनमिति मन्तव्यम्, तथैवा-
नुभवात् सामाजिकानाम् । अत एव स्वयमपि करुणोदाहरणावसरे 'अत्र प्रमीततनय
आलम्बनम्' इति वक्ष्यति । उक्तद्वेषविषयत्वं च यद्यपि नाशस्यैव तथापि अभावस्य
प्रतियोगिविशेषितत्वनियमात् प्रतियोगिनो बन्ध्वादेरपि तत्त्वं कथञ्चिन्निर्वाह्यम् ।
अधिकं विज्ञैर्विवेचनीयम् ।
शान्तं निरूपयति-शान्तस्येत्यादिना । चेष्टाहानिरित्येकोऽनुभावः । हिताऽ-
हितप्राप्तिपरिहारार्था हि क्रिया चेष्टा, सा च सर्वथा जगद्विरक्ते न सम्भवति,
तस्येह जगति समत्वबुद्धेः । यद्यपि पूर्वसंस्कारवशात् स हितमेवादत्ते तथापि तस्य
तत्र हितत्वबुद्धिर्नास्त्येवेत्यर्थः । हर्षोन्माद इति । हर्ष उन्मादश्चेत्यर्थः । अत्रोन्माद-
शब्देन उत्कण्ठादिजन्यश्चित्तविप्लवो न विवक्षितः, तस्य शमप्रधाने चेतस्यसम्भवात् ।
अपि तु परमानन्दप्राप्तिजन्यः परमार्थतोऽसत्ये ब्रह्मभिन्ने जगति सत्यब्रह्मरूपतानुभवः,
व्यवहारतः सत्ये वा जगति परमार्थतस्तद्रूपेणासत्यत्वानुभवो वा । अन्यस्मिन्नन्या-
वभासश्च चित्तविप्लवेऽपि न व्यभिचरति । मत्यादेलक्षणं स्वयमेव भावध्वनि-
करुण रस के आलम्बन विभाव हैं। उस प्रकार के इष्ट जनों के स्मारक
उनके घर, वाहन, आभूषण आदि के दर्शन-स्मरण और उनकी कथा का श्रवण स्मरण
आदि उद्दीपन विभाव हैं। विपत्ति के समय अङ्गों का विक्षेप तथा अश्रुपात आदि
अनुभाव हैं। ग्लानि, क्षय, मोह, विषाद, चिन्ता, औत्सुक्य, दीनता, जड़ता आदि
इस करुण रस के व्यभिचारिभाव हैं ॥
शान्त रस का आलम्बन विभाव तो अनित्य रूप में ज्ञायमान यह सम्पूर्ण
जगत् है। वेदान्त-श्रवण, तपोवन और तपस्वियों के दर्शन आदि इसके उद्दीपन
विभाव हैं । सांसारिक विषयों में अरुचि, शत्रु-मित्र में तटस्थता, हित प्राप्ति या
अहित-निवृत्ति के लिए जनसामान्य द्वारा की जाने वाली चेष्टाओं का अभाव,
नासाग्रभाग पर एकतान दृष्टि आदि इसके अनुभाव हैं और हर्ष, परमानन्दानुभव-
जन्य उल्लास, स्मृति तथा मति आदि इसके व्यभिचारिभाव हैं ॥