सामग्री पर जाएँ
सर्वकोश
रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

Rasagangadhara of Panditaraja Jagannatha with Commentary

पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा

DevanagariHindipublished414 पृष्ठ

पृष्ठ 143, कुल 414 में से

संदर्भ में पढ़ें
पृष्ठ 143

कृत्रिमैरप्यकृत्रिमधिया गृहीतैर्भिन्ने विषयेऽनुमितिसामग्र्या बलवत्त्वादनु-
मीयमानो रसः' इत्यपरे ॥
(७) 'विभावादयस्त्रयः समुदिता रसाः' इति कतिपये ॥ (८) 'त्रिषु य
एव चमत्कारी स एव रसोऽन्यथा तु त्रयोऽपि न' इति बहवः ॥ (९) 'भाव्य-


बोधेन । अकृत्रिमधियेति । अत्र हेतुरभिनयपाटवादिः । शेषो ग्रन्थो व्याख्यातप्रायः ।
अनुमानप्रयोगश्च—दुष्यन्तोऽयं शकुन्तलाविषयकरतिमान्, तद्रतिव्याप्यचेष्टादिमत्त्वात्,
तादृशचेष्टादिमत्पुरुषान्तरवत् । यद्वा आत्मैव दृष्टान्तोऽत्र । अत्र च नटे दुष्यन्त-
तदीय शकुन्तलाविषयकरतेः, तद्व्याप्यचेष्टादेश्च पूर्वारोपसादृश्यादिनैकत्वाध्यव-
सायादारोपितत्वेनेयमनुमितिः भ्रमात्मिकैव, न प्रमात्मिकेति स्पष्टम् । अत्र प्रयोगे
[L10